तृतीयाः पाद: - सूत्र १०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तेजोऽतस्तथा हयाह ॥१०॥

तेजोऽतस्तथा हयाह ।
छान्दोग्ये सन्मूलत्वं तेजस श्रावितं तैत्तिरीयके तु वायुमूलत्वं तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्त तावदब्रम्हायोनिकं तेज इति ।
कुत: । सदेवेत्युपक्रम्य तत्तेजोऽसृजतेत्युपदेशात् ।
सर्वविज्ञानप्रतिज्ञायाश्च ब्रम्हाप्रभवत्वे सर्वस्य संभवात् ।
तज्जलानिति चाविशेषश्रुते: ।
एतस्माज्जायते प्राण इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेपेण ब्रम्हाजतोपदेशात् ।
तैत्तिरीयके च स तपस्तप्त्वा ।
इदसर्वमसृजत । यदिदं किंच ।
इत्यविशेषश्रवणात् ।
तस्माद्वायोरग्निरिति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमन्गि: संभूत इति ।
एवं प्राप्त उच्यते । तेजोऽतो मातरिश्वनो जायत इति ।
कस्मात् । तथा हयाह वायोरग्निरिति ।
अव्यवहिते हि तेजसो ब्रम्हाजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुति:  कदर्थिता स्यात् ।
ननु क्रमार्थैषा भविष्यतीत्युक्तम् ।
नेति ब्रूम: ।
तस्माद्वा एतस्मादात्मन आकाश: संभूत इति पुरस्तात्संभवत्यपादानस्यात्मन: पञ्चमीनिर्देशात्तस्यैव च संभवतेरिहाधिकारात्परस्तादपि च तदधिकारे पृथिव्या ओषधय इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते ।
अपि च वायोरूर्ध्वमग्नि: संभूत इति कल्प्य उपपदार्थयोग: क्लृप्तस्तु कारकार्थयोगो वायोरग्नि: संभूत इति ।
तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयति ।
नन्वितरापि श्रुतिर्ब्रम्हायोनित्वं तेजसोऽवगमयति तत्तेजोऽसृजतेति  । न ।
तस्या: पारम्पर्यजत्वेऽप्यविरोधात् ।
यदापि हयाकाशं वायुं च सृष्टवा वायुभावापन्नं ब्रम्हा तेजोऽसृजतेति कल्प्यते तदापि ब्रम्हाजत्वं तेजसो न विरुध्यते यथा तस्या: श्रृतं तस्या दधि तस्या आमिक्षेत्यादि ।
दर्शयति च ब्रम्हाणो विकारात्मनावस्थानं तदात्मान स्वयमकुरुतेति ।
तथा चेश्वरस्मरणं भवति ।
बुद्धिर्ज्ञानमसंमोह इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधा इति ।
यद्यपि बुद्धयादय: स्वकारणेभ्य: प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाडया वेश्चरवंश्यत्वात् ।
एतेनाक्रमसृष्टिवादिन्य: श्रुतयो व्याख्याता: ।
तासं सर्वथोपपने: ।
क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्ते: ।
प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोध: ॥१०॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP