संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्|

धर्मपदम् - क्रोधवर्गः सप्तदशः

धर्मपदम्


क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत । तं नामरूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥१॥
यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् । तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥२॥
अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्। जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥३॥
सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः । एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥४॥
अहिंसका ये मुनयो नित्यं कायेन संवृताः । ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥५॥
सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् । निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥६॥
पुरणमेतद् अतुल नैतद् अद्यतनमेव । निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् । मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥
न चाऽभूत् न भविष्यति न चैतहिं विद्यते । एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥८॥
यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः । अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥९॥
निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति । देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥१०॥
कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् । कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥११॥
वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् । वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥१२॥
मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् । मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥१३॥
कायेन संवृता धीरा अथ वाचा संवृताः । मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥१४॥
॥इति क्रोधवर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP