संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| अर्हद्वर्गः सप्तमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - अर्हद्वर्गः सप्तमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत अर्हद्वर्गः सप्तमः Translation - भाषांतर गताध्वनो विशोकस्य विप्रमुक्तस्य सर्वथा । सर्वग्रन्थप्रहीणस्य परिदाहो न विद्यते ॥१॥ उद्युञ्जते स्मृतिमन्तो न निकेते रमन्ते ते । हंसा इव पल्वलं हित्त्वा ओकमोकं जहति ते ॥२॥ येषां सन्निचयो नाऽस्ति ये परिज्ञातभोजनाः । शून्यतोऽनिमित्तश्च विमोक्षो येषां गोचरः । आकाश इव शकुन्तानां गतिस्तेषां दुरन्वया ॥३॥ यस्यास्रवाः परिक्षीणा आहारे च अनिःसृतः । शून्यतोऽनिमित्तश्च विमोक्षो यस्य गोचरः । आकाश इव शकुन्तानां पदं तस्य दुरन्वयम् ॥४॥ यस्येन्द्रियाणि शमथं गतानि अश्वा यथा सारथिना सुदान्ताः । प्रहीणमानस्य अनास्रवस्य देवा अपि तस्य स्पृहयन्ति तादृशः ॥५॥पृथिवीसमो न विरुध्यते इन्द्रकीलोपमः तादृक् सुव्रतः । हृद इवापेतकर्दमः संसारा न भवन्ति तादृशः ॥६॥ शान्तं तस्य मनो भवति वाक् च कर्म च । सम्यगाज्ञाविमुक्तस्य उपशान्तस्य तादृशः ॥७॥ अश्रद्धोऽकृतज्ञश्च सन्धिछेदश्च यो नरः । हतावकाशो वान्ताशः स वै उत्तम पुरुषः ॥८॥ ग्रामे वा यदि वाऽऽरण्ये निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति सा भूमी रामणीयका ॥९॥ रमणीयान्यरण्यानि यत्र न रमते जनः । वीतरागा रंस्यन्ते न ते कामगवेषिणः ॥१०॥ ॥इति अर्हद्वर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP