संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| तृतीयाः पाद:| सूत्र ६ तृतीयाः पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७,२८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३-३५ सूत्र ३६-३७ सूत्र ३८-३९ सूत्र ४० सूत्र ४१ सूत्र ४२ सूत्र ४३ सूत्र ४४-४५ सूत्र ४६ सूत्र ४७ सूत्र ४८ सूत्र ४९-५० सूत्र ५१-५३ तृतीयाः पाद: - सूत्र ६ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ६ Translation - भाषांतर प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्य: ॥६॥एवं प्राप्त इदमाह । प्रतिहानिरव्यतिरेकाच्छब्देभ्य: ।येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमित्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं विदितमिति कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति न काचन मद्बहिर्धा विद्यास्तीति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते ।तस्या: प्रतिज्ञाया एवमहानिरनुपरोध: स्याद्यद्यव्यतिरेक: कृत्स्नस्य वस्तुजातस्य विज्ञेयादब्रम्हाण: स्यात् ।व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा हीयेत ।स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्मादब्रम्हाण उत्पद्येत ।शब्देभ्यक्ष प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते ।तथा हि येनाश्रुतं श्रुतं भवतीति प्रतिज्ञाय मृदादिदृष्टान्तै: कार्यकारणाभेदप्रतिपादनपरै: प्रतिज्ञैपा समर्थ्यत तत्साधनायैव चोत्तरे शब्दा: सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं तदैक्षत तत्तेजोऽसृजतेति ।एवं कार्यजातं ब्रम्हाण: प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति - ऐतदात्म्यमिदं सर्वमित्यारभ्याप्रपाठकपरिसमाप्ते: ।तद्यद्याकाशं न ब्रम्हाकार्यं स्यान्न ब्रम्हाणि विज्ञात आकाशं विज्ञायेत ततश्च प्रतिज्ञाहानि: स्यात् ।न च प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् ।तथा हि प्रतिवेदान्तं ते शब्दास्तेनतेन दृष्टान्तेन तामेव प्रतिज्ञां स्थापयन्तीदं सर्व यदयमात्मा ब्रम्हौवेदममृतं पुरस्तादित्येवमादय: ।तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते ।यदुक्तमश्रुतेर्न वियदुत्पद्यत इति तदयुक्तं वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात्तस्माद्वा एतस्मादात्मन आकाश: संभूत इति \सत्यं दर्शितं विरुद्धं तु तत्तेजोऽसृजतेत्यनेन श्रुत्यन्तरेण । न । एकवाक्यत्वात्सर्वश्रुतीनाम् ।भवत्वेकवाक्यत्वमविरुद्धानामिह तु विरोध उक्त: सकृच्छुतस्य स्रष्टु: स्रष्टव्यद्वयसंबन्धासंभवाददब्रयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति ।नैष दोष: ।तेज: सर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात्तस्माद्वा एतस्मादात्मन आकाश: संभूत ।आकाशाद्वायु: । वायोरग्निरिति ।अशक्या हीयं श्रुतिरन्यथा परिणेतुं शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्टवा तत्तेजोऽसृजतेति । न हीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति ।एकस्य वाक्यस्य व्यापारद्वयासंभवात् ।स्रष्टा त्वेकोऽपि क्रमेणानेकं स्रष्टव्यं सृजेदित्येकवाक्यत्वकपनायां संभवन्त्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या ।न चास्माभि: सकृच्छुतस्य स्रष्टु: स्रष्टव्यद्वयसंबन्धोऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् ।यथा च सर्वं खल्विदं ब्रम्हातज्जलानित्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रम्हाजत्वं श्रूयमाणं न प्रदेशान्तरवि हितं तेज: प्रमुखमुत्पत्तिक्रमं वारयत्येवं तेजसोऽपि ब्रम्हाजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभ: प्रमुखमुत्पत्तिक्रमं वारयितुमर्हति ।ननु शमविधानार्थमेतद्वाक्यम् ।तज्जलानिति शान्त उपासीतेति श्रुते: ।नैतत्सृष्टिवाक्यम् ।तस्मादेतन्न प्रदेशान्तरप्रसिद्धं कममनुरोद्धुमर्हतीति ।तत्तेजोऽसृजतेत्येतत्सृष्टिवाक्यम् ।तस्मादत्र यथा शृतिक्रमो ग्रहीतव्य इति ।नेत्युच्यते । न हि तेज: प्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थ: परित्यक्तव्यो भवति ।पदार्थधर्मत्वात्क्रमस्य । अपि च तत्तेजोऽसृजतेति नात्र क्रमस्य वाचक: कश्चिच्छब्दोऽस्ति ।अर्थात्तु क्रमो गम्यते ।स च वायोरग्निरित्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते ।विकल्पसमुच्चयौ तु वियत्तेजसो: प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ ।तस्मान्नास्ति श्रुत्योर्विप्रतिषेध: ।अपि च च्छान्दोग्ये येनाश्रुतं श्रुतं भवतीत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमान्नातमपि वियदुत्पत्तावुपसंख्यातव्यं किमडग पुनस्तैत्तिरीयके समान्नातं नभो न संगृहयते ।यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वादब्रम्हाणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते न चैकमेवाद्वितीयमिति श्रुतिकोपो भवति क्षीरोदकवदब्रम्हानभसोरव्यातिरेकोपपत्तेरिति ।अत्रोच्यते । न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् ।मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते ।क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् ।न हि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतत्वमस्ति ।न च वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुत्पद्यते ।सावधारणा चेयमेकमेवाद्वितीयमिति श्रुति: क्षीरोदकन्यायेन नीयमाना पीडयेत ।न च स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यम् ।मृदादिष्वपि हि तत्संभावत् ।न तदपूर्ववदुपन्यसितव्यं भवति श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवतीत्यादिना ।तस्मादशेपव स्तुविपयमेवेदं सर्वविज्ञानं सर्वस्य ब्रम्हाकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥६॥ N/A References : N/A Last Updated : December 07, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP