संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ३० तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ३० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ३० Translation - भाषांतर यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥३०॥स्यादेतद्यदि बुद्धिगुणसारत्वादात्मन: संसारित्वं कल्प्येत ततो बुद्धयात्मनोर्भिन्नयो: संयोगावसानमवश्यं भावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति ।अत उत्तरं पठति ।यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ।नेयमनन्तरनिर्दिष्टादोषप्राप्तिराशङ्कनीया ।कस्मात् । यावदात्मभावित्वाद्बुद्धिसंयोगस्य ।यावदयमात्मा संसारी भवतियावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुद्धया संयोगो न शाम्पति ।यावदेव चायं बुध्युपाधिसंबन्धस्तावदेवास्य जीवस्य जीवत्वं संसारित्वं च ।परमार्थतस्तु न जीवो नाम बुद्धयुपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति ।न हि नित्यमुक्तस्वरू पात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते ।नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता नान्यदतोऽस्तिद्रष्ट्ट श्रोतृ मन्तृ विज्ञातृ तत्त्वमस्यहं ब्रम्हास्मीत्यादिश्रुतिशतेभ्य: ।कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ।तद्दर्शनादित्याह ।तथा हि शास्त्रं दर्शयति योऽयं विज्ञानमय: प्राणेषु ह्रद्यन्तर्ज्योति: पुरुष: स समान: सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतिवेत्यादि ।तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति ।प्रदेशान्तरे विज्ञानमयो मनोमय: प्राणमयश्चक्षुर्मय: श्रोत्रमय इति विज्ञानमयस्य मन आदिभि: सह पाठात् ।बुद्धिमयत्वं च तदनुणसरत्वमेवाभिप्रेयते ।यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते तद्वत् ।स समान: सन्नुभौ लोकावनुसंचरतीति च लोकान्तरगमनेऽप्यवियोगं बुद्धया दर्शयति केन समानस्तयैव बुद्धयेति गम्यते संनिधानात् ।तच्च दर्शयति ध्यायतीव लेलायतीवेति ।एतदुक्तं भवति ।नायं स्वतो ध्यायति नापि चलति ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति ।अपि च मिथ्याज्ञानपुर: सरोऽयमात्मनो बुद्धयुपाधिसंबन्ध: । न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावदब्रम्हात्मतानवबोधस्तावदयं बुद्धयुपाधिसंबन्धो न शाम्यति ।दर्शयति च वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् ।तमेव विदित्वाऽतिमृत्यमेति नान्य: पन्था विद्यतेऽयनायेति ॥३०॥ N/A References : N/A Last Updated : December 10, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP