संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र २९ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र २९ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २९ Translation - भाषांतर तदनुणसारत्वात्तुतद्वयपदेश: प्राज्ञवत् ॥२९॥तशब्द: पक्षं व्यावर्तयति । नैतदस्त्यणुरात्मेति ।उत्पत्त्यश्रवणात्परस्यैव तु ब्रम्हाण: प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रम्हा जीव इत्युक्तम् ।परमेव चेद्द्रहय जीव्स्तस्माद्यावत्परं ब्रम्हा तावानेव जीवो भवितुमर्हति परस्य च ब्रम्हाणो विभुत्वमान्नातम् ।तस्माद्विभुर्जीव: ।तथा च स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेष्वित्येवंजातीयका जीवविषया विभुत्ववादा: श्रौता: स्मार्ताश्च समर्थिता भवन्ति ।न चाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते ।त्वक्संबधात्स्यादिति चेत् । न ।कण्टकतोदनेऽपि सकलशरीरगतैव वेदना प्रसज्येत ।त्वक्कण्टकयोर्हि संयोग: कृत्स्नयां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति ।पादतल एव तु कण्टकनुन्नो वेदनां प्रतिलभते ।न चाणोर्गुणव्याप्ति रुपपद्यते गुणस्य गुणिदेशत्वात् ।गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत ।प्रदीपपरभायाश्च द्रव्यान्तरत्वं व्याख्यातम् ।गन्धोऽपि गुणत्वाभ्युपगमात्साश्रयएव संचरितुमर्हति ।अन्यथा गुणत्वहानिप्रसङगात् ।तथा चोक्तं भगवता द्वैपायनेन ।उपलभ्याप्सु चेन्द्रन्धं केचिदब्रूयुरनैपुणा: ।पृथिव्यामेव तं विद्यादपो वायुं च संश्रितमिति ।यदि च चैतन्यं जीवस्य समस्तशरीरं व्याप्नुयान्नाणुर्जीव: स्यात् ।चैतन्यमेव हयस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ ।नात्र गुणगुणिविभागो विद्यते इति ।शरीरपरिमाणत्वं च प्रत्याख्यातम् ।परिशेषाद्विभुर्जीव: ।कथं तहयणुत्वादिव्यपदश इत्यत आह तदनुणसारत्वात्तु तव्द्यपदेश इति ।तस्या बुद्धेर्गुणास्तदनुणा इच्छा द्वेष: सुखं दु:खमित्येवमादय: ।तदनुणा: सार: प्रधानं यस्यात्मन: संसारित्वे संभवति स तदनुणसारस्तस्य भावस्तदनुणसारत्वम् ।न हि बुद्धेर्गुणैर्विना केवलस्यात्मन: संसारित्वमस्ति ।बुद्धयुपाधिधर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तुरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मन: ।तस्मात्तदनुणसारत्वादबुद्धिपरमाणेनास्य पर्माणव्यपदेश: ।तदुत्क्रान्य्त्यादिभिश्चास्योत्क्रान्त्यादिव्यपदेशोन स्वत: ।तथा च बालाग्रशतभागस्य शतधा कल्पितस्य च ।भागो जीव; स विज्ञेय: स चानन्त्याय कल्पतैत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ।तच्चैवमेव समञ्जस स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् ।न हयुभयं मुख्यमवकल्पेत । न चानन्त्यमौपचारिकमिति सक्यं विज्ञातुं सर्वोपनिषत्सु ब्रम्हात्मभावस्य प्रतिपिपादयिषितत्वात् ।तथेतरस्मिन्नप्युन्माने बुद्धेर्गुणेनात्मगुणेन चैवाराग्रमात्रो हयवरोऽपि द्दष्ट इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना ।एषोऽणुरात्मा चेतसा वेदितव्य इत्यत्राऽपि न जीवस्याणुपरिमाणत्वं शिष्यते परस्यैवात्मनश्वक्षुराद्यनवग्राहयत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् ।जीवस्याऽपि च मुख्याणुपरिमणत्वानुपपत्ते: ।तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् ।तथा प्रज्ञया शरीरं समारुहयेत्येवंजातीयकेष्वपि भेदोपदेशेषु बुद्धयैवोपाधिभूतया जीव: शरीरं समारुहयेत्येवं योजयितव्यम् ।व्यपदेशमात्रं चात्र शिलापुत्रकस्य शरीरमित्यादिवत् ।न हयत्र गुणगुणिविभागो विद्यत इत्युक्तम् ।ह्रदयायतनत्ववचनमपि बुद्धेरवे तदायतनत्वात् ।तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति कस्मिन्न्वहमुत्क्राअन्त उत्क्रन्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते ।न हयनपसृप्तस्य देहादनत्यागती स्याताम् ।एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेश: प्राज्ञवत् ।यथा प्राज्ञस्य परमात्मन: सगुणेषूपासनेषूपाधिगुन्सारत्वादणीयस्त्वादिव्यपदेशोऽणीयान्त्रीहेर्वा यवाद्वा मनोमय: प्राणशरीर: सर्वगन्ध: सर्वरस: सत्यकाम: सत्यसंकल्प इत्येवंप्रकारस्तद्वत् ॥२९॥ N/A References : N/A Last Updated : December 10, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP