तृतीयाः पाद: - सूत्र ५१-५३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अद्दष्टानियमा‍त् ॥५१॥

स्यादेतत् । अदृष्टनिमित्तो नियमो भविष्यतीति ।
नेत्याह ॥
अदृष्टानियमात् ॥
बहुष्वात्मस्वाकाशावत्सर्वगतेषु प्रतिशरीरं बाहयाभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्माधर्मलक्षणमदृष्टमुपार्ज्यते ।
सांख्यानां तावत्तदनात्मसमवायिप्रधानवर्तिप्रधानासाधारण्यान्न प्रत्यात्मं सुखदु:खोपभोगस्य नियामकमुपपद्यते ।
काणादानामपि पूर्ववत्साधारणेनात्ममन: संयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवत्मन इदमदृमिति नियमे हेत्वभावादेष एव दोष: ॥५१॥

अभिसंध्यादिष्वपि चैवम् ॥५२॥

स्यादेतत् । अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयत इत्थं करवाणीत्येवंविधा अभिसन्ध्यादय: प्रयात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति ।
नेत्याह ।
अभिसन्ध्यादिष्वपि चैवम् ॥
अभिसन्ध्यादीनामपि साधारणेनैवात्ममन: संयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥५२॥

प्रदेशादिति चेन्नान्तर्भावा‍त् ॥५३॥

प्रदेशादिति चेन्नान्तर्भावात् ॥ अथोच्येत विभुत्वेऽप्यात्मन: शरीरप्रतिष्ठेन मनसा संयोग: शरीरावच्छिन्न एवात्मप्रदेशे भविष्यत्यत: प्रदेशकृता व्यवस्थाऽभिसन्ध्यादीनामदृष्टस्य सुखदु:खयोश्च भविष्यतीति ।
तदपि नोपपद्यते ।
कस्मात् ।
अन्तर्भावात् ।
विभुत्वाविशेषाद्धि सर्व एवात्मान: सर्वशरिरेष्वन्तर्भवन्ति ।
तत्र न विअशेषिकै: शरीरावच्छिन्नोऽप्यात्मन: प्रदेश: कल्पयितुं शक्य: ।
कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मन: प्रदेश: काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति ।
शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् ।
प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनो: समानसुखदु:खभाजो: कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धि: स्यात् ।
समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् ।
तथा हि देवदत्तो यस्मिन्प्रदेशे सुखदु: खमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समान: सुखदु: खानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयो: समानप्रदेशमदृष्टं न स्यात् ।
स्वर्गाद्यनुपभोग प्रसङ्गश्च प्रदेशवादिन: स्यात् ।
ब्राम्हाणादिशरीरप्रदेशेष्वदृष्टनिष्पत्ते: प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य ।
सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां दृष्टान्ताभावात् ।
वद तावत्त्वं के बहव: समानप्रदेशाश्चेति ।
रूपादय इति चेत् । न ।
तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च ।
न तु बहूमानात्मनां लक्षणभेदोऽस्ति ।
अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् । न ।
भेदकल्पनाया अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् ।
आकाशादीनामपि विभुत्वं ब्रम्हावादिनोऽसिद्धं कार्यत्वाभ्युपगमात् ।
तस्मादात्मैकत्वपक्ष एव सर्वदोपाभाव इति सिद्धम् ॥५३॥


इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीय: पाद: ॥३॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP