संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - लोकवर्गः त्रयोदशः

धर्मपदम्


हीनं धर्मं न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिं न सेवेत न स्यात् लोकवर्द्धनः ॥१॥
उत्तिष्ठेन्न प्रमाद्येद् धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥२॥
धर्मं चरेत् सुचरितं न तं दुश्चरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥३॥
यथा बुद्बुदकं पश्येत् यथा पश्येत् मरीचिकाम् । एवं लोकमवेक्षमाणं मृत्युराजो न पश्यति ॥४॥
एन पश्यतेमं लोकं चित्रं राजरथोपमम् । यत्र बाला विषीदन्ति नाऽस्ति सङ्गो विजानताम् ॥५॥
यश्च पूर्वं प्रमाद्य पश्चात् स न प्रमाद्यति । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥६॥
यस्य पापं कृतं कर्म कुशलेन पिधीयते । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥७॥
अन्धभूतोऽयं लोकः तनुकोऽत्र विपश्यति । शकुनो जालमुक्त इवाल्पः स्वर्गाय गच्छति ॥८॥
हंसा आदित्यपथे यान्ति आकाशे यान्ति ऋद्धिया । नीयन्ते धीरा लोकात् जित्वा मारं सवाहिनीकम् ॥९॥
एकं धर्ममतीतस्य मृषावादिनो जन्तोः । वितीर्णपरलोकस्य नाऽस्ति पापमकार्यम् ॥१०॥
न वै कदर्या देवलोकं व्रजन्ति बाला ह वै न प्रशंसन्ति दानम् । धीरश्च दानं अनुमोदमानस्तेनैव स भवति सुखी परत्र ॥११॥
पृथिव्या एकराज्यात् स्वर्गस्य गमनाद् वा । सर्वलोकाऽऽधिपत्त्याद् स्रोत आपत्तिफलं वरम् ॥१२॥
॥इति लोकवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP