संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ४० तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ४० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४० Translation - भाषांतर यथा च तक्षोभयथा ॥४०॥यथा च तक्षोभयथा ।एंव तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभि: कर्तृत्वं शारीरस्य प्रदर्शितं तत्पुन: स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते ।तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभि: स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति ।एवं प्राप्ते ब्रूम: ।न स्वाभाविकं कर्तृत्वमात्मन: संभवत्यनिर्मोक्षप्रसङ्गात् ।कर्तृत्वस्वभावतत्वे हयात्मनो न कर्तृ त्वान्निर्मोक्ष: संभवति ।अग्नेरिवौष्ण्यात् ।न च कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थासिद्धि: कर्तृत्वस्य दु:खरूपत्वात् ।ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थ सेत्स्यति ।तत्परिहारश्च निमित्तपरिहारात् ।यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठैव्योगाद्दहनकार्याभावस्तद्वत् । न । निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् ।ननु मोक्षसाधनविधनान्मोक्ष: सेत्स्यति । न । साधनायत्तस्यानित्यत्वात् ।अपि चनित्य्युद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता ।तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वेऽवकल्पेत ।तस्मादुपाधिधर्माध्यासेनैवात्मन: कर्तृत्वां न स्वाभाविकम् ।तथा च श्रुतिर्ध्यायतीव लेलायतीवेति ।आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिण इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तृत्वादिविशेषलाभं दर्शयति । न हि विवेकिनां परम्सादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते नान्योऽतोऽस्ति द्रष्टेत्यादि श्रवणात् ।पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत परस्मादन्यश्चेच्चितिमाञ्जीव: कर्ता बुद्धयादिसङ्घातव्यतिरिक्तो न स्यात् । न ।अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयो: ।तथा च शास्त्रं यत्र हि द्वितमिव भवति तदितर इतरं पश्यतीत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति यत्र त्वस्य सर्वमात्मैवाभुत्तत्केन कं पश्येदिति ।यथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपतत: श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरमित्यारभ्यैषास्य परमा गतिरेषास्य परमा सम्पदेषोऽस्य परमो लोक एषोऽस्य परम आनन्द इत्युपसंहारात् ।तदेतदाहाचर्य: ।यथा च तक्षोभयथेति ।त्वर्थे चायं च: पठित: ।नैवं मन्तव्यं स्वाभाविकमेवात्मन: कर्तृत्वमग्नेरिवौष्ण्यमिति ।यथा तु तक्षा कोके वास्यादिकरणहस्त: कर्ता दु:खी भवति स एव स्वगृहं प्राप्ते विमुक्तवास्यादिकरण: स्वस्थो निर्वृतो निर्व्यापार: सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयो: कर्ता दु:खी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रम्हा प्रविश्य विमुक्तकार्यकरणसंघातोऽकर्ता सुखी भवति संप्रसादावस्यायाम् ।तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निर्वृत: सुखी भवति ।तक्षदृष्टान्तश्चैतावतांशेन द्रष्टव्य: ।तक्षा हि विशिष्टेषु तक्षणादिषु व्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति ।स्वशरीरेण त्वकर्तैव ।एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति स्वात्मना त्वकर्तैवेति ।न त्वात्मनस्तक्शण इवावयवा: सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा ।यत्तूक्तं शास्त्रार्तह्वत्त्वादिभिर्हेतुभि: स्वाभाविकमात्मन: कृर्तृत्वमिति । तन्न ।विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मन: प्रतिपादयति ।न च स्वाभाविकमस्य कर्तृत्वमस्ति ब्रम्हात्मत्वोपदेशादित्यवोचाम ।तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते ।कर्ता विज्ञानात्मा पुरुष इत्येवंजातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्तमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति ।एतेन विहारोपादाने परिहृते ।तयोरप्यनुवादरुपत्वात् ।ननु सन्ध्ये स्थाने स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमान: केवलस्यात्मन: कर्तृत्वमावहति ।तथोपादानेऽपि तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यैवात्मन: कर्तृत्वं गमयत इति ।अत्रोच्यते । न तावत्सन्ध्ये स्थानेऽत्यन्तमात्मन: करणविरमणमस्ति ।सधी: स्वप्नो भूत्वेमं लोकमतिक्रामतीति तत्रापि धीसंबन्धश्रवणात् ।तथा च स्मरन्ति - इन्द्रियाणामुपरमे मनोऽनुपरतं यदि ।सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनमिति ।कामादयश्च मनसो वृत्तय इति श्रुति: ।ताश्च स्वप्ने दृश्यन्ते ।तस्मात्समना एव स्वप्ने विहरति ।विहारोऽपि च तत्रत्यो वासनामय एव न तु पारमार्थिकोऽस्ति तथा च श्रुतिरिवकारानुबद्धमेव स्वप्नव्यापारं वर्नयति ।उतेव स्त्रीभि: सह मोदमानो जक्षदुतेवापि भयानि पश्यन्निति । लौकिका अपि तथैव स्वप्नं कथयन्ति ।आरुरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति ।तथोपादानेऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मन: कर्तृत्वं द्रष्टव्यम् ।केवले कर्तृत्वासंभवस्य दर्शितत्वात् ।भवति च लोकेऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति ।अपि चास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमत्य दृष्टत्वात् ।यस्त्वयं व्यपदेशो दर्शितो विज्ञानं यज्ञं तनुत इति स बुद्धेरेव कर्तृत्वं प्रापयति ।विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् ।मनोनन्तरं पाठाच्च ।तस्य श्रद्धैव सिर इति च विज्ञानमयस्यात्मन: श्रद्धाद्यवयवत्वसंकीर्तनात् ।श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धे: ।विज्ञानं देवा: सर्वे ब्रम्हा ज्येष्थमुपासत इति च वाक्यशेषात् ।ज्येष्ठत्वस्य च प्रथमजत्वस्य बुद्धौ प्रसिद्धत्वात् ।स एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारणात् ।न च बुद्धे: शक्तिविपर्यय: करणानां कर्तृत्वाभ्युपगमे भवति ।सर्वकारकाणामेव स्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् ।उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं सा चात्मन: ।न च तस्यामप्यस्य कर्तृत्वमस्ति ।नित्योपलब्धिस्वरूपत्वात् ।अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति ।अहङ्का रस्याप्युपलभ्यमानत्वात् ।न चैवं सति करणान्तरकपनाप्रसङ्ग: । बुद्धे: करणत्वाभुपगमात् ।समाध्यभावस्तु शास्त्रार्थवत्त्वेनैव परिहृत: ।यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् ।तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥४०॥ N/A References : N/A Last Updated : December 12, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP