संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - अप्रमादवर्गः द्वितीयः

धर्मपदम्

अप्रमादोऽमृतपदं प्रमादो मृत्योः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ता यथा मृताः॥१॥
एतं विशेषतो ज्ञात्वाऽप्रमादे पण्डिता । अप्रमादे प्रमोदन्त आर्याणां गोचरे रताः ॥२॥
ते ध्यायिनः साततिका नित्त्यं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेमं अनुत्तरम् ॥३॥
 उत्थानवतः स्मृतिमतः शुचिकर्मणो निशम्यकारिणः । संयतस्य च धर्मजीवनोऽप्रमत्तस्य यशोभिवर्द्धते ॥४॥ उत्थानेनाऽप्रमादेन संयमेन दमेन च । द्वीपं कुर्वन्ति मेधावी यं ओघो नाभिकिरति ॥५॥
प्रमादमनुयुञ्जन्ति बाला दुर्मेधसो जना । अपमादं च मेधावी धनं श्रेष्ठमिव रक्षति ॥६॥
मा प्रमादमनुयुञ्जीत मा कामरतिसंस्तवम् । अप्रमत्तो हि ध्यायन् प्राप्नोति विपुलं सुखम् ॥७॥
प्रमादमप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादमारुह्य अशोकः शोकिनीं प्रजाग् । पर्वतस्थ इव भूमिस्थान् धीरो बलान् अवेक्षते ॥८॥
अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्वमिव शीघ्राश्वो हित्त्वा याति सुमेधाः ॥९॥
अप्रमादेन मघवा देवानां श्रेष्ठतां गतः । अप्रमादं प्रशंसन्ति प्रमादो गर्हितः सदा ॥१०॥
अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । सायोजनं अणुं स्थूलं दहन्नग्निरिव गच्छति ॥११॥
अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । अभव्यः परिहाणाय निर्वाणस्यैव अन्तिके ॥१२॥ ॥
इति अप्रमादवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP