संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| पण्डितवर्गः षष्ठः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - पण्डितवर्गः षष्ठः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत पण्डितवर्गः षष्ठः Translation - भाषांतर निधीनामिव प्रवक्तारं यं पश्येत् वर्ज्यदर्शिनाम् । निगृह्यवादिनं मेधाविनं तादृशं पण्डितं भजेत् । तादृशं भजमानस्य श्रेयो भवति न पापीयः ॥१॥ अववदेदनुशिष्यात् असभ्याच्च निवारयेत् । सतां हि स प्रियो भवति असतां भवत्यप्रियः ॥२॥ न भजेत् पापकानि मित्राणि न भजेत् पुरुषाधमान् । भजेत् मित्राणि कल्याणानि भजेत पुरुषनुत्तमान् ॥३॥ धर्मपीतीः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे सदा रमते पण्डितः ॥४॥ उदकं हि नयन्ति नेतृका इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति पण्डिताः ॥५॥ शैलो यथैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसासु न समीर्यन्ते पण्डिताः ॥६॥ यथापि हृदो गंभीरो विप्रसन्नोऽनाविलः । एवं धर्मान् श्रुत्वा विप्रसीदन्ति पण्डिताः ॥७॥ सर्वत्र वै सत्पुरुषा व्रजन्ति न कामकामा लपन्ति सन्तः । सुखेन स्पृष्टा अथवा दुःखेन नोच्चावचं पण्डिता दर्शयन्ति ॥८॥ नात्महेतोः न परस्य हेतोः न पुत्रमिच्छेन्न धनं न राष्ट्रम् । नेच्छेद् अधर्मेण समृद्धिमात्मनः स शीलवान् प्रज्ञावान् धार्मिकः स्यात् ॥ ९॥ अल्पकास्ते मनुष्येषु ये जनाः पारगामिनः । अथेमा इतराः प्रजाः तीरमेवानुधावति ॥१०॥ ये च खलु सम्यगाख्याते धर्मे धर्मानुवर्त्तिनः । ते जना पारमेष्यन्ति मृत्युधेयं सुदुस्तरम् ॥११॥ कृष्णं धर्मं विप्रहाय शुक्लं भावयेत् पण्डितः । ओकात् अनोकं आगम्य विवेके यत्र दुरमम् ॥१२॥ तत्राभिरतिमिच्छेत् हित्त्वा कामान् अकिञ्चनः । पर्यवदापयेत् आत्मानं चित्तक्लेशैः पण्डितः ॥१३॥ येषां संबोध्यंगेषु सम्यग्चित्तं सुभावितम् । आदानप्रतिनिःसर्गे अनुपादाय ये रताः । क्षीणास्रवा ज्योतिष्मन्तस्ते लोके परिनिर्वृताः ॥१४॥ ॥इति पण्डितवर्ग समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP