संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| निरयवर्गो द्वाविंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - निरयवर्गो द्वाविंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत निरयवर्गो द्वाविंशः Translation - भाषांतर अभूतवादी निरयमुपेति यो वाऽपि कृत्वा न करोमि ति चाह । उभावपि तौ प्रेत्त्य समा भवतो निहीनकर्माणौः मनुजौः परत्र ॥१॥ काषायकण्ठा बहवः पापधर्मा असंयताः । पापाः पापैः कर्मभिर्निरयं ते उत्पद्यन्ते ॥२॥ श्रेयान् अयोगोलो भुक्तस्तप्तोऽग्निशिखोपम । यच्चेद् भुञ्जीत दुःशीलो राष्ट्रपिंडं असंयतः ॥३॥ चत्वारि स्थानानि नरः प्रमत्तः आपद्यते परदारोपसेवी । अपुण्यलाभं न निकामशय्यां निन्दां तृतीयां निरयं चतुर्थम् ॥४॥ अपुण्यलाभश्च गतिश्च पापिका भीतस्य भीतया रतिश्च स्तोकिका । राजा च दण्डं गुरुकं प्रणयति तस्मात् नरो परदारान् न सेवेत् ॥५॥ कुशो यथा दुर्गृहीतो हस्तमेवाऽनुकृन्तति । श्रामण्यं दुष्परामृष्टं निरयायोपकर्षति ॥६॥ यत् किञ्चित् शिथिलं कर्म संक्लिष्टं च यद् व्रतम् । संकृच्छ्रं ब्रह्मचर्यं न तद् भवति महत्फलम् ॥७॥ कुर्याच्चेत् कुर्वीतैतद् दृढमेतत् पराक्रमेत । शिथिलो हि परिव्राजको भूय आकिरते रजः ॥८॥ अकृतं दुष्कृतं श्रेयः पश्चात् तपति दुष्कृतम् । कृतं च सुकृतं श्रेयो यत् कृत्वा नाऽनुतप्यते ॥९॥ नगरं यथा प्रत्यन्तं गुप्तं सान्तर्बाह्यं एवं गोपयेदात्मानं क्षणं वै मा उपातिगाः । क्षणाऽतीता हि शोचन्ति निरये समर्पिताः ॥१०॥ अलज्जिता ये लज्जन्ते लज्जित ये न लज्जन्ते । मिथ्यादृष्टि समादाना सत्त्वा गच्छन्ति दुर्गतिम् ॥११॥ अभये च भयदर्शिनो भये चाऽभयदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥१२॥ अवद्ये वद्यमतयो वद्ये चाऽवद्यदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥१३॥ वद्यं च वद्यतो ज्ञात्वाऽवद्यं चावद्यतः । सम्यग्दृष्टिसमादानाः सत्त्वा गच्छन्ति सुगतिम् ॥१४॥ ॥इत् निरयवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP