संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| दण्डवर्गः दशमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - दण्डवर्गः दशमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत दण्डवर्गः दशमः Translation - भाषांतर सर्वे त्रस्यन्ति दण्डात् सर्वे बिभ्यति मृत्योः । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥१॥ सर्वे त्रसयन्ति दण्डात् सर्वेषां जिवितं प्रियम् । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥२॥ सुखकामानि भूतानि यो दण्डेन विहिनस्ति । आत्मनः सुखमन्विष्य प्रेत्त्य स न लभते सुखम् ॥३॥ सुखकामानि भूतानि यो दण्डेन न हिनसति । आत्मनः सुखमन्विष्य प्रेत्त्य स लभते सुखम् ॥४॥ मा वोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् । दुःखा हि संरंभकथा प्रतिदण्डाः स्पृशेयुस्त्वाम् ॥५॥ स चेत् नेरयसि आत्मानं कांस्यमुपहतं यथा । एष प्राप्तोऽसि निर्वाणं संरंभस्ते न विद्यते ॥६॥ यथा दण्डेन गोपालो गाः प्राजयति गोचरम् । एवं जरा च मृत्युश्चायुः प्राजयतः प्राणिनाम् ॥७॥ अथ पापानि कर्माणि कुर्वन् बालो न बुध्यते । स्वैः कर्मभिः दुर्मेधा अग्निदग्ध इव तप्यते ॥८॥ यो दण्डेनाऽदण्डेषु अप्रदुष्टेषु दुष्यति । दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥९॥ वेदनां परुषां ज्यानिं शरीरस्य च भेदनम् । गुरुकं वाऽप्याबाधं चित्तक्षेपं वा प्राप्नुयात् ॥१०॥ राजतो वोपसर्गं अभ्याख्यानं वा दारुणम् । परिक्षयं वा ज्ञातीनां भोगानां वा प्रभञ्जनम् ॥११॥ अथवाऽस्यागाराणि अग्निर्दहति पावकः । कायस्य भेदात् दुष्प्रज्ञो निरयं स उपपद्यते ॥१२॥ न नग्नचर्या न जटा न पङ्कां नाऽनशनं स्थण्डिलशायिका वा । रजोजलीयं उत्कुटिकाप्रधानं शोधयन्ति मर्त्त्यं अवितीर्णकांक्षम् ॥१३॥ अलङ्कृतश्चेदपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥१४॥ ह्रीनिषेधः पुरुषः कश्चित् लोके विद्यते । यो निन्दां न प्रबुध्यति अश्वो भद्रः कशामिव ॥१५॥ अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिनो भवत । श्रद्धया शीलेन च वीर्येण च समाधिना धर्मविनिश्चयेन च । सम्पन्नविद्याचरणाः प्रतिस्मृताः प्रहास्यथ दुःखमिदं अनल्पकम् ॥१६॥ उदकं हि नयन्ति नेतृकाः इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति सुव्रताः ॥१७॥ ॥इति दण्डवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP