संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| पुष्पवर्गश्चतुर्त्थः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - पुष्पवर्गश्चतुर्त्थः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत पुष्पवर्गश्चतुर्त्थः Translation - भाषांतर क इमां पृथिवीं विजेष्यते यमलोकं चेमं सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥१॥ शैक्षः पृथवीं विजेष्यते यमलोकं च इमं सदेवकम् । शैक्षो धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥२॥ फेनोपमं कायमिमं विदित्वा मरीचिधर्मं अभिसंबुधानः । छित्वा मारस्य प्रपुष्पकाणि अदर्शनं मृत्युराजस्य गच्छेत् ॥३॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महोघ इव मृत्युरादाय गच्छति ॥४॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तमेव कामेषु अन्तकः कुरुते वशम् ॥५॥ यथापि भ्रमरः पुष्पं वर्णगन्धं अघ्नन् । पलायते रसमादाय एवं ग्रामे मुनिश्चरेत् ॥६॥ न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनं एव अवेक्षेत कृतान्यकृतानि च ॥७॥ यथापि रुचिरं पुष्पं वर्णवदगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥८॥ यथापि रुचिरं पुष्पं वर्णवत् सगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥९॥ यथापि पुष्पराशेः कुर्यात् मालागुणान् बहून् । एवं जातेन मर्त्त्येन कर्त्तव्यं कुशलं बहु ॥१०॥ न पुष्पगन्धः प्रतिवातमेति न चन्दनं तगरमल्लिके वा । सताञ्च गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥११॥ चन्दनं तगरं वापि उत्पलं अथ वार्षिकी । एतेषां गन्धजातानां शीलगन्धोऽनुत्तरः ॥१२॥ अल्पमात्रोऽयं गन्धो योऽयं तगरचन्दनी । यश्च शीलवतां गन्धो वाति देवेषु उत्तमः ॥१३॥ तेषां सम्पन्नशीलानां अप्रमाद- विहारिणाम् । सम्यग्ज्ञानविमुक्त्तानां मारो मार्गं न विन्दति ॥१४॥ यता सङ्कारधाने उज्झिते महापथे । पद्म तत्र जायेत शुचिगन्धं मनोरमम् ॥१५॥ एवं सङ्कारभूते अन्धभूते पृथग्जने । अतिरोचते प्रज्ञया सम्यक्- संबुद्ध- श्रावकः ॥१६॥ ॥इति पुष्पवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP