संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|क्षुद्रकाण्डनाम षोडशकाण्डः| ५६ ते ६० क्षुद्रकाण्डनाम षोडशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०५ १०६ ते ११० १११ ते ११५ ११६ ते १२० १२१ ते १२५ १२६ ते १३० १३१ ते १३५ १३६ ते १४० १४१ ते १४५ १४६ ते १५० १५१ ते १५५ षोडशकाण्डः - ५६ ते ६० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५६ ते ६० Translation - भाषांतर ततश्चैनमन्येन शीर्ष्णा प्राशीर्येनैतमग्रे प्राश्नन् ।शिरस्ते अवपतिष्यतीत्येनमाह ॥१॥तिस्यततश्चैनमन्येन मुखेन प्राशीर्येनैतमग्रे प्राश्नन्।मुखन्ते विङक्षरिष्यतीत्येनमाह ॥२॥ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।अन्धो भविष्यतीत्येनमाह ॥३॥ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।बधिरो भविष्यसीत्येनमाह ॥४॥ततश्चैनमन्येनास्येन प्राशीर्येनैतमग्रे प्राश्नन्॥वाक् ते प्रक्रमिष्यतीत्येनमाह ॥५॥ततश्चैनमन्यया जिह्वया प्राशीर्ययैतमग्रे प्राश्नन् ।जिह्वा ते पूर्वा मरिष्यतीत्येनमाह ॥६॥ततश्चैनमन्येनमन्यैर्दन्तै: प्राशीर्यैरेतमग्रे प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ॥७॥ततश्चैनमन्येनमन्यै: प्राणै: प्राशीर्यैरेतमग्रे प्राश्नन् ।प्राणास्ता हास्यन्तीत्येनमाह ॥८॥ततश्चैनमन्येनोरसा प्राशीर्येनैतमग्रे प्राश्नन् ।कृष्यान रात्स्यसीत्येनमाह ॥९॥ततश्चैनमन्येन व्यचसा प्राशीर्येनैतमग्रे प्राश्नन् ।राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ॥१०॥.ततश्चैनमन्येन पृष्ठेन प्राशीर्येनैतमग्रे प्राश्नन् ।विद्युत् त्वा हनिष्यतीत्येनमाह ॥११॥त्वाततश्चैनमन्येनोदरेण प्राशीर्येनैतमग्रे प्राश्नन् ।दरणत्स्वाहनिष्यतीत्येनमाह ॥१२॥ततश्चैनमन्येन वस्तिना प्राशीर्येनैतमग्रे प्राश्नन् ।अप्सु मरिष्यसीत्येनमाह ॥१३॥ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन् ।ऊरू ते ऽवपत्स्येते इत्येनमाह ॥१४॥ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।स्रामो भविष्यसीत्येनमाह ॥१५॥ततश्चैनमन्याभ्यां पद्भ्यां प्राशीर्याभ्यामेतमग्रे प्राश्नन्।सर्पस्त्वा हनिष्यतीत्येनमाह ॥१६॥ततश्चैनमन्यस्यां प्रतिष्ठायां प्राशीर्यस्यामेतमग्रे प्राश्नन्।अप्रतिष्ठानो भविष्यसीत्येनमाह ॥१७॥ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यामेतमग्रे प्राशन् ।ब्राह्मणं हनिष्यसीत्येनमाह ॥१८॥५७तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीद् बृहस्पतिना शीर्ष्णाशीत् ॥१॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।ओदन एवौदनं प्राशीद् ब्रह्मणा मुखेनाशीत् ॥२॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीद् सूर्याचन्द्रमसाभ्यामक्षिभ्यामाशीत् ॥३॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।ओदन एवौदनं प्राशीद् बृहद्रथन्तराभ्यां श्रोत्राभ्यामाशीत् ॥४॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।ओदन एवौदनं प्राशीद् अग्नेरास्येनाशीत् ॥५॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीद्विद्युता जिह्वयाशीत् ॥६॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीन्मरुद्भिर्दन्तैराशीत् ॥७॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदनः ।ओदन एवौदनं प्राशीद् सप्त ऋषिभिर्प्राणैराशीत् ॥८॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीत्पृथिव्योरसाशीत् ॥९॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीदन्तरिक्षेण व्यचसाशीत् ॥१०॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीद् दिवा पृष्ठेनाशीत् ॥११॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीद् वरुणस्योदरेणाशीत् ॥१२॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीत्समुद्रेण वस्तिनाशीत् ॥१३॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीन्मित्रावरुणोयोरूरुभ्यामाशीत् ॥१४॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: !ओदन एवौदनं प्राशीद् ऋतस्याष्ठीवद्भ्यामाशीत् ॥१५।तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीत्सवितुः पद्भ्यामाशीत् ॥१६॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन: ।ओदन एवौदनं प्राशीदस्यां प्रतिष्ठायां प्राशीत् ॥१७॥तमहं न प्रत्यञ्चं न पराञ्चं नाहमोदनं न मामोदन : ।ओदन एवौदनं प्राशीत्सत्यस्य हस्ताभ्यामाशीत् ॥१८॥तं एनं प्रशीषुस्त एनमारुरोहन् त एनमजीगमन्।एतस्माद्वै लोकान् त्रयस्त्रिंशतं प्रजापतिं निर्मिमीतः ॥१९॥पतिन्तस्य गुप्तये यज्ञानसृजन्त देवाः।ये त्रयस्त्रिंशत् प्रजापतिसृष्टा पुण्यलोकाः ।ते ऽस्य सर्वे ऽभिजिता अवरुद्धा भवन्ति य एवं वेद ॥२०॥५८एष वा ओदनः सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठ:।सर्वाङ्ग: सर्वात्मा सर्वपरु: सर्वपात्सर्वपृष्ठो भवति य एवं वेद ॥१॥स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ।न च प्राणं ऋणद्ध्य अथ सर्वस्सं जीयते ॥२॥न च सर्वस्सं जियते अथैनमाहाप्रतिष्ठानो ऽनायतनो मरिष्यसीति ।अप्रतिष्ठान एवानायतनो म्रियते य एवं विदुष उपद्रष्टा भवति ॥३॥५९केन पार्ष्णी आभूते पुरुषस्य केन मांसं संभृतं केन गुल्फौ ।केनाङ्गुलीः पेशनी: केनखानिः केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम्! ॥१॥कस्मान्नु गुल्फावधरावकृण्वन्नष्ठीवन्तावुत्तरौ पुरुषस्य ।निर्ऋत्यजङ्घे न्यदधु: क्वस्विज्जानुनी: संधी को इमौ जजान ॥२॥चतुष्टयं युज्यते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् !श्रेणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुधृतिर्बभूव ॥३॥कति देवा: कतमे त आसन् य उरश्चिक्युरर्ग्र्यं पुरुषस्य ।कति स्तनौ न्यदधु: क: कफोडौ कति स्कन्धान् कति पृष्ठीरचिन्वन् ॥४॥को अस्य बाहू समभरद्वीर्यं कृणवादिति ।अंसौ को अस्य तद्देव: कुसिन्ध आदधादधि ॥५॥मस्तिष्कमस्य यतमो ललाटं ककाटिकां प्रथमो य: कपालम् ।चित्वा चित्यं पुरुषस्य हन्वो दिवं रुरोह कतम: स देव: ॥६॥क: सप्त खानि वि ततर्द शीर्षणि कर्णाविमावक्ष्णा नासिके मुखम् ।येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ॥७॥हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम ! ।स आ वरीवर्ति महिनाव्योमन्नपोवसान: का उ चित्प्रवेद ॥८॥मूर्धानामस्य संसीव्याथर्वा हृदयं च यत्॥मस्तिष्कादूर्ध्वं प्रैरयत् पवमानो ऽधि शीर्ष्णः ॥९॥तद्वा अथर्वणः शिरो देवकोशः समुब्जितः।तत्प्राणो अभि रक्षतु श्रियं अन्नमथो मन: ॥१०॥६०प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्य: ।आनन्दमुग्रो नन्दांश्च तानिद्वहति पुरुष: ॥१॥आर्तिरवर्तिनिर्ऋति कुतो नु पुरुषेमतिः ।ऋद्धिः समृद्धिरव्यृद्धिर्मतिरुदितय: कुत: ॥२॥को अस्मिन्नापो अदधाद्विषूवृत: पुरूच्युत: सिन्धुसृत्याय जाता: ।तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाची: पुरुषे तिरश्ची: ॥३॥उर्ध्वाको ऽस्मिन् प्राणमदधात् को अपानं व्यानमु ।समानमस्मिन् को देवो ऽधि शिश्राय पुरुषे ॥४॥को ऽस्मिन् रूपमदधात् को मह्मानं च नाम च !गातुं को अस्मिन् क: केतुं कश्चरित्राणि पूरुषे ॥५॥को अस्मिन् रेतो अदधात्तन्तुरा तायतामिति ।मेधां को अस्मिन्नध्यौहत् को वाणं को नृतो दधौ ॥६॥को वाससा पर्यदधात् को अस्यायुरकल्पयत् ।बलं को अस्मै प्रायच्छत् को अस्याकल्पयज्जवम् ॥७॥को अस्मिन् यज्ञमदधादेको अग्रेधि पुरुषे ।को अस्मिन् सत्यं कोनृतं को मृत्युं को अमृतं दधौ ॥८॥केनापो अन्वतनुत केनाहरकृणोद् रुचे ।उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥९॥केनेमां भूमिमौर्णोत् केन पर्यभवद्दिवम् ।केनाभि मह्ना पर्वतान् केन कर्माणि पूरुषः ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP