संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| यमकवर्गः प्रथमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - यमकवर्गः प्रथमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत यमकवर्गः प्रथमः Translation - भाषांतर मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रदुष्टेन भाषते वा करोति वा । ततो एनं दुःखमन्वेति चक्रमिव वहतः पदम् ॥१॥ मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रसन्नेन भाषते वा करोति वा । तत एनं सुखमन्वेति छायेवानपायिनी ॥२॥ अक्रोशित् मां अवधी मां अजैषीत् मां अहार्षीत् मे । ये च तदुपनह्यन्ति वैरं तेषां न शाम्यति ॥३॥ अक्रोशित् मां अवधीत् मां अजैषीत् मां अहार्षीत् मे । ये तन्नोपनह्यन्ति वैरं तेषूपशाम्यति ॥४॥ नहि वैरेण वैराणी शाम्यन्तीह कदाचन । अवैरेण च शाम्यन्ति एष धर्मः सनातनः ॥५॥ परे च न विजानन्ति वयमत्र यंस्यामः । ये च तत्र विजानन्ति ततः शाम्यन्ति मेधगाः ॥६॥ शुभमनुपश्यन्तं विहरन्तमिन्द्रियेषु असंवृतम् । भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यम् । तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम् ॥७॥ अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम् । भोजने च मात्राज्ञं श्रद्धमाराब्धवीर्यम् । तं वै न प्रसहते मारो वातः शैलमिव पर्वतम् ॥८॥ अनिष्कषायः काषायं यो वस्त्रं परिधास्यति । अपेतो दमसत्याभ्यां न स काषायमर्हति ॥९॥ यश्च वान्तकषायः स्यात् शीलेषु सुसमाहितः । उपेतो दम- सत्याभ्यां स वै काषायमर्हति ॥१०॥ असारे सारमतयः सारे चासारदर्शिनः । ते सारं नाधिगच्छन्ति मिथ्यासङ्कल्पगोचराः ॥११॥ सारं च सारतो ज्ञात्वा असारं च असारतः । ते सारं अधिगच्छन्ति सम्यक्- सङ्कल्प- गोचराः ॥१२॥ यथागारं दुश्छन्नं वृष्टिः समतिविध्यति । एवं अभावितं चित्तं रागः समतिविध्यति ॥१३॥ यथागारं सुच्छन्नं वृष्टिर्न समति विध्यति । एवं सुभावितं चित्तं रागो न समति विध्यति ॥१४॥ इह शोचति प्रेत्त्य शोचति पापकारी उभयत्र शोचति । स शोचति स विहन्यते दृष्ट्वा कर्म क्लिष्टमात्मनः ॥१५॥ इह मोदते प्रेत्त्य मोदते कृतपुण्य उभयत्र मोदते । स मोदते स प्रमोदते दृष्ट्वा कर्मविशुद्धिमात्मनः ॥१६॥ इह तप्यति प्रेत्त्य तप्यति पापकारी उभयत्र तप्यति । पापं मे कृतमिति तप्यति भूयस्तप्यति दुर्गतिंगतः ॥१७॥ इह नन्दति प्रेत्य नन्दति कृतपुण्य उभयत्र नन्दति । पुण्यं मे कृतमिति नन्दति भूयो नन्दति सुगतिंगतः ॥१८॥ बह्यीमपि संहितां भाषमाणः न तत्करो भवति नरः प्रमत्तः । गोप इव गा गणयन् परेषां न भागवान् श्रामण्यस्य भवति ॥१९॥ अल्पमपि संहितां भाषमाणो धर्मस्य भवत्यनुधर्मचारी । रागं च द्वेषं च प्रहाय मोहं सम्यक् प्रजानन् सुविमुक्तचित्तः । अनुपाददानः इह वाऽमुत्र वा स भागवान् श्रामण्यस्य भवति ॥२०॥ ॥इति यमकवर्गः समाप्तः ॥ Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP