संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| बुद्धवर्गः चतुर्दशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - बुद्धवर्गः चतुर्दशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत बुद्धवर्गः चतुर्दशः Translation - भाषांतर यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ॥१॥ यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ॥२॥ ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः । देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥३॥ कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् । कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥४॥ सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥५॥ क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः । नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥६॥अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः । मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् । अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥७॥ न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते । अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥८॥ अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति । तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥९॥ बहु वै शरणं यन्ति पर्वातांश्च वनानि च । आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥१०॥ नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् । नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥११॥ यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः । चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥१२॥ दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् । आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥१३॥ एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् । एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥१४॥ दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते । यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥१५॥ सुखो बुद्धानां उत्पादः सुखा सद्धर्म- देशना । सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥१६॥ पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् । प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥१७॥ तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् । न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥१८॥ ॥इति बुद्धवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP