संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| जरावर्ग एकादशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - जरावर्ग एकादशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत जरावर्ग एकादशः Translation - भाषांतर को नु हासः क आनन्दो नित्यं प्रज्वलिते सति । अन्धकारेणाऽवनद्धाः प्रदीपं न गवेषयथ ॥१॥ पश्य चित्रीकृतं बिम्बं अरुष्कायं समुच्छ्रितम् । आतुरं बहुसङ्कल्पं यस्य नाऽस्ति ध्रुवं स्थितिः ॥२॥ परिजीर्णमिदं रूपं रोगनीडं प्रभंगुरम् । भिद्यते पूतिसन्देहो मरणान्तं हि जिवितम् ॥३॥ यानिमान्यपथ्यान्यलाबूनीव शरदि । कापोतकान्यस्थीनी तानि दृष्ट्वा का रतिः ॥४॥ अस्थ्नां नगरं कृतं मांसलोहितलेपनम् । यत्र जरा च मृत्युश्च मानो म्रक्षश्चावहितः ॥५॥ जीर्यन्ति वै राजरथा सुचित्रा अथ शरीरमपि जरामुपेति । सतां च धर्मो न जरामुपेति सन्तो ह वै सद्भयः प्रवेदयन्ति ॥६॥ अल्पश्रुतोऽयं पुरुषो बलीवर्द इव जीर्यति । मांसानि तस्य वर्द्धन्ते प्रज्ञा तस्य न वर्द्धते ॥७॥ अनेकजातिसंसारं समधाविषं अनिविशमानः । गृहकारकं गवेषयन् दुःखा जातिः पुनः पुनः ॥८॥ गृहकारक दृष्टोसि पुनर्गेहं न करिष्यसि । सर्वास्ते पार्श्विका भग्ना गृहकूटं विसंस्कृतम् । विसंस्कारगतं चित्तं तृष्णानां क्षयमध्यगात् ॥९॥ अचरित्त्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्च इव क्षीयन्ते क्षीणमत्स्य इव पल्वले ॥१०॥ अचरित्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । शेरते चापोऽतिक्षीणा इव पुराणान्यनुतन्वन्तः ॥११॥ ॥इति जरावर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP