तृतीयाः पाद: - सूत्र २७,२८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तथा च दर्शयति ॥२७॥

तथा च दर्शयति ।
ह्रदययतनत्वमणुपरिमाणत्वं चात्मनोऽभिधाय तस्यैवालोमभ्य आ नखाग्रेभ्य इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥२७॥


पृथगुपदेशात् ॥२८॥

पृथगुपदेशात् ॥ प्रज्ञया शरीरं समारुहयेति चात्मप्रज्ञयो: कर्तृकरणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिताऽवगम्यते ।
तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति च कुर्तु: शरीरात्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्वलयति ।
तस्मादणुरात्मेत्येवं प्राप्ते ब्रूम: ॥२८॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP