संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| आत्मवर्गः द्वादशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - आत्मवर्गः द्वादशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत आत्मवर्गः द्वादशः Translation - भाषांतर आत्मान चेत् प्रियं जानीयाद् रक्षेत्तं सुरक्षितम् । त्रयाणामन्यतमं यामं प्रतिजागृयात् पण्डितः ॥१॥ आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । अथान्यमनुशिष्यात् न क्लिश्येत् पण्डितः ॥२॥ आत्मानं चेत् तथा कुर्यात् यथाऽन्यमनुशासति । सुदान्तो वत दमयेद् आत्मा हि किल दुर्दमः ॥३॥ आत्मा हि आत्मनो नाथः कोहि नाथः परः स्यात् । आत्मना हि सुदान्तेन नाथं लभते दुर्लभम् ॥४॥ आत्मनैव कृतं पापं आत्मजं आत्मसंभवम् । अभिमथ्नाति दुर्मेधसं वज्रमिवाश्ममयं मणिम् ॥५॥ यस्याऽत्यन्तदौःशील्यं मालुवा शालमिवाततम् । करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥६॥ सुकराण्यसाधून्यात्मनोऽहितानि च । यद्वै हितं च साधु च तद्वै परमदुष्करम् ॥७॥ यः शासनमर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रुश्यति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि काष्ठकस्येव आत्महत्त्यायै फुल्लति ॥८॥आत्मनैव कृतं पापं आत्मना संक्लिश्यति । आत्मनाऽकृतं पापं आत्मनैव विशुध्यति । शुद्धयशुद्धी प्रत्त्यात्मं नाऽन्योऽन्यं विशोधयेत् ॥९॥ आत्मनोऽर्थं परार्थेन बहुनाऽपि न हापयेत् । आत्मनोऽर्थमभिज्ञाय सदर्थप्रसितः स्यात् ॥१०॥ ॥इति आत्मवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP