तृतीयाः पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वात्मना चोत्तरयो: ॥२०॥

स्वात्मना चोत्तरयो: ।
उत्क्रान्ति: कदाचिदचलतोऽपि ग्रामस्वाम्यनिवृत्तिद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत ।
उत्तरे तु गत्यागती नाचलत: संभवत: ।
स्वात्मना हि तयो: संबन्धो भवति गमे: कर्तृस्थक्रियात्वात् ।
अमध्यमपरिमाणस्य च गत्यगती अणुत्व एव संभवत: ।
सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते ।
न हयनपसृप्तस्य देहाद्नत्यागती स्याताम् ।
देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् ।
चक्षुष्टो वा मूर्न्धो वाऽन्येभ्यो वा शरीरदेशेभ्य इति ।
स एतास्तेजोमात्रा: समभ्याददानो हृदयमेवान्ववक्रामति ।
शुक्रमादाय पुनरैति स्थानमिति चान्तरेऽपि शरीरे शारीरस्य गत्यागती भवत: ।
तस्मादप्यस्याणुत्वसिद्धि: ॥२०॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP