संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
सप्तमोsध्यायः ।

सप्तमोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


रविचन्द्रभौमबुधजीवशुक्रसौरा दिनादिपतयश्च ।
मासे चाश्वयुजादौ दिनेश्वरोsब्दे दिनपतेश्च ॥१॥
अब्दाधिपाश्चतुर्थाः क्रमेण षष्ठास्तु कालहोरेशाः ।
द्विद्वादशहोराः स्युर्दिवसास्त्वेकाधिकास्त्रिंशत् ॥२॥
मासास्त्रिंशद्गुणिता गतैर्दिनैः सप्तभाजिता दिवसाः ।
अब्दाधिपात्प्रगण्या गते दिनाद्यः प्रयत्नस्तु ( ? ) ॥३॥
एकत्रिंशद्भागैर्युइक्तश्चैत्रादीनां ग्रहादीनाम् ।
क्रमशो विज्ञातव्या शुक्लप्रतिपत्प्रसंख्यायाम् ॥४॥
यस्य ग्रहस्य भावो यस्तस्य गृहे प्रशस्य्ते कर्म ।
तस्मिंश्चोपचयस्थे तस्मिल्लग्ने गृहे चास्य ॥५॥
तत्कर्मग्रहदिवसे तदेव होराब्दमासकालेषु ।
पादविवृद्ध्या वा स्यात्तेषां कालस्य संपाकः ॥६॥
सव्यालोर्णकशैलस्वर्णशस्त्रविषदहनभेषजनृपाश्च ।
म्लेच्छाब्धितारकान्तारकाष्ठमन्त्रप्रभुः सूर्यः ॥७॥
कविकुसुमभोज्यमणिरजतशंखलवणोदकेषु वस्त्राणाम् ।
भूषणनारीघृतकुजसुतैलनिद्राप्रभुश्चन्द्रः ॥८॥
रक्तोत्पलताम्रसुवर्णरुधिरपारदमनःशिलाद्यानाम् ।
क्षितिनृपतिपतनमूर्च्छापैत्तिकचोरप्रभुर्भौमः ॥९॥
श्रुतलिखितशिल्पचैत्य ( क ) नैपुणमन्त्रित्वदूतहास्यानाम् ।
खगयुत्मख्यातिवनस्पतिस्वर्णमयप्रभुः सौम्यः ॥१०॥
माङ्गल्यधर्मपौष्टिकमहत्वशिक्षानियोगपुरराष्ट्रम् ।
यानासनशयनसुवर्णधान्यवेश्मपुत्रप्रभुर्जीवः ॥११॥
वज्रमणिरत्नभूषणविवाहगन्धेष्टमाल्ययुवतीनाम् ।
गोमयनिधानविद्याधनशुक्तिरजतप्रभुः शुक्रः ॥१२॥
त्रपुसीसकाललोहककुधान्यमृतबन्धभृतकानाम् ।
नीचस्त्रीपण्यकदासवृद्धजनदीक्षाप्रभुः सौरिः ॥१३॥
अर्कः कलिङ्गविषये यवनेषु च चन्द्रमाः ।
शुक्रः समतटे जातः सैन्धवेषु बृहस्पतिः ॥१४॥
मगधेषु बुधो जातः सौराष्ट्रेषु शनैश्वरः ।
अङ्गारकस्तूज्जयिन्यां राहुः केतुश्च द्राविडे ॥१५॥
इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्यायः सप्तमः ॥


Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP