संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
द्वितीयोsध्यायः ।

द्वितीयोsध्यायः ।

श्रीमत्कल्याणवर्मसूरिविरचिता ।


विधात्रा लिखिता यासौ ललाटेsक्षरमालिका ।
दैवज्ञस्तां पठेद्व्यक्तं होरानिर्मलचक्षुषा ॥१॥
आद्यन्तवर्णलोपाद्धोराशास्त्रं भवत्यहोरात्रम् ।
तत्प्रतिबद्धश्चायं ग्रहभगणश्चिन्त्यते यस्मात् ॥२॥
कर्मफललाभहेतुं चतुरा: संवर्णयन्त्यन्ये ।
होरेति शास्त्रसंज्ञा लग्नस्य तथार्धराशेश्च ॥३॥
जातकमिति प्रसिद्धं यल्लोके तदिह कीर्त्यते होरा ।
अथवा दैवविमर्शनर्याय: खल्वयं शब्दः ॥४॥
अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः ।
यात्रासमये मन्त्री जातकमपहाय नास्त्यपरः ॥५॥
इति कल्याणवर्मविरचितायां सारावल्यां होराशब्दार्थचिन्ता नाम द्वितीयोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP