संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| ब्राह्मणवर्गः षड्विंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - ब्राह्मणवर्गः षड्विंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत ब्राह्मणवर्गः षड्विंशः Translation - भाषांतर छिन्धि स्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण ॥ संस्कारणां क्षयं ज्ञात्वाऽकृतज्ञोऽसि ब्राह्मण ॥१॥यदा द्वयोर्धर्मयोः पारगो भवति ब्राह्मणः ॥ अथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥२॥यस्य पारं अपारं वा पारापारं न विद्यते ॥ वीतदरं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥३॥ध्यायिनं विरजमासीनं कृतकृत्यं अनास्रवम् ॥ उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥४॥दिवा तपत्यादित्यो रात्रावाभाति चन्द्रमाः ॥ अथ सर्वमहोरात्रं बुद्धस्तपति तेजसा ॥५॥वाहितपाप इति ब्राह्मणः समचर्यः श्रमण इत्युच्यते ॥ प्रव्राजयन्नाऽऽत्मनो मलं तस्मात् प्रव्रजित इत्युच्यते ॥६॥न ब्राह्मणं प्रहरेत् नाऽस्मै मुञ्चेद् ब्राह्मणः ॥ धिग् ब्राह्मणस्य हन्तारं ततो धिग् यस्मै मुञ्चति ॥७॥न ब्राह्मणस्यैतद् अकिञ्चित् श्रेयो यदा निषेधो मनसा प्रियेभ्यः ॥ यतो यतो हिंस्रमनो निवर्तते ततस्ततः शाम्यत्येव दुःखम् ॥८॥यस्य कायेन वाचा मनसा नाऽस्ति दुष्कृतम् ॥ संवृतं त्रिभिः स्थानैः तमहं ब्रवीमि ब्राह्मणम् ॥९॥यस्माद् धर्मं विजानीयात् सम्यक्- संबुद्ध- देशितम् ॥ सत्कृत्य तं नमस्येद् अग्निहोत्रमिव ब्राह्मणः ॥१०॥न जटाभिर्न गोत्रेण न जात्या भवति ब्राह्मणः ॥ यस्मिन् सत्यं च धर्मस्च स शुचिः स च ब्राह्मणः ॥११॥किं ते जटाभिः दुर्मेधः किं तेऽजिनशाट्या ॥ आभ्यन्तरं ते गहनं बाह्यं परिमार्जयसि ॥१२॥पांशुकूलधरं जन्तुं कृशं धमनिसन्ततम् ॥ एकं वने ध्यायन्तं तमहं ब्रवीमि ब्राह्मणम् ॥१३॥भो वादी नाम स भवति स वै भवति सकिञ्चनः ॥ अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥१४॥सर्वसंयोजनं छित्त्वा यो वै न परित्रस्यति ॥ संगातिगं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥१५॥छित्वा नन्दिं वरत्रां च सन्दानं सहनुक्रमम् ॥ उत्क्षिप्तपरिघं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥१६॥आक्रोशन् वधबन्धं चादुष्टो यस्तितिक्षति ॥ क्षान्तिबलं बलानीकं तमहं ब्रवीमि ब्राह्मणम् ॥१७॥अक्रोधनं व्रतवन्तं शीलवन्तं अनुश्रुतम् ॥ दान्तमन्तिमशारीरं तमहं ब्रवीमि ब्राह्मणम् ॥१८॥वारि पुष्करपत्र इवाराग्रे इव सर्षपः ॥ यो न लिप्यते कामेषु तमहं ब्रवीमि ब्राह्मणम् ॥१९॥यो दुःखस्य प्रजानातीहैव क्षयमात्मनः ॥ पन्नभारं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥२०॥गंभीरप्रज्ञं मेधाविनं मार्गामार्गस्य कोविदम् ॥ उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥२१॥असंसृष्टं गृहस्थैः अनागारैश्चोभाभ्याम् ॥ अनोकःसारिणं अल्पेच्छं तमहं ब्रवीमि ब्राह्मणम् ॥२२॥निधाय दण्डं भूतेषु त्रसेषु स्थावरेषु च ॥ यो न हन्ति न घातयति तमहं ब्रवीमि ब्राह्मणम् ॥२३॥अविरुद्धं विरुद्धेषु आत्तदण्डेषु निर्वृतम् ॥ सादानेष्वनादानं तमहं ब्रवीमि ब्राह्मणम् ॥२४॥यस्य रागश्च द्वेषश्च मानो म्रक्षश्च पातितः ॥ सर्षप इवाऽऽराग्रात् तमहं ब्रवीमि ब्राह्मणम् ॥२५॥अकर्कशां विज्ञापनीं गिरं सत्त्यामुदीरायेत् ॥ यथा नाऽभिषजेत् किञ्चित् तमहं ब्रवीमि ब्राह्मणम् ॥२६॥य इह दीर्घं वा हृस्वं वाऽणुं स्थूलं शुभाऽशुभम् ॥ लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्राह्मणम् ॥२७॥आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च ॥ निराशयं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥२८॥यस्याऽऽलया न विद्यन्त आज्ञायाऽकथंकथी ॥ अमृतावगाधमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥२९॥य इह पुण्यं च पापं चोभयोः संगं उपात्यगात् ॥ अशोकं विरजं शुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥३०॥चन्द्रमिव विमलं शुद्धं विप्रसन्नमनाविलम् ॥ नन्दीभवपरीक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३१॥तीर्णः पारगतो ध्याय्यनेजोऽकथंकथी ॥ अनुपादाय निर्वृतः तमहं ब्रवीमि ब्राह्मणम् ॥३२॥य इह कामान् प्रहायाऽनागारः परिव्रजेत् ॥ कामभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३३॥य इह तृष्णां प्रहायाऽनागारे परिव्रजेत् ॥ तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥३४॥हित्त्वा मानुषकं योगं दिव्यं योगमुपात्यगात् ॥ सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥३५॥हित्त्वा रतिञ्चारतिञ्च शीतीभूतं निरूपधिम् ॥ सर्वलोकाऽभिभुवं वीरं तमहं ब्रवीमि ब्राह्मणम् ॥३६॥च्युतिं यो वेद सत्त्वानां उपत्तिं च सर्वशः ॥ असक्तं सुगतं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥३७॥यस्य गतिं न जानन्ति देव- गन्धर्व- मानुषाः ॥ क्षीणास्रवं अर्हन्तं तमहं ब्रवीमि ब्राह्मणम् ॥३८॥यस्य पुरश्च पश्चाच्च मध्ये च नाऽस्ति किञ्चन ॥ अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥३९॥ऋषभं प्रवरं वीरं महर्षिं विजितवन्तम् ॥ अनेजं स्नातकं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥४०॥पूर्वनिवासं यो वेद स्वर्गापाऽयं च पश्यति अथ जातिक्षयं प्राप्तोऽभिज्ञाव्यवसितो मुनिः ॥ सर्वव्यवसितव्यवसानं तमहं ब्रवीमि ब्राह्मणम् ॥४१॥॥इति ब्राह्मणवर्गः समाप्तः ॥॥इति धर्मपदं सम्पूर्णम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP