TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
विंशोsध्यायः ।

विंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


विंशोsध्यायः ।
योगा विभक्ता श्चतुरादिसंस्थैर्व्यासाद्ग्रहैः कैरपि तापसानाम् ।
जन्मादि तेषामपरैर्मुनीन्द्रैः संवेदितं तत्कथयाम्यशेषात् ॥१॥
सूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु ।
एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव ॥२॥
कुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च ।
सूर्येन्दुभूपुत्रशनैश्चरैः स्यादेकर्क्षगैः प्रव्रजितो मनुष्यः ॥३॥
आदित्यगुर्वार्किशशाङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च ।
एकर्क्षसंस्थास्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्राः ॥४॥
सितार्कभौमार्कसुता महाबलाः सुरेज्यभूपुत्रकसौरसूरयः ।
कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम् ॥५॥
कुजार्किसोमात्मजदेववन्दितैः कुजार्किचन्द्रात्मजसूर्यभार्गवैः ।
रवीन्दुभौमासितदानवप्रियैवन्ति सूता व्रतसंयुता नरा: ॥६॥
सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेड्यबुधार्कनन्दनैः ।
सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥७॥
चन्द्रेन्दुपुत्रारसुरेड्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभूमिजैः ।
स्थितैरमीभिः सहितैर्नृसम्भवा भवन्ति वन्द्या मुनयोsत्र दूषकाः ॥८॥
रवीन्दुभौमेन्दुजजीवभार्गवैः शशाङ्कभौमार्किबुधेड्यभास्करैः ।
कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्नरो व्रती ॥९॥
सितेन्दुजीवार्कजसूर्यलोहितैः सितार्कभौमार्किशशाङ्कसोमजैः ।
एकत्रयातैर्गगनेचरैः सदा भवन्ति जाता मुनयो यशस्विनः ॥१०॥
कुजज्ञवागीशसितार्किभास्करैः सितार्किजीवेन्दुजचन्द्रभूमिजैः ।
बलप्रधानैः सहितैर्विहङ्गमैर्व्रजेत्प्रजातः पुरुषस्तपस्विताम् ॥११॥
रवीन्दुवागीशशनैश्चरैश्च शनैश्चरेन्द्वर्कसितैरवश्यम् ।
रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विनः स्युः फलमूलभक्षिणः ॥१२॥
वक्रार्कसोमात्मजदानवेड्या भौमेन्दुवागीशशशाङ्गपुत्राः ।
एकर्क्षगा जन्मनि यस्य जन्तोर्भवेद्व्रती वल्कलचीरधारी ॥१३॥
शशीन्दुपुत्रक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेड्यसौराः ।
एकर्क्षगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम् ॥१४॥
चन्द्रार्कभार्गवशशाङ्कसुता बलस्था
भौमेन्दुपुत्रसितभास्करनन्दनाश्च ।
मन्देन्दुवाक्पतिसिता नियतं यतीनां
कुर्वन्ति जन्म फलपाककृताशनानाम् ॥१५॥
रविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्ये -
र्गुरुसितरविमन्दैः शुक्रजीवेन्दुवक्रैः ।
कुजबुधसितचन्द्रैरेभिरेकर्क्षयातै -
र्भवति गिरिवनौकास्तापसः सर्ववन्द्यः ॥१६॥
सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुक्रैः ।
रविशशिकुजबुधजीवैर्भवति यतिर्दुःखितो दीनः ॥१७॥
कुजार्किदेवेड्यासितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः ।
समं गतैः स्युः सबलैर्यथोक्तैर्जटाधरा वलक्लधारिणश्च ॥१८॥
भान्विन्दुजेन्दुकुजजीवसुरारिपूज्यैः
सूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च ।
प्राप्नोत्यवश्यमिह तापसरूपमेभि -
रेकर्क्षगैर्गगनवासिभिरेव जातः ॥१९॥
प्रव्रज्येशे दिनकरगते भुक्तिमन्तोsतिशक्ताः
प्रव्रज्यायाः सुबलसहितैः स्थैर्यमाहुर्गहेन्द्रैः ।
सम्पूर्णानां वशमनुगतैः प्रच्युतैस्तैर्बहुत्वे
वीर्योपेतैर्भवति बहुभिः सद्बलस्यानुपुर्व्यात् ॥२०॥
प्रव्रज्यायाः स्वामी रविमुषिततनुर्निरीक्षितो वाsन्यैः ।
याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम् ॥२१॥
शशी दृकाणे रविजस्य संस्थितः कुजार्किदृष्टः प्रकरोति तापसम् ।
कुजांशके वा रविजेत दृष्टो नवांशतुल्यं कथयन्ति तत्पुनः ॥२२॥
जन्माधिपः सूर्यसुतेन दृष्टः शेषैरदृष्टः पुरुषस्य सूतौ ।
आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वाक्तमत्रापि विचारणीयम् ॥२३॥
जन्मपतिर्विकलाङ्गः पश्यति सौरिं चतुष्टये प्रबलम ।
यस्य स भाग्यविहीनः प्रव्रज्यां प्राप्नुयात् पुरुषः ॥२४॥
गुरुहिमगुर्वीणामेक एवोदयस्थो
गगनतलगतो वा रिःफगश्चाल्पमूर्तिः ।
अविकलबलभाजा सूर्यपुत्रेण दृष्टो
जनयति खलु जातं तापसं दुःखभाजम् ॥२५॥
कुमुदवनसुबन्धुं सौम्यभागे बलस्थं
वियति गमनशीलान् स्वोच्चभस्थांश्च शेषान् ।
यदि दिनकरपुत्रः पश्यति प्राप्तवीर्यो
भवति भुवननाथो दीक्षितश्च स्वचन्त्रः ॥२६॥
अतिशयबलयुक्तः शीतगुः शुक्लपक्षे
बलविरहितरिक्तं प्रेक्षते लग्ननाथम् ।
यदि भवति तपस्वी दुःखितः शोकतप्तो
धनजनपरिहीनः कृच्छ्रलब्धान्नपानः ॥२७॥
सौरिः शुभभागस्थः पश्यति चन्द्रं ग्रहांस्तथैवान्यान् ।
कुंम्भांशेषु प्राप्तान् जनयति दीक्षन्वितं पुरुषम् ॥२८॥
एकर्क्षगतैः सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य ।
दीक्षा तस्यावश्यं भवतीति पुरातनैः कथितम् ॥२९॥
अग्नीनां परिचारका गिरिनदीतीराश्रमे तापसाः
सूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये ।
गायत्रीं जपतां वने नियमिनां गङ्गाभिषेकार्थिनां
कौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्करः ॥३०॥
वृद्धश्रावकभस्मधूलिधवलाः शैवव्रते ये स्थिता
बाह्याः पातकितां गता भगवतीभक्ताश्च निःसङ्गिनः ।
सिद्धान्ते खलु सोमनाग्नि निरताः कापालिका निष्ठुरा -
स्तेषां नायकतां गतः शशधरः खट्वाङ्गपाणिद्युतिः ॥३१॥
उपासका बुद्धसमाश्रयं गताः शिखां गताः पाण्डरभिक्षवश्च ये ।
सुवाससो रक्तपटा जितेन्द्रियाः प्रभुः सदैषां क्षितिजः प्रकीर्तितः ॥३२॥
आजीविनां कुहकिनां समयाधिका ये
ये दीक्षितास्तनुभृतः खलु गारुडे च ।
तन्त्रे मयूरपिशिताशनयोश्च युक्ता -
स्तेषां शशाङ्कतनयोsधिपतिर्निरुक्तः ॥३३॥
एकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरा
वानप्रस्थमुपागताः फलपयोभक्षाश्च ये भिक्षवः ।
गार्हस्थ्येन तु संस्थिता नियमिनः सद्व्रह्मचर्यं गता -
स्तेषां दण्डपतिः सुरेन्द्रसचिवस्तीर्थेषु ये स्नातकाः ॥३४॥
पाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः ।
वैष्णवचक्रकाणामपि तेषां नेता प्रकीर्तितः शुक्रः ॥३५॥
पाशुपतयज्ञदीक्षाव्रतेषु ये नित्यमेव संयुक्ताः ।
पाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च ।
तेषामधिपतिरार्किः श्रावकतरुमूलिनश्च दुस्तपसः ॥३६॥
प्रकथितमुनियोगे राजयोगो यदि स्या -
दशुभफलविपाकं सर्वमुन्मूल्य पश्चात् ।
जनयति पृथिवीशं दीक्षितं साधुशीलं
प्रणतनृपशिरोभिः स्पृष्टपादाब्जयुग्मम् ॥३७॥
इति कल्याणवर्मविरचितायां सारावल्यां प्रव्रज्यायोगो नाम विंशोsध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:31.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

त्रिपुर

  • पु. १ या नावांचा एक दैत्य . यास शंकराने मारले . २ त्रिपुरासुराची तीन नगरे . - शर . त्रिगुण त्रिपुरी वेढिला । - ज्ञा १७ . २ . ३ कार्तिकी पौर्णिमेस देवापुढे दीपमाळेवर अथवा इतरत्र कापूर इ० कांचा लावतात तो मोठा दिवा . ४ शिवरात्रीस स्त्रिया शंकरापुढे लावितात त्या वाती , दिवे . ५ देवळासमोर उभारलेला दीपस्तंभ , दीपमाळ . [ सं . ] - रारि - पु . त्रिपुराचा नाश करणारा ; शंकर . नेणो कै श्रीत्रिपुरारी । सांगितले जे । - ज्ञा १८ . १७५१ . [ सं . त्रिपुर + अरि = शत्रु ] त्रिपुरी पुनवपौर्णिमा - स्त्री . कार्तिकी पौर्णिमेस देवालयांत त्रिपुर लावून करतात तो दीपोत्सव . [ त्रिपुर + उत्सव ] 
  • न. एक प्रांत . याचे आधुनिक नांव टिप्पेरा असे आहे . 
  • n. एक असुरेसंघ । मयासुर ने ब्रह्माजी के प्रसाद से तीन पुरों (नगरों) की रचना की । उन पुरों क्रमशः लोहमय, रौप्यमय, एवं सुवर्णमय थे । नगर पूर्ण होने के पश्चात्, उनका अधिपत्य तारकासुर के ताराक्ष, कमलाक्ष एवं विद्युन्मालि इन तीन पुत्रों को दिया गया [म.क.२४.४] । ये तीन असुर ‘त्रिपुर’ नाम से प्रसिद्ध हुएँ । मयासुर ने नगर निर्माण कर असुरों को दिये । उस समय उसने त्रिपुरों को चेतावनी दी कि, ‘तुम्हें देवताओं को न तो त्रस्त, करना चाहिये, नहीं तो उनका अनादर करना चाहिये’। किंतु बाद में विपरीत बुद्धि हो कर, त्रिपुर अधर्माचरण करने लगे । इसलिये शिवजी के हाथ से इनका नाश हुआ । यह अधर्माचरण विष्णु ने इनमें फैलाया [शिव.रुद्र.४.५] । त्रिपुरों में धार्मिकता होने के कारण, उनपर विजयप्राप्ति असंभव थीं । इसलिये विष्णु ने बुद्ध के रुप में इन पुरों को धर्मरहित किया । बाद में देवों ने युद्ध प्रारंभ किया [मत्स्य.१३०-१३७];[ भा.७.१०];[ म.अनु.२६५.३१ कुं.] इनसे युद्ध करते समय शंकर के शरीर से जो घर्मबिंदु निकले, वे ही रुद्राक्ष बने [पद्म. सृ.५९] । जिन अमृतकुंडों के कारण ये अमर थे, उनका प्राशन देवताओं ने गोरुप से कर लिया । पश्चात् शिवजी ने त्रिपुर का दहन किया [पद्म.सृ.१३] । इसी समय ताराक्ष, कमलाक्ष तथा विद्युन्मालि असुरों का अंत हुआ [म.द्रो.१७३.५२-५८];[ लिंग. १.७०-७२] 
  • m  A large lamp burnt before the idol on the 15th of कार्तिक. 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site