संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| नागवर्गः त्रयोविंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - नागवर्गः त्रयोविंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत नागवर्गः त्रयोविंशः Translation - भाषांतर अहं नाग इव संग्रामे चापतः पतितं शरम् । अतिवाक्यं तितिक्षिष्ये दुःह्शीला हि बहुजनाः ॥१॥ दान्तं नयन्ति समितिं दान्तं राजाऽभिरोहति । दान्तः श्रेष्ठा मनुष्येषु योतिवाक्यं तितिक्षसे ॥२॥ वरमश्वतरा दान्ता आजानीयाश्च सिन्धवः । कुञ्जराश्च महानागा आत्मदान्तस्ततो वरम् ॥३॥ न हि एतैर्यानैः गच्छेदगतां दिशम् । यथाऽऽत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥४॥ धनपालको नाम कुञ्जरः कटकप्रभेदनो दुर्निवार्यः । बद्धः कवलं न भुंक्ते स्मरति नागवनस्य कुञ्जरः ॥५॥ मृद्धो यदा भवति महाघसश्च निद्रायितः सपरिवर्त्तशायी । महावराह इव निवापपुष्टः पुनः पुनः गर्भमुपैति मन्दः ॥६॥ इदं पुरा चित्तमचरत् चारिकां यथेच्छं यथाकामं यथासुखम् । तदद्याऽहं निग्रहिष्यामि योनिशो हस्तिनं प्रभिन्नमिवाङ्कुशग्राहः ॥७॥ अप्रमादरता भवत स्वचित्तमनुरक्षत । दुर्गादुद्धरताऽऽत्मानं पङ्के सक्त इव कुञ्जरः ॥८॥ स चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । अभिभूय सर्वान् परिश्रयान् चरेत् तेनाऽऽत्तमनाः स्मृतिमान् ॥९॥ न चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । राजेव राष्ट्रं विजितं प्रहाय एकश्चरेत् मातङ्गोऽरण्य इव नागः ॥१०॥ एकस्य चरितं श्रेयो नाऽस्ति बाले सहायता । एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुको मातंगोऽरण्य इव नागः ॥११॥अर्थे जाते सुखाः सहायाः तुष्टिः सुखा या येतरेतरेण । पुण्यं सुखं जीवितसंक्षये सर्वस्य दुःखस्य सुखं प्रहाणम् ॥१२॥ सुखा मात्रीयता लोकेऽथ पित्रीयता सुखा सुखा श्रमणता लोकेऽथ ब्राह्मणता सुखा ॥१३॥सुखं यावद् जरां शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखः प्रज्ञायाः प्रतिलाभः पापानां अकरणं सुखम् ॥१४॥ ॥इति नागवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP