संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ४६ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ४६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४६ Translation - भाषांतर प्रकाशादिवन्नैवं पर: ॥४६॥अत्राह ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदु:खोपभोगेनांशिन ईश्वरस्यापि दु:खित्वं स्यात् ।तथा लोके हस्तपादाद्यन्यतमाङ्गतेन दु:खेनाङ्गिनो देवदत्तस्य दु:खित्वं तद्वत् ।ततश्च तत्प्राप्तानां महत्तरं दु:खं प्राप्नुयात् ।अतोऽवरं पूर्वावस्थ: संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्ग: यादिति ।अत्रोच्यते ।प्रकाशादिवन्नैवं पर: ॥यथा जीव: संसरदु:खमनुभवति नैवं पर ईश्वरोऽनुभवतीति प्रतिजानीमहे ।जीवो हयविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दु:खेन दु:ख्यहमित्यविद्याकृतं दु:खोपभोगमभिमन्यते नैवं परमेश्वरस्य देहाद्यात्मभावो दु:खाभिमानो वास्ति ।जीवस्याऽपि अविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दु:खाभिमानो न तु पारमार्थिकोऽस्ति ।यथा च स्वदेहगतदाहच्छेदादिनिमित्तं दु:खं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दु:खं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रोऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमान: ।सततश्च निश्चितमेतदवगम्यते मिथ्याभिमानभ्रमनिमित्त एव दु:खानुभव इति ।व्यतिरेकदर्शनाच्चैवमवगम्यते ।तथा हि पुत्रमित्रादिमस्तु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाधुद्धोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दु:खमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् ।अतश्च लौकिकस्याऽपि पुंस: सम्यग्दर्शनार्थवत्त्वं द्दष्टं किमुत विषयशून्यादात्मनोऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूफस्येति ।तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्ग: ।प्रकाशादिवदिति निदर्शनोपन्यास: ।यथा प्रकाश: सौर्यश्चान्द्रमसो वा वियव्द्याप्यावतिष्ठमानोऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवकादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानोऽपि न परमार्थतस्तद्भावं प्रतिपद्यते यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानोऽपि न परमार्थतो गच्छति यथा चोदशरावादिकम्पनात्तद्नते सूर्यप्रतिबिम्बे कम्पमानेऽपि न तद्वान्सूर्य: कम्पत एवमविद्याप्रत्युपस्थापिते बुद्धयाद्युपहिते जीवाख्येंऽशे दु:खायमानेऽपि न तद्वानीश्वरो दु:खायते ।जीवस्यापि तु दु:खप्राप्तिरविद्यानिमित्तैवेत्युक्तम् ।तथा चाविद्यानिमित्तजीवभावव्युदासेन ब्रम्हाभावमेव जीवस्य प्रतिपादयन्ति वेदान्तास्तत्त्वमसीत्येवमादय: ।तस्मान्नास्ति जैवेन दु:खेन परमात्मनो दु:खित्वप्रसङ्ग ॥४६॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP