संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ३६-३७ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ३६-३७ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३६-३७ Translation - भाषांतर व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: ॥३६॥व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: । इतश्च जीवस्य कर्तृत्वं यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रं विज्ञानं यज्ञं तनुते ।कर्माणि तनुतेऽपि चेति ।ननु विज्ञानशब्दो बुद्धौ समधिगत: ।कथमनेन जीवस्य कर्तृत्वं सूच्यत इति ।नेत्युच्यते । जीवस्येव निर्देशो न बुद्धे: ।न चेज्जीवस्य स्यान्निर्देशविपर्यय: स्यात् ।विज्ञानेनेत्येवं निरदेक्ष्यत् ।तथा हयन्यत्र बुद्धिविवक्षयां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति ।इह तु विज्ञानं यज्ञं तनुत इति कर्तृसामानाधिकरण्यनिर्दिशादबुद्धिव्यतिरिक्तस्यैवात्मन: कर्तृत्वम सूच्यत इत्यदोष: ॥३६॥उपलब्धिवदनियम: ॥३७॥अत्राह यदि बुद्धिव्यतिरिक्तो जीव: कर्ता स्यात्स स्वतन्त्र: स्वतन्त्र: सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् ।विपरीतम् । विपरीतमपि तु संपादयन्नुपलभ्यते ।न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति ।अत उत्तरं पठति ।उपलब्धिवदनियम: ॥यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति ।उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतुफादानोपलम्भादिति चेत् । न ।विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् ।उपलब्धौ त्वनन्याप्रेक्षत्वमात्मनश्चैद्तन्ययोगात् ।अपै चार्थक्रियायामपि नात्यन्तमात्मन: स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् ।न च सहायापेक्षस्य कर्तु: कर्तृत्वं निवर्तते ।भवति हयेधोदकाद्यपेक्षस्यापि पक्तु: पक्तृत्वम् ।सहकारिवैचित्र्याञ्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते ॥३७॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP