तृतीयाः पाद: - सूत्र १३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तदभिध्यानादेव तु तल्लिङ्गात्स: ॥१३॥

तदभिध्यानादेव तु  तल्लिङ्गात्स: ।
किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्वित्परमेश्वर एव तेन तेनात्मनाऽवतिष्ठमानोऽभिध्यायंस्तं तं विकारं सृजतीति संदेहे सति प्राप्त तावत्सयमेव सृजन्तिति ।
कुत: । आकाशाद्वायु: । वायोरग्नि ।
इत्यादिस्वातन्त्र्यश्रवणात् ।
नन्वचेतनानां स्वतन्त्राणां प्रवृत्ति: प्रतिषिद्धा ।
नैष दोष: ।
तत्तेज ऐक्षत ता आप ऐक्षन्तेति च भूतानामपि चेतनत्वश्रवणादिति ।
एवं प्राप्तेऽभिधीयते ।
स एव परमेश्वरस्तेन तेनात्मनाऽवतिष्ठमानोऽभिध्यासंस्तं तं विकारं सृजतीति । कुत: ।
तल्लिङ्गात् । यथा हि शास्त्रं य: पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं य: पृथिवीमन्तरो यमयतीत्येवंजातीयकं साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयति ।
तथा सोऽकामयत ।
बहु स्यां प्रजायेय इति ।
प्रस्तुत्य सच त्यच्चाभवत् ।
तदात्मान स्वयमकुरुत ।
इति च तस्यैव च सर्वात्मभावं दर्शयति ।
यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् ।
नान्योऽतोऽस्ति द्रष्टेतीक्षित्रन्तरप्रतिषेधात् ।
प्रकृतत्वाच्च सत ईक्षतुस्तदैक्षत बहु स्यां प्रजायेयेत्यत्र ॥१३॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP