संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| भिक्षुवर्गः पञ्चविंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - भिक्षुवर्गः पञ्चविंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत भिक्षुवर्गः पञ्चविंशः Translation - भाषांतर चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः । घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥१॥ कायेन संवरः साधुः साधुः वाचा संवरः । मनसा संवरः साधुः साधुः सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥२॥ हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः । अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥३॥ यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः । अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥४॥ धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् । धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥५॥ स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् । अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥६॥ अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते । तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥७॥ सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् । असति च न शोचति स वै भिक्षुरित्युच्यते ॥८॥ मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥९॥ सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति । छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि ॥१०॥ पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय । पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥११॥ ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् । मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥१२॥ नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः । यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥१३॥ शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः । अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥१४॥ यतो यतः संमृशति स्कन्धानां उदयव्ययम् । लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥१५॥ तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः । इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः । मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥१६॥ प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् । ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥१७॥ वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति । एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥१८॥ शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः । वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥१९॥ आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना । स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥२०॥ आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः । तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥२१॥ प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥२२॥ यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने । स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥२३॥ ॥इति भिक्षुवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP