संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| बालवर्गः पञ्चमः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - बालवर्गः पञ्चमः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत बालवर्गः पञ्चमः Translation - भाषांतर दीर्घा जाग्रतो रात्रिः दीर्घं श्रान्तस्य योजनम् । दीर्घो बालानां संसारः सद्धर्मं अविजानताम् ॥१॥ चरन् चेत् नाधिगच्छेत् श्रेयांसं सदृशं आत्मनः । एकचर्यां दृढं कुर्यात् नाऽस्ति बाले सहायता ॥२॥ पुत्रा मे सन्ति धनं मेऽस्ति इति बालो विहन्यते । आत्मा ह्यात्मनो नाऽस्ति कुतः पुत्राः कुतो धनम् ॥३॥ यो बालो मन्यते बाल्यं पण्डितश्चापि तेन स । बालश्च पण्डितमानी स वै बाल इत्युच्यते ॥४॥ यावज्जीवमपि चेद् बालः पण्डितं पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसं यथा ॥५॥ मुहूर्त्तमपि चेद् विज्ञाः पण्डितं पर्युपासते । क्षिप्रं धर्मं विजानाति जिह्वा सूपरसं यथा ॥६॥ चरन्ति बाला दुर्मेधसोऽमित्रेणैवात्मना । कुर्वन्तः पापकं कर्मं यद्भवति कटुकफलम् ॥७॥ न तत् कर्म कृतं साधु यत् कृत्त्वाऽनुतप्यते । यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥८॥ तच्च कर्मं कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमन विपाकं प्रतिसेवते ॥९॥ मध्विव मन्यते बालो यावत् पापं न पच्यते । यदा च पच्यते पापं अथ बालो दुःखं निगच्छति ॥१०॥ मासे मासे कुशाग्रेण बालो भुञ्जीत भोजनम् । न स संख्यातधर्माणां कलामर्हति षोडशीम् ॥११॥ नहि पापं कृतं कर्म सद्यः क्षीरमिव मुञ्चति । दहन् बालमन्वेति भस्मच्छन्न इव पावकः ॥१२॥ यावदेव अनर्थाय ज्ञप्तं बालस्य जायते । हन्ति बालस्य शुक्लांशं मूर्द्धानमस्य विपातयन् ॥१३॥ असद् भवनमिच्छेत् पुरस्कारं च भिक्षुषु । आवासेषु चैश्वर्यं पूजां परकुलेषु च ॥१४॥ ममैव कृतं मन्येतां गृहि- प्रव्रजितावुभौ । ममैवातिवशाः स्यातां कृत्याकृत्येषु कषु चित् । इति बालस्य सङ्कल्प इच्छा मानश्च वर्द्धते ॥१५॥ अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनि । एवमेतद् अभिज्ञाय भिक्षुर्बुद्धस्य श्रावकः । सत्कारं नाभिनन्देत् विवेकमनुबृंहयेत् ॥१६॥ ॥इति बालवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP