संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मपदम्| धर्मष्ठवर्गः एकोनविंशः धर्मपदम् यमकवर्गः प्रथमः अप्रमादवर्गः द्वितीयः चित्तवर्गस्तृतीयः पुष्पवर्गश्चतुर्त्थः बालवर्गः पञ्चमः पण्डितवर्गः षष्ठः अर्हद्वर्गः सप्तमः सहस्रवर्गो अष्टमः पापवर्गः नवमः दण्डवर्गः दशमः जरावर्ग एकादशः आत्मवर्गः द्वादशः लोकवर्गः त्रयोदशः बुद्धवर्गः चतुर्दशः सुखवर्गः पञ्चदशः प्रियवर्गः षोडशः क्रोधवर्गः सप्तदशः मलवर्गोष्टादशः धर्मष्ठवर्गः एकोनविंशः मार्गवर्गः विंशः प्रकीर्णकवर्गः एकविंशः निरयवर्गो द्वाविंशः नागवर्गः त्रयोविंशः तृष्णावर्गः चतुर्विंशः भिक्षुवर्गः पञ्चविंशः ब्राह्मणवर्गः षड्विंशः धर्मपदम् - धर्मष्ठवर्गः एकोनविंशः धर्मपदम् Tags : bookधर्मपदम्पुस्तकसंस्कृत धर्मष्ठवर्गः एकोनविंशः Translation - भाषांतर न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् । यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥१॥ असाहसेन धर्मेण समेन नयते परान् । धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥२॥ न तावता पण्डितो भवति यावता बहु भाषते । क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥३॥ न तावता धर्मधरो यावता बहु भाषते । यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति । स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥४॥ न तेन स्थविरो भवति येनाऽस्य पलितं शिरः । परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥५॥ यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः । स वै वान्तमलो धीरः स्थविर इतुच्यते ॥६॥ न वाक् करणमात्रेण वर्णपुष्कलतया वा । साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥७॥ यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् । स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥८॥ न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् । इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥९॥ यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः । शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥१०॥ न तावता भिक्षुर्भवति यावता भिक्षते परान् । विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥११॥ य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् । संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥१२॥ न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् । यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥१३॥ पापानि परिवर्जयति स मुनिस्तेन स मुनिः । यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥१४॥ न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति । अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥१५॥ न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः । अथवा समाधिलाभेन विविच्य शयनेन वा ॥१६॥ स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् । भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥१७॥ ॥इति धर्मस्थवर्गः समाप्तः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP