संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| प्रकीर्णकवर्गः एकविंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - प्रकीर्णकवर्गः एकविंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत प्रकीर्णकवर्गः एकविंशः Translation - भाषांतर मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः संपश्यन् विपुलं सुखम् ॥१॥ परदुःखोपादानेन य आत्मनः सुखमिच्छति । वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥२॥ यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः। उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥३॥ येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः । अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः । सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥४॥ मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ । राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥५॥ मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ । व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥६॥ सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥७॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥८॥सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥९॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥११॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च भावनायां रतं मनः ॥१२॥ दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् । दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः । तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥१३॥ श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः । यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥१४॥ दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः । असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥१५॥ एकासन एकशय्य एकश्चरन्नतन्द्रितः । एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥१६॥ ॥इति प्रकीर्णकवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP