TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
त्रयस्त्रिंशोsध्यायः ।

त्रयस्त्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


त्रयस्त्रिंशोsध्यायः ।
लग्नाद्दशमे राशौ कर्मफलं यत्प्रकीर्तितं मुनिभिः ।
राशिग्रहस्वभागैर्ग्रहदृष्ट्या तदहमपि वक्ष्ये ॥१॥
होरेन्द्वोर्बलयोगाद्यो दशमस्तत्स्वभावजं कर्म ।
तस्याधिपपरिवृद्ध्या वृद्धिर्ज्ञेयाsन्यथा हानिः ॥२॥
जाङ्गलमथवानूपं तथोभयं वा गृहं परीक्षेत ।
ग्राम्यमथारण्यं वा सौम्यर्क्षं पापभवनं वा ॥३॥
द्विपचतुष्पदरूपं सरीसृपं वा तथोभयं चैव ।
यद्रूपं तद्भवनं यादृशकं यत्स्वभावं च ॥४॥
प्रवदेत्तत्समदेशे कर्मप्राप्तिं नरस्य तत्सदृशीम् ।
तस्माद्दशमं भवनं प्रसवे बुध्येत यत्नेन ॥५॥
दशमे नक्षत्रपतेर्लग्नात्पुरुषस्य कर्म संभवति ।
सर्वारम्भे वृत्तिं विनिर्दिशेत्तस्य जातस्य ॥६॥
द्व्यन्तरयोगाध्याये कथितं कर्मस्थितैर्ग्रहैर्लग्नात् ।
चन्द्रादत्र विशेषो ग्रहैः स्थितैर्व्यक्तमिह वक्ष्ये ॥७॥
चन्द्राद्दशमे सूर्यः सिद्धारम्भं धनैः समृद्धं च ।
जनयत्युत्तमसत्वं नृपतिमुदग्रं धनाश्रयं पुष्टम् ॥८॥
भौमः साहसनिरतं प्रत्यन्तनिवासिनं विषयलुब्धम् ।
क्रूरं निषादचैर्तं जनयति दशमे स्थितः पुरुषम् ॥९॥
विद्वांसं धनवन्तं बहुश्रुतं नृपतिनायकं ख्यातम् ।
जनयति सौम्यो दशमे पुरुषं बहुशिल्पिनं प्राज्ञम् ॥१०॥
गुरुरपि दशमस्थाने सिद्धार्थं धार्मिकं धनसमृद्धम् ।
जनयत्युत्तमचरितं नरेन्द्रसचिवं नरं ख्यातम् ॥११॥
शशिनो दशमे शुक्रः सुभगं ललितं च वित्तवन्तं च ।
जनयति सिद्धारम्भं धनिनं नृपपूजितं पुरुषम् ॥१२॥
सौरो व्याधितदेहं निःस्वं दुःखान्वितं प्रजाहीनम् ।
कर्मसु नित्योद्विग्नं जनयति दशमे स्थितः पुरुषम् ॥१३॥
भानुर्भौमसमेतः कर्मकरान्कासशोषगदबहुलान् ।
ज्योतिर्विदः प्रकुर्याल्लाक्षणिकांस्तार्किकांश्चापि ॥१४॥
सूर्यः सौम्यसमेतो वस्त्रालङ्कारभागिनं वणिजम् ।
जनयति मेषूरणगः पुरुषं जलजीविनं वाsपि ॥१५॥
जीवसहायः सूर्यः सिद्धारम्भान्नरेन्द्रमान्यांश्च ।
जनयतिदशमे पुरुषान् वीरान्शूरान्सुविख्यातान् ॥१६॥
सूर्यसहायः शुक्रो दशमे स्वजनाश्रितं नरं कुरुते ।
स्त्रीसंश्रयात्समृद्धं सुभगं नृपवल्लभं चापि ॥१७॥
सूर्यः स्वपुत्रसहितो दशमे वधबन्धभागिनं भृतकम् ।
जनयति दीनं कृपणं चोरैर्मुषितं प्रलापकरम् ॥१८॥
भौमः सोमजसहितो जनयति दशमे नरं बहुविपक्षम् ।
अस्त्रकलावेत्तारं कौशलमतिजीविनं महाशूरम् ॥१९॥
भौमः सुरगुरुसहितो दशमे कुरुते बलस्य नेतारम् ।
मित्रेभ्यो लब्धधनं तदाश्रयाजीवितं धन्यम् ॥२०॥
जनयति विदेशनिरतं काञ्चनमुक्तादिभिर्वणिग्वृत्त्या ।
भौमः शुक्रसमेतो दशमे स्त्रीसंश्रयाद्वाsपि ॥२१॥
भौमः सौरसहायो जनयति दशमे स्थितो नरं प्रसवे ।
साहसशीलं क्षुद्रं कर्मायुक्तं रुजा सहितम् ॥२२॥
सधनं नरेन्द्रपूज्यं धर्मिष्ठं वृन्दनायकं ख्यातम् ।
जीवः सौम्यसहायो जनयति मेषूरणे पुरुषम् ॥२३॥
सौम्यः शुक्रसहायो जनयति दशमे सुहृज्जनोपेतम् ।
विद्यास्त्रीधनसौख्यं नृपसचिवं विषयनाथं वा ॥२४॥
सौम्यः सौरसहायो मृद्भाण्डकरं करोति दशमस्थः ।
ख्यातं विद्याचार्यं पुस्तकलिपिलेख्यकारं च ॥२५॥
वचसां पतिः सितयुतः कर्मणि कुरुते नरेन्द्रवरभृत्यम् ।
ब्राह्मणपतिं विशोकं विद्याचार्यं समर्थं च ॥२६॥
सुरराजगुरुः सार्किर्दशमे नीचं परोपकाररतम् ।
कुरुते प्रवृद्धचेष्टं स्थिरास्पदं सुस्थिरारम्भम् ॥२७॥
शुक्रः सौरसहायश्चित्रकरं गन्धजीविनं वैद्यम् ।
जनयति दशमे पुरुषं नीलकरं चूर्णकारं च ॥२८॥
रविभौमचन्द्रपुत्राश्चन्द्राद्दशमस्थिता नरं धन्यम् ।
जनयन्त्युत्तमपुरुषं नृपतिसमं सर्वजनपूज्यम् ॥२९॥
रविभौमदेवपूज्या दशमस्थाने नरं सुभगम् ।
शत्रूणां हन्तारं जनयन्ति समृद्धिसंयुक्तम् ॥३०॥
चन्द्राद्दशमे भानुर्भूपुत्रो भार्गवश्च जनयन्ति ।
क्रूरं साहसनिरतं पुरधनकरणेsतिनिपुणमतिम् ॥३१॥
भानुजरविभूपुत्रा दशमस्थाः क्रूरकर्मनिरतं तु ।
उत्पादयन्ति मनुजं मूढं पापं दुराचारम् ॥३२॥
रविबुधगुरवो दशमे विद्वांसं रूपसंयुक्तम् ।
उत्पादयन्ति पुरुषं धर्मिष्ठं बन्धुवल्लभं चैव ॥३३॥
बुधसूर्यभार्गवसुता यशस्विनं धार्मिकं विगतरोषम् ।
जनयन्त्यपराभूतं सौभाग्यपरिच्छदसमृद्धम् ॥३४॥
रविबुधशनयो दशमे क्रूरं चपलं नरं विशीलं च ।
उत्पादयन्ति नियतं शस्त्राग्निपरिक्षताङ्गं च ॥३५॥
रविभृगुजदेवपूज्या दशमस्थानोपगा नरं कुर्युः ।
सुभगं विद्याप्तधनं धर्मरतं भोगभागिनं नित्यम् ॥३६॥
त्रिदशगुरुमन्दसूर्या दशमे युक्ता नरं प्रकुर्वन्ति ।
प्रायेण लोकमान्यं चारित्रविलोपिनं धीरम् ॥३७॥
भार्गवरविभानुसुता दशमस्थानोपगा नरं कुर्युः ।
लोभान्वितमतिचपलं समस्तजनविप्रयुक्तं च ॥३८॥
भौमेन्दुजसुरपूज्या धर्मिष्ठं बहुकुटुम्बपरिवारम् ।
जनयन्ति दशमसंस्था विद्याधनभागिनं पुरुषम् ॥३९॥
शोभनशिल्पाभिरतान्मालाकारान्सुवर्णकारांश्च ।
कुर्युर्बुधभृगुवक्रा दशमस्थाः सर्वलोकदयितांश्च ॥४०॥
भौमबुधसूर्यपुत्रा जनयन्ति तथा न धर्मशीलं  च ।
निद्रानिरतं प्रखलं द्शमस्थानोपगा नरं मलिनम ॥४१॥
भार्गवसुरेज्यभौमा दशमस्थानाश्रिता नरान्कुर्युः ।
धनसंयुक्तान्शूरान्देवद्विजपूजनानुरतान् ॥४२॥
विद्याधनजनहीनान्कापुरुषान्सौख्यावर्जितान्विकलान् ।
जीवाङ्गारकसौरा दशमे कुर्युर्नरान्नीचान् ॥४३॥
सचिवानुत्तमपुरुषान्वनधर्मरतांश्च धनिनश्च ।
भौमभृगुसूर्यपुत्राः कुर्वन्ति नराननेककर्मरतान् ॥४४॥
शुक्रब्रुहस्पतिसौम्या दशमे पुरुषस्य शुक्रराशिस्थाः ।
बहुविधमिष्टं कुर्युर्व्याधिं चाप्यन्यगृहसंस्थाः ॥४५॥
लिपिलेख्यकाव्यनिरतं धनवन्तं बहुविधेयभृत्यं च ।
अटनप्रियं सुरूपं बुधगुरुसौरा नरं दशमे ॥४६॥
दशमे विज्ञानयुतान्मल्लान्परदेशनिरतांश्च ।
कुर्युर्बुधभृगुरविजाः कर्मोद्युक्तं सदा दान्तम् ॥४७॥
विद्वांससं धर्मरतं दयान्वितं सत्यवन्तं च ।
भानुजगुरुभृगुपुत्रा दशमस्थानोपगा नरं कुर्युः ॥४८॥
एवं त्र्यादिषु वाच्यं जन्मनि पुंसां फलं हि कर्मोत्थम् ।
त्र्यादिग्रहसंयोगेsत्र विशेषस्तमपि वक्ष्ये ॥४९॥
रविभौमबुधसुरेड्या दशमस्थानोपगा नरं कुर्युः ।
शूरं विक्षतगात्रं दातारं सर्वकर्मरतम् ॥५०॥
वक्रार्कशुक्रसौम्याश्चन्द्राद्दशमं समाश्रिताः प्रसवे ।
कुर्युर्निर्माल्यकरॉंल्लेख्यकरांश्चापि चित्रकर्मकरान् ॥५१॥
रविकुजबुधभानुसुता दशमस्थानस्थिताः प्रसवकाले ।
उत्पादयन्ति पुरुषं धनवाहनवारणोपेतम् ॥५२॥
रविजीवशुक्रसौम्या जनयन्ति नभःस्थिता नरान्सौम्यान् ।
कुत्सितवृत्तीनामपि सुतान्वरान्कर्षणोपेतान् ॥५३॥
रविजीवसौम्यसौरा दशमस्थानस्थिताः कुर्युः ।
पुरुषं मायानिपुणं क्रूरं परवञ्चनानुरतम् ॥५४॥
रविसितबुधभानुसुताश्चन्द्राद्दशमस्थिता नरं कठिनम् ।
उत्पादयन्ति सुभगं वाग्मिनमथ कर्षणानुरतम् ॥५५॥
रविगुरुभार्गवशनयो मेषूरणसंस्थिताः प्रसवकाले ।
उत्पादयन्ति मनुजं प्रवासशीलं विविधचेष्टम् ॥५६॥
भौमसितबुधसुरेड्या जन्मनि दशमर्क्षगा नरं निपुणम् ।
उत्पादयन्ति चतुरं शूरं समरेष्वधृष्यं च ॥५७॥
भौमबुधमन्दगुरवो जन्मनि दशमस्थिता नरं मलिनम् ।
जनयन्ति नरोद्युक्तं संग्रामे रिपुविनाशकरम् ॥५८॥
भौमबुधशुक्रसौरा नभःस्थले संश्रिताः प्रसवकाले ।
विद्याबहुलं शूरं जनयन्ति नरं विशालाङ्गम् ॥५९॥
भौमगुरुशुक्रमन्दाश्चन्द्रान्मेषूरणर्क्षगाः प्रसवे ।
जनयन्ति नरोद्युक्तं संग्रामे रिपुविनाशकरम् ॥५८॥
भौमबुधशुक्रसौरा नभःस्थले संश्रिताः प्रसवकाले ।
विद्याबहुलं शूरं जनयन्ति नरं विशालाङ्गम् ॥५९॥
भौमगुरुशुक्रमन्दाश्चन्द्रान्मेषूरणर्क्षगाः प्रसवे ।
जनयन्ति नरं धीरं कुटुम्बयुक्त धनोपेतम् ॥६०॥
बुधगुरुभार्गवशनयो जन्मनि दशमस्थिताः कुर्युः ।
पुरुषं शान्तमनस्कं सुमेधसं लोकदयितं च ॥६१॥
पापैर्नभःस्थलस्थैः सौम्यग्रहवीक्षितैः प्रजायन्ते ।
वैद्यपुरोहितगणकाश्चण्डाः परवञ्चनानुरताः ॥६२॥
एते समस्तयोगाः सौम्यग्रहवीक्षिताः प्रशस्यन्ते ।
पापग्रहदृष्टियुताः प्रायेण न भद्रकाः प्रोक्ताः ॥६३॥
पापास्तृतीयषष्ठा होरेन्दुस्थानतो नृणामिष्टाः ।
नेष्टा निधनान्त्यगता लग्नोपगतां विशेषेण ॥६४॥
होराशह्सिनोर्बलवान्यसतस्मात्कर्मभेन वा कथयेत् ।
यो बलयुक्तो वर्गस्तदधिपतेर्वाssदिशेद्वृत्तिम् ॥६५॥
आरामपुत्र ( बुद्धि ) सेवाकृषिरसवणिगर्कदूतकार्येण ।
जीवन्ति नरा नित्यं मेषगणे दशमराशिस्थे ॥६६॥
वृषभगणे दशमस्थे शकटचतुष्पदविहङ्गमृगजीवी ।
धान्यादिसङ्ग्रहेण च जाङ्गलदेशे फलं प्रायः ॥६७॥
जलवणिजः सुसमृद्ध्या मुक्ताशङ्खप्रवालभाण्डैश्च ।
लिपिगणितलेख्यजीवी नृमिथुनवर्गै दशमसंस्थे ॥६८॥
शस्त्राग्नियोनिपोषणमुक्तासंख्योपजीवनं चैव ।
आखेटकवृत्त्या वा कर्किणि वर्गे च दशमस्थे ॥६९॥
सन्नाहका मणीनां पाषाणस्वर्णरूप्यकूटाश्च ।
कर्षणनिरता लेये गोजीवा धान्यवाणिजकाः ॥७०॥
शाकटिका मणिकारा हैरण्या गन्धविक्रये निपुणाः ।
गान्धर्वशिल्पलेख्यैः कन्यावर्गे सदा विभवाः ॥७१॥
प्रायोज्यानुपदेशाद्धिरण्यपरिवर्तनाच्च मित्राय ।
जायन्ते च मनुष्या नानाव्यवहारभागिनः सततम् ॥७२॥
वाणिज्यविपणिजीवा गोजीवा महिषजीवाश्च ।
नानापण्यसमृद्धाः सलिलोद्भवपण्यवृत्तयः ख्याताः ॥७३॥
धनधान्यमूलवणिजः फलमूलकृषीवलाश्चैव ।
जायन्ते धटवर्गे दशमस्थानस्थिते कलावृत्ताः ॥७४॥
स्त्रीसम्पर्कजविभवा जायन्ते कर्षणानुनिरताश्च ।
नित्योद्दुक्ताश्चोराः पृथिवीपतिसेवकाः पापाः ॥७५॥
देहचिकित्सानिरता लोहकरा जीविनोsलिसंज्ञर्क्षे ।
वर्गे नभस्तलगते धान्यानां चोपजीविनो नित्यम् ॥७६॥
नृपसचिवदुर्गपालनगोजीवनवाजिकाष्ठशकुनैश्च ।
यन्त्रोपस्करगणितैर्जीवन्ति नराश्चिकित्सया धनुषः ॥७७॥
दशमे कुरङ्गवर्गे जलपण्यधनो भवेन्महाविभवः ।
खटारामारोपणरसायनैर्वर्तते जातः ॥७८॥
शस्त्रदहनप्रभेदैश्चौर्येण च वर्तते खननवृत्त्या ।
दशमे घटधरवर्गे भारवहस्कन्धबाहुबलात् ॥७९॥
शस्त्रात्सलिलाद्योनिप्रपोषणादश्वविक्रयाद्वsपि ।
वर्गे मीनप्रभवे दशमस्थे जायते वृत्तिः ॥८०॥
दिवसकराद्यैः स्वस्थैः शशिहोराभ्यां भवन्त्याढ्याः ।
पितृमातृशत्रुहितजनसहजस्त्रीभृत्यवर्गेभ्यः ॥८१॥
होरागतैर्धनगतैरायगृहस्थैश्च चिन्तयेदर्थम् ।
बलसंयुतैरायगृहस्थैश्च दृष्टमाचार्यैः ॥८२॥
इति कल्याणवर्मविरचितायां सारावल्यां कर्मचिन्ताध्यायस्त्रयस्त्रिंशः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:32.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

breach of confidence

  • विश्वास भंग 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.