TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
त्रिपञ्चाशोsध्यायः ।

त्रिपञ्चाशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


त्रिपञ्चाशोsध्यायः ।
दैवविदां नीतिकरं विश्वसनीयं समस्तलोकस्य ।
कनकाचार्यस्य मताद्वियोनिसंज्ञं प्रवक्ष्यामि ॥१॥
लग्ने कर्कटके सशीतकिरणे वा सद्ग्रहैः सङ्गते
स्वर्क्षस्थैर्जगतोsस्य सृष्टिमकरोद्विश्वेश्वरः शाश्वतीम् ।
यस्यैवं भवति प्रसूतिसमये पुंसः स सम्पालयेत्
त्रैलोक्यं सुरसुन्दरीजनवृतः क्रीडां समां सेवते ॥२॥
समभिव्यनक्ति होरा सस्थावरजङ्गमं यथा लोके ।
कालनिमित्ताकारैर्देशेन च तत्प्रपञ्चोsयम् ॥३॥
क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिलग्ने वा ।
सौम्यार्किभ्यां केन्द्रे तदीक्षिते वा वियोनिः स्यात् ॥४॥
आधाने जन्मनि वा प्रश्ने वा द्वादशांशगे चन्द्रः ।
यस्मिन्व्यवस्थितः स्याल्लग्ने वा तत्समं सत्वम् ॥५॥
वर्णाकृतिप्रभेदाद्ग्रहयोगनिरीक्षणैर्मुनिभिरुक्ताः ।
तानहमपि प्रवक्ष्ये विशेषतः सारमादाय ॥६॥
मेषवृषौ मुखगलयोरंसकपादेषु मिथुनमीनौ स्तः ।
पृष्ठोदयपार्श्वेषु च निवेशितौ कर्किकुम्भधरौ ॥७॥
सिंहमृगौ जघनस्थौ पश्चिमचरणे स्थितौ युवतिचापौ ।
गुह्यवृषणप्रदेशस्फिक्पुच्छौ जूककीटर्क्षौ ॥८॥
मिथुनादयस्तुलान्ताः सव्ये भागे चतुष्पदानां च ।
वामे झषघटधरमृगकार्मुकभृद्वृश्चिकाश्चिन्त्याः ॥९॥
मेषादिभिरुदयस्थैरंशैर्वा ग्रहयुतैश्च दृष्टैर्वा ।
स्वं स्वं वर्णं ब्रूयाद्गान्ते चिह्नं व्रणं वाsपि ॥१०॥
स्वगृहांशकसंयोगाद्विद्याद्वर्णान्परांशके ऋक्षान् ।
सप्तमसंस्थाः कुर्युः पृष्ठे रेखां स्ववर्णसमाम् ॥११॥
वीक्षन्ते यावन्तो वियोगनिवर्णाश्च तावन्तः ।
बलदीप्तो गगनचरः करोति वर्णं वियोनीनाम् ॥१२॥
पीतं करोति जीवः शशी सितं भार्गवो विचित्रं च ।
रक्तौ दिनकररुधिरौ रविजः कृष्णं बुधः शबलम् ॥१३॥
स्वे राशौ परभागे परराशौ स्वांशके तिष्ठन् ।
पश्यन् ग्रहोsपि लग्नं सुवर्णवर्णं तदा कुरुते ॥१४॥
परिघपरिवेषजलदैः शङ्कुकवेधैर्ध्वजैश्च वृक्षैश्च ।
वृषमृगदण्डैः सर्पैः शक्रधनुःपांसुभिर्वापि ॥१५॥
यद्वर्णेन वृतः स्याद्ग्रहस्तमिह वर्णमादिशेन्मतिमान् ।
स्वाभाविकैर्गहाणां वर्णैर्वर्णा भवन्ति जातानाम् ॥१६॥
विहगोदितदृक्काणे ग्रहेण बलिना युते च चरभांशे ।
बौधेंsशे वा विहगाः स्थलाम्बुजाः शशिनिरीक्षिताः क्रमशः ॥१७॥
लग्ने जलजे बन्धौ पक्तिः स्याद्वीक्षितेsपि वा जलस्थाः ।
स्थलजे वा तद्दृष्टे ग्रहवर्णसमस्थलप्रभवः ॥१८॥
लग्नार्कजीवचन्द्रैरबलैः शेषैश्च मूलयोनिः स्यात् ।
स्थलजलभवनविभागा वृक्षादीनां प्रभेदकराः ॥१९॥
अन्तःसारान्वृक्षान्भानुर्दुर्गान्करोति तद्रूपान् ।
क्षीरस्नेहसमेतान् शशी गुरुः फलसमेतांश्च ॥२०॥
कटुकण्टकिनो रुधिरः सुदुर्भगांस्तरणिजस्तथा शुक्रः ।
कुसुमफलस्नेहयुतान्बुधश्च बलवर्जितं जनयेत् ॥२१॥
क्रूरः सौम्यगृहस्थो वृक्षमनिष्टं करोति शुभदेशे ।
सौम्यश्च पापभवने कुत्सितदेशे शुभं चापि ॥२२॥
व्यामिश्रैः शुभभूमौ भवन्ति मिश्राः सदा वृक्षाः ।
स्थलजलपतयस्तेषां स्थलजलजानां तु संभवे दक्षाः ॥२३॥
स्थलजलखगौ विलग्नाद्यावति राशौ तु तेsपि तावन्तः ।
स्वांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्तः ॥२४॥
स्वांशे सौम्यैरबलैर्वियोनिलग्ने वियोनिजातं च ।
तद्वद्बलिभिः पापैः स्वराशिसदृशांशसंयुक्तैः ॥२५॥
अबलग्रहराशिगता अस्तं याताः पराजिता भिन्नाः ।
क्रूरयुता दृष्टा वा सद्यो निघ्नन्ति ते नित्यम् ॥२६॥
उद्भिज्जरायुजानां तथैव संस्वेदजाण्डजानां च ।
प्रसवं व्यस्तसमस्तं ग्रहयोगैर्लक्षणैर्वक्ष्ये ॥२७॥
दुर्बलगृहे ग्रहेन्द्रा मेषो राशिर्यदोदयं याति ।
भानुश्चतुष्पदगृहे चतुष्पदस्तत्र भवति सामान्ये ॥२८॥
सामान्येनाभिहितो वियोनिसंज्ञो मया समासेन ।
अधुना कौतुकजननं विशेषतः संप्रवक्ष्यामि ॥२९॥
इह तु द्वादशभागो राशौ राशौ प्रचोदितः पूर्वम् ।
जनयन्ति ते वियोनिं याता बलिभिः शशाङ्करविलग्ने ॥३०॥
मेषे शशी तदंशे छागादिप्रसवमाहुराचार्याः ।
गोमहिषाणां गोंsशे नररूपाणां तृतीयेंsशे ॥३१॥
तत्र चतुर्थे भागे कूर्मादीनां भवेदुदकजानाम् ।
व्याघ्रादीनां परतः परतो ज्ञेयं नराणां च ॥३२॥
वणिगंशे नररूपा वृश्चकभागे तथा भुजङ्गाद्याः ।
खरतुरगाद्या नवमे मृगशिखिनां स्यात्तथा दशमे ॥३३॥
ज्ञेयाश्च तत्र विविधा वृक्षास्तृणजातयश्चित्राः ।
एकादशे च पुरुषा जलजा नानाविधाश्चान्त्ये ॥३४॥
मेषे द्वादशभागे जायन्ते जातयो विविधरूपाः ।
शेषेष्वपि चैवं स्याद्भवनेषु यथाक्रमं नियतम् ॥३५॥
यो यत्र भवेदाद्यस्तस्याकृतिमादिशेत्कृते तत्र ।
ब्रूयात्क्रमेण मतिमान्द्वादशभागात्मके नवमे ॥३६॥
ज्ञेयादेवं पुंग्रहनवांशकैर्लग्नगैर्द्विमूर्तिभ्यः ।
आदांशे योगैरपि जायन्ते बहुविधाः सत्वाः ॥३७॥
श्वप्रभृतीनां प्रसवे यावन्तो द्वादशांशका लग्ने ।
तावन्ति वदेत्प्राज्ञः पुंस्त्रीसंज्ञान्यपत्यानि ॥३८॥
लग्ने जीवोsथवा सौरश्चन्द्रोवाsपि स्थितो भवेत् ।
कूर्मादीनां तथा संख्या द्वादशांशेषु यावती ॥३९॥
शुक्रो भौमो बुधो वाsपि चन्द्रो वापि शनैश्चरः ।
कुर्वन्ति बलयुक्तानि भागेष्वङ्गानि पूर्ववत् ॥४०॥
स्वांशात्परस्य भागे यस्मिन्काले ग्रहाः समुपयान्ति ।
तत्र विकारा ज्ञेया लोकविरुद्धा ध्रुवं प्राज्ञैः ॥४१॥
वृश्चिकलग्ने भवने तन्नवभागेsथवा द्विपदसंज्ञे ।
बिलवासिनां प्रसूतिर्घोराणां निर्दिशेत्तत्र ॥४२॥
गोधानां सर्पाणां लोपाशानां च शल्यकानां च ।
मूषकबिलेशयानां राशिमतां चापि कीटानाम् ॥४३॥
हयनरविदेहलग्ने द्वादशभागे नवांशके वाsपि ।
पश्यति नरेन्द्रसचिवस्तत्रोत्पत्तिर्भवेदेषाम् ॥४४॥
लूतानां नकुलानां वृश्चिकषङ्बिन्दुजातकानां च ।
अविषाणां सर्पाणां श्वभ्राश्मनिवासिनां चैव ॥४५॥
वाजिखराश्वतराणां गोमहिषाणां तथोष्ट्राणाम् ।
गुरुवर्णकल्परूपान्प्रवदेन्मतिमान्बलेनैव ॥४६॥
मृगवदने लग्नस्थे तन्नवभागे तथापि सूर्यांशे ।
आरण्यानां सूतिं सत्वानां निर्दिशेत्क्रमशः ॥४७॥
नागानां खङ्गानां वृकशरभवराहवानराणां च ।
ऋक्षोग्रसृगालानां व्याघ्रादीनां भवेत्सूतिः ॥४८॥
मीने मीनांशे वा तज्जे सूक्ष्मांशकेsपि वा लग्ने ।
गुरुदृष्टे विज्ञेयो बहूदकोत्थः सदा सत्वः ॥४९॥
मेषे मेषांशे वा भौमेन निरीक्षिते सदाजीवी ।
वृषभे तु वदेत्तद्वद्गोमहिषाद्यान्सदा भृगुणा ॥५०॥
स्वं स्वं पूर्वविलग्नं स्वैः स्वैर्दृष्टं यदेह पतिभिस्तु ।
स्वभवनसदृशान्विद्वान्प्रवदेदविशङ्कितं तत्र ॥५१॥
ग्राम्यगृहेषु नवांशाः पञ्चमनवमांशसंयुक्ताः ।
आरण्यानां सूतिं ग्रामेषु सुनिश्चितां कुर्युः ॥५२॥
स्थलजलराशिविभागा नागरभवनेषु लग्नसंस्थेषु ।
स्थलजलचरसत्वानां जनयन्ति भवं हि विटपानाम् ॥५३॥
उदयति वणिग्विलग्ने तद्द्रेक्काणे सितेन संदृष्टे ।
शुकसारिकान्यपुष्टाश्चकोरभासाश्च जायन्ते ॥५४॥
सिंहोदये तथाद्ये सूक्ष्मांशे रविनिरीक्षिते सूतिः ।
कुक्कुटमयूरतित्तिरिपारावतचन्तुनादीनाम् (?) ॥५५॥
स्थिरभोदये तदंशे शेषौ ? ग्रहसंयुते च दृष्टे च ।
प्रासादगृहादीनां भूताप्तिः पूर्ववज्ज्ञेया ॥५६॥
इति कल्याणवर्मविरचितायां सारावल्यां वियोनिजन्माध्यायो नाम त्रिपञ्चाशोsध्यायः ॥

Translation - भाषांतर

Last Updated : 2016-11-11T11:54:33.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अटोप

  • अटप , अटपण पहा . त्या गुप्त कल्पना कोणास कळाव्या । कोणें येऊन आटोपाव्या ॥ - दा १९ . ८ . १८ . - अटोपता , अटोपतासार - अटपता - अटपसार पहा . 
RANDOM WORD

Did you know?

जन्मानंतर पाचवी पूजनाचे महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site