संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| सुखवर्गः पञ्चदशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - सुखवर्गः पञ्चदशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत सुखवर्गः पञ्चदशः Translation - भाषांतर सुसुखं वत जीवामो वैरिष्ववैरिणः । वैरिषु मनुष्येषु विहरामोऽवैरिणः ॥१॥ सुसुखं वत जीवाम आतुरेषु अनातुराः । आतुरेषु मनुष्येषु विहरामोऽनातुराः ॥२॥ सुसुखं वत जीवाम उत्सुकेषु अनुत्सुकाः । उत्सुकेषु मनुष्येषु विहराम अनुत्सुकाः ॥३॥ सुसुखं वत जीवामो येषां नो नाऽस्ति किञ्चन । प्रीतिभक्ष्या भविष्यामः देवा आभास्वरा यथा ॥४॥ जयो वैरं प्रसूते दुःखं शेते पराजितः । उपशान्तः सुखं शेने हित्त्वा जयपराजयौ ॥५॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमः कलिः । नासति स्कन्धसदृशानि दुःखाः नाऽस्ति शान्तिपरं सुखम् ॥६॥ जिघत्सा परमो रोगः संस्कारः परमं दुःखम् । एतद् ज्ञात्वा यथाभूतं निर्वाणं परमं सुखम् ॥७॥ आरोग्यं परमो लाभः सन्तुष्टिः परमं धनम् । विश्वासः परमा ज्ञातिः निर्वाणं परमं सुखम् ॥८॥ प्रविवेकरसं पीत्वा रसं उपशमस्य च । निर्दरो भवति निष्पापो धर्म प्रीतिरसं पिबन् ॥९॥ साधु दर्शनमार्याणां सन्निवासः सदा सुखः । अदर्शनेन बालानां नित्यमेव सुखी स्यात् ॥१०॥ बालसंगतचारी हि दीर्घमधानं शोचति । दुःखो बालैः संवासोऽमित्रेणैव सर्वदा । धीरश्च सुखसंवासो ज्ञातीनामिव समागमः ॥११॥ तस्माद्धि धीरं च प्राज्ञं च बहुश्रुतं च धुर्यशीलं व्रतवन्तमार्यम् । तं तादृशं सत्पुरुषं सुमेधसं भजेत नक्षत्रपथमिव चन्दमाः ॥ १२॥ ॥इति सुखवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP