तृतीयाः पाद: - सूत्र २१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ॥२१॥

नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् ।  
अथापि स्यान्नाणुरयमात्मा ।
कस्मात् । अतच्छ्रुते: ।
अणुत्वविपरीतपरिमाणशअवणादित्यर्थ: ।
स वा एष महानज आत्मा योऽयं विज्ञानमय: प्राणेष्वाकाशवत्सर्वगतश्च नित्य: सत्यं ज्ञानमनन्तं ब्रम्होत्येवंजातीयका हि श्रुतिरात्मनोऽणुत्वे विप्रतिषिध्येतेति चेत् ।
नैष दोष: ।
कस्मात् । इतराधिकारात् ।
परस्य हयात्मन: प्रक्रियायामेषा परिमाणान्तरश्रुति: ।
परस्यैवात्मन: प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् ।
विज: पर आकाशादित्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् ।
ननु योऽयं विज्ञानमय: प्राणोष्विति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते ।
शास्त्रदृष्टया त्वेष निर्देशो वामदेववद्द्रष्टव्य: ।
तस्मात्प्राज्ञविषयत्वापरिमाणान्तरश्रवणस्य न जीवस्याणुत्वं विरुध्यते ॥२१॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP