TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकचत्वारिंशोsध्यायः ।

एकचत्वारिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


एकचत्वारिंशोsध्यायः ।
अर्धमेकस्थितो भागं त्रिभागं सुतधर्मयोः ।
सप्तमे सप्तमं भागं चतुर्थं चतुरश्रयोः ॥१॥
मूलं दशाधिनाथस्य कृत्वांशं स्वगुणैर्ग्रहः ।
करोत्यन्तर्दशां सत्यां बली हरति भागश ॥२॥
शुभस्य शुभदः पूर्णः क्रूरस्याशुभदो भवेत् ।
केन्द्रादिविधिना चान्ये केचित्पाकक्रमेण तु ॥३॥
सत्योक्तं तूच्यते कश्चिद्ददाति बलवान्ग्रहः ।
नित्यं पाठक्रमात्कार्यः शेषास्तु परिपाकदाः ॥४॥
भागाः सदृशाः सहिता दशाब्दपिण्डस्य भागहारोsयम् ।
प्रत्यंशताडितः स्यात्पृथक्पृथक्त्वन्तरदशाः स्युः ॥५॥
एकर्क्षसंस्थितदशा प्रदिशति बन्धं स्वनाशं वा ।
जनयति कण्टकसहिता त्रिकोणसंस्थस्य सुखमतुलम् ॥६॥
एकद्वित्रिचतुर्णां नक्षत्रे रिपुदशा ग्रहाणां स्यात् ।
व्याधिक्लेशविवादान्नृपतेश्च भयं तदा जनयेत् ॥७॥
दारमरणं च जनयति सप्तमगान्तर्दशा प्रणाशं वा ।
शत्रोर्दासीकरणं परपुरुषेणोपभोगं वा ॥८॥
अन्तर्दशा ग्रहाणामष्टमधाम्नि प्रमापयेत्पुरुषम् ।
कुरुते च धनविनाशं शत्रुगता बन्धनं च विध्वंसम् ॥९॥
अन्तर्दहा यदा ( स्यात् ) द्वित्रिचतुर्णामेकराशिसंस्थानाम् ।
बन्धविनाशदैन्ये विदधात्यशुभं ग्रहाणां तु ॥१०॥
चतुर्थस्थानसंस्थस्य ग्रहस्यान्तदर्शा भवेत् ।
मित्रारोग्यकरं नित्यं सौख्यमानविवर्धनम् ॥११॥
शमयति रिपुप्रतापं नीरोगत्वं करोति धनलाभम् ।
भानुदशायां चन्द्रः प्रविशंस्तन्नास्ति यन्न शुभम् ॥१२॥
विद्रुमसुवर्णमणयः सङ्ग्रामजयः प्रचण्डता पुंसः ।
असृजो दशाप्रवेशे सूर्यदशायां भवति सौख्यम् ॥१३॥
दद्रूविचर्चिकाद्यैः प्राम्ना कुष्ठैश्च गर्हितशरीरः ।
तरणिदशायां प्रविशति बुधो यदा स्यादरेर्वृद्धिः ॥१४॥
व्याधिभिररिभिर्व्यसनैः पापैश्च विमुच्यते तथाsलक्ष्म्या ।
अनुयाति धर्मपदवीं जीवस्यान्तर्दशा यदा भानोः ॥१५॥
शिरसो रुग्गलरोगश्छिद्रं सहसा ज्वरः शूलम् ।
तपनदशायां शुक्रे देशत्यागो भवेदरिभिः ॥१६॥
आदित्यस्य दशायां शनैश्चरान्तर्दशा यदा भवति ।
नृपपरिभूतो दीनो विपक्षसार्थेन हतशक्तिः ॥१७॥
क्षयरोगभयं शौर्यं नृपप्रभावं सदा विभवम् ।
चन्द्रदशायां पुंसो भानुः कुरुतेsर्थलाभं च ॥१८॥
पित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा ।
चन्द्रदशायां ज्ञदशाप्रवेशने चिह्नमुक्तमो लाभः ।
गजवाजिनां धनानां सम्प्रातिः सौख्यमतुलं च ॥२०॥
चन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम् ।
यत्नोपात्तमकस्माद्वस्त्रालङ्कारविविधहस्त्यश्वम् ॥२१॥
तुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाssस्फुजितः ।
जलयानहारभूषनबहुपत्नीभिः समागमं कुरुते ॥२२॥
स्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम् ।
चन्द्रदशायां सौरिः करोति निःसंशयं पुंसाम् ॥२३॥
चण्डं साहसनिरतं नरेन्द्रसंग्रामपूजितं धात्र्याम् ।
विविधधनागमयुक्तं भौमदशायां करोति रविः ॥२४॥
विविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम् ।
वक्रदशायां चन्द्रः करोति मुक्तामणिप्रभृतीन् ॥२५॥
दिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरैः ।
दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा ॥२६॥
वक्रदशायां च गुरोः सुचरितकरणेन शुभधर्मा ।
नृपतिर्विशुद्धचेताः पुण्यानि करोत्यनन्तानि ॥२७॥
रुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्तिः ।
व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च ॥२८॥
व्यसनानि व्यसनानां भवन्त्युपर्युपरि जनविनाशश्च ।
वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि ॥२९॥
इन्दुसुतस्य दशायां प्रविशति सूर्यो यदा तदा चिह्नम् ।
कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच्च ॥३०॥
प्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्ठं च ।
क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम् ॥३१॥
रिपुरोगपापमुक्तः पुण्यानि करोति भूपतेर्मन्त्री ।
जीवे चरति दशायां बुधस्य पुरुषो भवेन्नियतम् ॥३२॥
मस्तकशूलनिरोधैर्नानाक्लेशैश्च युज्यते जन्तुः ।
इन्दुसुतस्य दशायां भौमस्यान्तर्दशा यदा भवति ॥३३॥
गुरुविबुधातिथिभक्तो बस्त्रालङ्कारपुष्पगन्धरुचिः ।
इन्दुसुतस्य दशायां शुक्रस्यान्तर्दशा यदा भवति ॥३४॥
षण्डमुखकामसेवी विलुप्तधर्मार्थभोगसुतवित्तः ।
भवति नरोsत्र दशायां बुधस्य मन्दो यदा चरति ॥३५॥
रिपुभयकलहैर्मुक्तः प्रयाति गुरुतां नरेन्दस्य ।
विक्रमसाहससौख्यैर्जीवदशायां रवौ चरति ॥३६॥
प्रत्नीसहस्रभर्ता जितरोगरिपुः परोन्नतिं लभते ।
प्रकटयति राजचिह्नं चन्द्रदशा गुरुदशायां हि ॥३७॥
तीक्ष्णः परोपतापी शूरो रणलब्धकीर्तिधनः ।
सौख्यमनन्तं लभते जीवदशायां कुजे चरति ॥३८॥
वेश्यामद्यव्यसनैः परिभूतो भवति निर्धनः सोsपि ।
सौम्ये जीवदशायां विलुप्तधर्मो भवेत्पुरुषः ॥३९॥
व्याधिविनशं सौख्यं मित्रैः सह सङ्गतिं तथा पूजाम् ।
मातापित्रोर्भक्तिं जीवदशायां बुधे लभते ॥४०॥
रिपुभयविनाशदुःखैरभिभूतो ब्राह्मणोपजीवी च ।
जीवदशायां शुक्रे प्रविशति नित्यं भवेत्पुरुषः ॥४१॥
वेश्यामद्यद्यूतैरभिभूतो महिषखरयुक्तः ।
सौरे जीवदशायां विलुप्तधर्मो भवेत्पुरुषः ॥४२॥
गण्डोदराक्षिरोगैः क्षितिपतितो बन्धनादिभिस्तप्तः ।
शुक्रदशायां सूर्ये विचरति नूनं भवेत्पुरुषः ॥४३॥
अन्तर्दशा दशायां सितस्य शशिनो यदा भवति चिह्नम् ।
नखदशनशिरोरोगैः सह भवति च कामिलारोगः ॥४४॥
पित्तासृक्कृतरोगो भूलाभः संश्रयो नृपपितश्च ।
शुक्रदशायां भौमे मन्दोत्साहः पुमान्भवति ॥४५॥
शुक्रदशायां पुंसां बुधस्य चान्तर्दशा यदा भवति ।
युवतिकृतं धनलाभं सौख्यं च मनोरथं लभते ॥४६॥
अन्तर्दशा दशायां भृगोर्गुरोर्धर्मशीलसम्पत्तिम् ।
विदधाति विषयराज्यं पुंसां धनरत्नमतिसौख्यम् ॥४७॥
वृद्धस्त्रीभिः क्रीडां पुरनगरगणाधिपत्यमरिनाशम् ।
शुक्रदशायां सौरिः करोति बहुमित्रसंयोगम् ॥४८॥
धनपुत्रदारनाशं भयमतुलं संदधाति पुरुषस्य ।
रविपुत्रस्य दशायां सूर्यस्यान्तर्दशा न सन्देहः ॥४९॥
स्त्रीमरणं हरणं वा बन्धुवियोगं पुनः पुनः कलहम् ।
अन्तर्दशा दशायां शनेः शशाङ्कस्य विदधाति ॥५०॥
देशभ्रंशं व्याधिं दुःखानि करोत्यनेकरूपाणि ।
अन्तर्दशा दशायां रविजस्य महीसुतस्य यदा ॥५१॥
सौभाग्यसौख्यविजयप्रमोदसत्कारमानधनलाभम् ।
सौरिदशायां सौम्यो विदधात्यन्तर्दशाप्राप्तः ॥५२॥
अनुयाति शिष्टपदवीं ग्रामादिकलत्रसौख्यसंपन्नः ।
रवितनयस्य दशायां प्रविशति जीवे सदा पुरुषः ॥५३॥
वर्धयति मित्रपक्षं भिनत्ति शोकान्यशः प्रकाशयति ।
सौरदशायां शुक्रः पत्नीधनविजयलाभकरः ॥५४॥
नीचोच्चादिविभेदेन शत्रुमित्रबलाबलम् ।
अन्तर्दशासु मतिमांश्चिन्तयेच्च प्रयत्नतः ॥५५॥
अन्तर्दशा शुभायां मूलदशायां शुभा यदा भवति ।
भवति तदा बहुसौख्यं धनलब्धिरतीव पुरुषाणाम् ॥५६॥
रविकिरणमुषितदीप्तेर्दशा ग्रहस्य मलिनां तनुं कृत्वा ।
मानयशोर्थविलासप्रतापरूपोद्यमान्हन्ति ॥५७॥
होरा जन्माधिपतेः शत्रुदशायां नरोsतिमूढमतिः ।
राज्याच्च्युतो विपक्षैरभिभूतोsन्यं समाश्रयति ॥५८॥
व्योमलग्नप्रपन्नस्य दशायां राज्यमाप्नुयात् ।
नरेन्द्राणां समायोगे सुवीर्यस्याथवा पुनः ॥५९॥
लग्ने जीवः सितबुधयुतः सप्तमस्थोsर्कपुत्रः
कर्मप्राप्तो दहनकिरणो भोगिनां जन्म कुर्युः ।
केन्द्रे सौम्या न शुभगृहगा यत्र पापाभिधाना
यद्येवं स्याच्छबरनृपतिर्जायते वित्तवांश्च ॥६०॥
इति कल्याणवर्मविरचितायां सारावल्यां अन्तर्दशाफलो नामैकचत्वारिंशोsध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:32.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Estate Manager

  • स्थावर व्यवस्थापक 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site