तृतीयाः पाद: - सूत्र ४४-४५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


मन्त्रवर्णाच्च ॥४४॥

कुतश्चांशत्वावगम: । मन्त्रवर्णाच्च ॥
मन्त्रवर्णश्चैतमर्थमवगमयति तावानस्य महिमा ततो ज्यायांश्च पूरूष: ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ।
अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि विर्दिशति ।
अहिंसन्सर्वभूतान्यन्यत्र तार्थभ्य इति प्रयोगात् ।
अंश: पादो भाग इत्यनर्थान्तरम् ।
तस्मादप्यंशत्वावगम: ॥४४॥

अपि च स्मर्यते ॥४५॥

कुतश्चांशत्वावगम: । अपि च स्मर्यते ॥
ईश्वरगीतास्वपि चेश्वरांशत्वं जीवस्य स्मर्यते ।
ममैवांशो जीवलोके जीवभूत: सनातन इति ।
तस्मादप्यशत्वावगम: ।
यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति ।
यद्यप्येषा लोके प्रसिद्धिस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते ।
निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किंचिद्विप्रतिषिध्यते ॥४५॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP