TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
पञ्चत्रिंशोsध्यायः ।

पञ्चत्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


पञ्चत्रिंशोsध्यायः ।
राजोपयोगिशास्त्रं यस्मात्प्रभवो विशेषतस्तेषाम् ।
सञ्चिन्त्या नृपयोगास्तानेवाहं प्रवक्ष्यामि ॥१॥
स्वोच्चत्रिकोणगृहगैर्बलसंयुतैश्च
त्र्याद्यैर्नृपो भवति भूपतिवंशजातः ।
पञ्चादिभिर्जनपदप्रभवोsपि सिद्धो
हीनैः क्षितीश्वरसमो न तु भूमिपालः ॥२॥
अशुभगगनवासैः स्वोच्चगैः क्रूरचेष्टं
कथयति यवनेन्द्रो भूपतिं विक्रमोत्थम् ।
न तु भवति नरेन्द्रो जीवशर्मोक्तपक्षे
भवति नृपतियोगैः सत्कृतो राष्ट्रपालः ॥३॥
एष्विह भवन्त्यवश्यं भूपतियोगेषु नीचकुलपुरुषाः ।
तानग्रतः प्रवक्ष्ये यथामतं शास्त्रकाराणाम् ॥४॥
स्वोच्चस्थै रविभौमसौरगुरुभिः सर्वैस्त्रिभिश्चैकगै -
लग्ने षोडशवृद्धतापसगणैः सन्दर्शिताः पार्थिवाः ।
द्वाभ्यां चैतकमोदये स्वभवने चन्द्रे पुनः षोडशः
सर्वो नीचकुलोद्भवोsपि वसुधां पात्येव वाटीमिव ॥५॥
गणोत्तमे लग्ननवांशकोद्गतो निशाकरश्चापि गणोत्तमेsथवा ।
चतुर्ग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो नृपः ॥६॥
उदयगिरिनिबिष्टैर्मेषसंस्थैर्ग्रहेन्द्रैः
शशिरुधिरसुरेड्यैर्जायते पार्थिवेन्द्रः ।
जलनिधिरशनायाः पालकः सर्वभूमे -
र्हतरिपुपरिवारः सर्वतः फूत्करोति ॥७॥
स्वोच्चे गुराववनिजे क्रियगे विलग्ने
मेषोदये च सकुजे वचसामधीशे ।
भूपो भवेदिह स यस्य विपक्षसैन्यं
तिष्ठेत जातु पुरतः सचिवा वयस्याः ॥८॥
निशाभर्ता चाये भृगुतनयदेवेड्यसहितः
कुजः प्राप्तः स्वोच्चे मृगमुखगतः सूर्यतनयः ।
विलग्ने कन्यायां शिशिरकरसूनुर्यदि भवेत्
तदाsवश्यं राजा भवति बहुविज्ञानकुशलः ॥९॥
स्वर्क्षे नक्षत्रनाथः स्फुटकरनिकरालङ्कृतः प्राप्तलग्नो
द्यूने सोमस्य पुत्रो यदि रिपुभवनं भास्करः संप्रयातः ।
पाताले दानवेड्यो गुरुरपि गगने सौरभौमौ तृतीये
सद्भूपालो भवेद्यः शशिकरधवलं चामरं राजलक्ष्मीम् ॥१०॥
वर्गोत्तमगते चन्द्रे लग्ने वा चन्द्रवर्जिते ।
चतुराद्यैर्ग्रहैर्दृष्टे जातो नरपतिर्भवेत् ॥११॥
शिशिरकिरणे स्वोच्चे लग्ने पयोम्बुनिधेः समे
घटधरगते भानोः पुत्रे मृगाधिपतौ रविः ।
अलिगृहगतो वाचां नाथः स्फुरत्करराजितो
यदि नरपतिः स्फीतश्रीकस्तदा बहुवाहनः ॥१२॥
मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिग -
स्तथा कन्यां त्यक्त्वा बुधभवनसंस्थः कुतनयः ।
स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत्
तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा ॥१३॥
उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः क्षितिसुत उच्चे ।
मृगपतिसंस्थे दशशतरश्मौ घटाधरगे स्याद्दिनकरपुत्रे ॥१४॥
कुजे विलग्ने च शशी यदाsस्ते स्फुटांशसम्भारविराजिताङ्गः ।
राजा तदा शत्रुभिरप्रधृष्यो वेदार्थविद्धेतुशतानुवादैः ॥१५॥
करोत्युत्कृष्टोद्यद्दिनकृदमृताभीशुसहितः
स्थितस्तादृग्रूपं सकलनयनानन्दजननः ।
अपूर्वोsयं स्मृत्या नयनजलसिक्तोsपि सततं
रिपुस्त्रीशोकाग्निर्ज्वलति हृदयेsतीव सुतराम् ॥१६॥
शुक्रो घटे कुजो मेषे स्वोच्चे देवपुरोहितः ।
यदि राजा भवेन्नूनं स्वयशोधौतदिङ्मुखः ॥१७॥
उदयति गुरुरुच्चे तप्तहेमप्रभावो
हरिततुरगनाथो व्योममध्यावगाही ।
गवि शशिबुधशुक्रा यस्य सूतौ नरस्य
स्वभुजविजितभूमिः सर्वतः पार्थिवेन्द्रः ॥१८॥
धनुषि सुरेड्यः शशभृदुपेतो मृगमुखसंस्थः क्षितितनयश्च ।
उदयति तुङ्गे सुररिपुवन्द्यः शशितनयो वा यदि नृपतिः स्यात् ॥१९॥
चापार्धे भगवान्सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतोsतिवीर्यसहितः स्वोच्चे च भूनन्दनः ।
यद्येवं भवति क्षितेरधिपतिः सञ्चिन्त्य शौर्यं भयात्
दूरादेव नमन्ति यस्य रिपवो दग्धाः प्रतापाग्निना ॥२०॥
षष्ठं द्यूनमथाष्टमं शिशिरगोः प्राप्ताः समस्ताः शुभाः
क्रूराणां यदि गोचरे न पतिता भान्वालयाद्दूरतः ।
भूपालः प्रभवेत्स यस्य जलधेर्वेलावनान्तोद्भवैः
सेनामत्तकरीन्द्रदानसलिलं भृङ्गैर्मुहुः पीयते ॥२१॥
न प्राप्नोति जरामाशु नो भजत्यरितो भयम् ।
जातः स्यादधियोगेsस्मिन्धृतिसौभाग्यसौख्यभाक् ॥२२॥
बुधः स्वोच्चे लग्ने तिमियुगलगावीड्यशशिनौ
मृगे मन्दः सारो जतुमगृहगो दानवसुहृत् ।
य एवं कुर्यात्स क्षितिभृदहितध्वंसनिरतो
निरालोकं लोकं चलितगजसङ्घातरजसा ॥२३॥
केसरिगो महेन्द्रसचिवो दिनकरसहितः
कुम्भगतोsर्कजः शशधरः खलु भवति वृषे ।
वृश्चिकभे क्षितेस्तु तनयो मिथुन इन्दुसुतो
मेषलग्नसमुदयो यदि स तु मनुजपतिः ॥२४॥
कार्मुके त्रिदशनायकमन्त्री भानुजो वणिजि चन्द्रसमेतः ।
मेषगस्तु तपनो यदि लग्ने भूपतिर्भवति सोतुलकीर्तिः ॥२५॥
स्वर्क्षात्केन्द्रेषु यातैर्गुरुबुधभृगुजैर्मन्दभान्वारयुक्तैः
स्वोच्चे चन्द्रोsधितिष्ठन्जनयति नृपतिं कीर्तिशुक्लीकृताशम् ॥
अत्युच्चे लग्नसंस्थो रविरपि भगवान्पार्थिवं क्रूरचेष्टं
यातायातैः समस्तं चतुरुदधिजलं यस्य सेनाः पिबन्ति ॥२६॥
उदकचरनवांशकेषु षष्ठः कमलरिपुः सकलाभिराममूर्तिः ।
उदयति विहगे शुभे स्वलग्ने भवति नृपो यदि केन्द्रगा न पाः ॥२७॥
आपूर्णमण्डलकलाकलितं शशाङ्कं
पश्यन्ति शुक्रसुरपूजितसोमपुत्राः ।
लग्नाधिपोsतिबलवान्पृथिवीश्वरः स्यात्
वर्गोत्तमश्च नवमः खलु चेद्विलग्ने ॥२८॥
वर्गोत्तमे त्रिप्रभृतिग्रहेन्द्राः केन्द्रस्थिता नो शुभसंयुताश्च ।
नो रूक्षधूमो न विवर्णदेहाः कुर्वन्ति राज्ञः प्रसवं प्रसन्नाः ॥२९॥
एक एव खगः स्वोच्चे वर्गोत्तमगतो यदि ।
बलवान्मित्रसंदृष्टः करोति पृथिवीपतिम् ॥३०॥
शीर्षोदयर्क्षेषु गताः समस्ता नीचारिवर्गे स्वगृहे शशाङ्कः ।
सौम्येक्षितोsन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम् ॥३१॥
उपचयगृहसंस्थो जन्मपो यस्य चन्द्रात्
शुभगृहमथवांशे केन्द्रयाताश्च सौम्याः ।
सकलबलवियुक्ता ये च पापाभिधानाः
स भवति नरनाथः शक्रतुल्यो बलेन ॥३२॥
अत्युच्चस्था रुचिरवपुषः सर्व एव ग्रहेन्द्रा
मित्रैर्दृष्टा यदि रिपुदृशां गोचरं न प्रयाताः ।
कुर्युर्नूनं प्रसभमरिभिर्गर्जितैर्वारणाग्र्यैः
सेनाश्वीयैश्चलति चलितैर्यस्य भूः पार्थिवेन्द्रम् ॥३३॥
परमोच्चे स्थितश्चन्द्रो यदि शुक्रेण दृश्यते ।
कुर्यान्महीपतिं पूर्णं पापैरापोक्लिमोपगैः ॥३४॥
दृश्येते शुभदैः स्वकेन्द्रभवने मित्रैश्च पापैस्तथा
युद्धे नो रिपुभिर्जितौ बलयुतौ जन्मोदयर्क्षाधिपौ ।
भूपः स्यान्निजराशिनाथनवमे चन्द्रोदये चेद्यशो
यस्येभस्रुतदानलुब्धमधुपैश्चातुर्दिशं गीयते ॥३५॥
उच्चराशिर्भवेद्धोरा यस्यासौ कुरुते नृपम् ।
स्वांशेsथ सुहृदुच्चांशे दृष्टः केन्द्रोपगैः शुभै ॥३६॥
स्थितो भानोः पुत्रो विरचितबलः पश्चिमार्धे मृगस्य
रविः सिंहे शुक्र्स्तुलिनि रुधिरो मेषगः कर्किणीन्दुः ।
कुमारीं सम्प्राप्तो यदि भवति वा शर्वरीनाथसूनुः
प्रजातो भूपालश्छदयति महीमेशशुक्लातपत्राम् ॥३७॥
वर्गोत्तमस्वभवनेषु गता ग्रहेन्द्राः
सर्वे यदा रुचिररश्मिशिखाकलापाः ।
उत्पद्यते जगति सीममतीं धरित्रीं
यः पालयेत्क्षितिपतिर्जितशत्रुपक्षः ॥३८॥
केन्द्रे विलग्ननाथः सुहृद्भिरभिवीक्षितो विहगैः ।
लग्नस्थिते च सौम्ये भूपतिरिह जायते पुरुषः ॥३९॥
सुरपतिगुरुः सेन्द्रुर्लग्ने वृषे समवस्थितो
यदि बलयुतो लग्नेशश्च त्रिकोणगृहं गतः ।
रविशनिकुजैर्वीर्योपेतैर्न युक्तनिरीक्षितो
भवति स नृपः कीर्त्या युक्तो हताखिलकण्टकः ॥४०॥
न नीचगृहसंस्थिता न च रिपोर्गृहं संगताः
स्वराशिमथवांशकानुदयगोच्चमंशं यदि ।
कलाभिरतिभूषिते कुमुदषण्डबोधप्रदे
सुहृद्भिरभिवीक्षिताः क्षितिपतिं विदध्युर्ग्रहाः ॥४१॥
यो यः पूर्णं शिशिरकिरणं प्राप्तवर्गोत्तमांशं
सुस्पष्टार्चिर्गगनगमनः पश्यति स्वोच्चसंस्थम् ।
स क्षोणीशं जनयति दशां प्राप्य सौम्यः स्वकीयाः
ख्यातं लोके यदि बलयुताः कण्टकस्था न पापाः ॥४२॥
जन्मोदयभवनपती बलसहितौ केन्द्रभेsथ हिबुके वा ।
इन्दुर्जलगृहगश्चेत्त्रिकोणगो वा महीपालः ॥४३॥
स्वगृहे मित्रभागेषु स्वांशे वा मित्रराशिषु ।
कुर्वन्ति च नरं सूतौ सार्वभौमं नराधिपम् ॥४४॥
परमोच्चगताः सर्वे स्वोच्चांशे यदि सोमजः ।
त्रैलोक्याधिपतिं कुर्युर्देवदाननवन्दितम् ॥४५॥
यस्योत्तरस्यां भगवान्वसिष्ठो बृहस्पतिः प्रागपरे च भार्गवः ।
अगस्त्यनामा खलु दक्षिणस्यां स नष्टसत्रुश्च भवेन्नराधिपः ॥४६॥
शशी पूर्णः स्वांशं स्वगृहमथवा स्वोच्चभं वा प्रयातो
दिवः पातुर्मन्त्री दितिजगुरुणा वीक्षितः केन्द्रसंस्थः ।
रविर्लग्ने स्वांशं यदि बलयुतः पश्यति स्यात्स भूपः
प्रभग्नं यस्येभैश्चतुरुदधिभूशल्लकीनामरण्यम् ॥४७॥
कुमुदगहनबन्धौ वीक्ष्यमाणे समस्तै -
र्गगनर्गहनिवासैर्दीर्घजीवी नरः स्यात् ।
फलमशुभसमुत्थं नैव केमद्रुमोत्थं
भवति मनुजनाथः सार्वभौमो जितारिः ॥४८॥
उच्चाभिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः ।
स शास्ति पृथ्वीं बहुरत्नपूर्णां बृहस्पतिः कर्कटके यदि स्यात् ॥४९॥
तुङ्गेषु षङ्विबुधमार्गचरा उपेताः
स्वांशे मयूखनिकरैः परिपूरिताङ्गाः ।
उत्पादयन्ति कुलिशाङ्कितपाणिपादं
पृथ्वीपतिं सगरवेनययातितुल्यम् ॥५०॥
शुभभवनसमेतैः सौम्यभागेषु सौम्यैः
स्फुतरुचिरकराद्यैः प्रस्फुरद्भिर्विलग्ने ।
रविमुषितमयूखैस्तैश्च पापैरमिश्रै -
र्गिरिगहननिवासी तापसः स्यान्नरेन्द्रः ॥५१॥
शुभपणफरगाः शुभप्रदा उभयगृहे यदि पापसंचयः ।
स्वभुजहतरिपुर्महीपतिः सुरगुरुतुल्यमतिः प्रकीर्तितः ॥५२॥
विलग्ननाथः खलु लग्नसंस्थः सुहृद्गृहे मित्रदृशां पथि स्थितः ।
करोति नाथं पृथिवीतलस्य दुर्वारवैरिघ्नमिहोदये शुभे ॥५३॥
सम्पूर्णमूर्तिर्भगवान्शशाङ्को मेषांशकस्थो गुरुणा च दृष्टः ।
नीचेन कश्चिन्न च वीक्षितोsन्यैः प्राह क्षितीशं यवनाधिराजः ॥५४॥
लग्नाच्छशी त्रिरिपुलाभनभःस्थलेषु
सूतावखण्डितवपुः पृथिवीश्वरः स्यात् ।
दृष्टः सुरेन्द्रगुरुणा न च वीक्षितोsन्यै -
र्जन्माधिपो दशमगः स्मरगोsथवा स्यात् ॥५५॥
बिभ्रद्रश्मिकरालपूर्णपरिधिर्नक्षत्रसम्पालक -
स्तुङ्गांशे समवस्थितैश्चसकलैः प्रोद्वीक्षितो व्योमगैः ।
कुर्याद्भूमिपतिं यशस्यचरितं हस्त्यश्वसैन्यं जगत्
योव्याच्छेषफणीन्द्रतुल्यमखिलोर्वीभारखिन्नः श्वसन् ॥५६॥
सुधामृणालोपमबिम्बशोभितः शशी नवांशे नलिनीप्रियस्य ।
यदि क्षितीशो बहुहस्तिपूर्णः शुभाश्च केन्द्रेषु न पापयुक्ताः ॥५७॥
शशिबुधरुधिराङ्गैः स्वांशकस्थैर्न नीचै -
र्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।
तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते
भवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥५८॥
नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु
स्वांशोपगैर्बलयुतैः शुभदृष्टिदृष्टैः ।
गोक्षीरशङ्खधवलो मृगलाञ्छनश्च
स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः ॥५९॥
कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं
यदि बलसमुपेतः पश्यति व्योमचारी ।
उदयभवनसंस्थः पापसंज्ञो न चैवं
भवति मनुजनाथः सार्वभौमः सुदेहः ॥६०॥
जलचरराशिनवांशक इन्दौ तनुभवने शुभदः स्वकवर्गे ।
अशुभकरः खलु कण्टकहीनो भवति नृपो बहुबारणनाथः ॥६१॥
वर्गोत्तमे हिमकरः सकलः स्थितोंsशे
कुर्यान्महीपतिमपूर्वयशोभिरामम् ।
यस्याश्ववृन्दखुरघातरजोभिभूतो
भानुः प्रभातशशिनोsनुकरोति रूपम् ॥६२॥
सर्वग्रहकृते योगे चक्रवर्तीश्वरो भवेत् ।
एकैकेन तथा जाता मण्डलानामधीश्वराः ॥६३॥
एकोsपि विहगः कुर्यात्पञ्चमांशगतो नृपम् ।
समस्तबलसम्पन्नश्चक्रवर्तिनमेव च ॥६४॥
यदि पश्यति चन्द्रमसं विबुधगुरुर्वृषभसंस्थितः प्रसवे ।
अवति पृथिवीमुदग्रां स्फुरन्मणिद्योतितदिगन्ताम् ॥६५॥
कुर्यात्तुङ्गे त्रिकोणे वा स्वराशिस्थो विलोकयन् ।
ग्रहस्तुषारकिरणं निषादमपि पार्थिवम् ॥६६॥
स्वगृहे तृतीयभागे शशी स्थितः पार्थिवं यदा कुरुते ।
परिपूर्णबलः शुभदो यदि प्रसूतौ महाराजम् ॥६७॥
स्वांशे दिवाकरो यस्य स्वक्षेत्रे च क्षमाकरः ।
स राजा गजदानौघशीकरोक्षितभूतलः ॥६८॥
लग्ने रविपुत्रसंयुते देवेज्येsस्तगते नवोदिते ।
दृष्टेsसुरराजमन्त्रिणा ग्रामीणो नृपतिर्भवेदिह ॥६९॥
उदयेsसुरमन्त्रिवरो गुरुभे गुरुदृष्टिपथं च गतः ।
कुरुते नियतं सनृपं यदि तुङ्गगतश्च बुधः ॥७०॥
शुक्रभास्करेन्दवो भावमेकमाश्रिताः ।
जीवदृष्टमात्रकाः स्यात्तदा महीपतिः ॥७१॥
लग्नगाः सितशशाङ्कजभौमाः सप्तमे शशिनि वाक्पतियुक्ते ।
तिग्मरश्मितनयेन च दृष्टे जायते पृथुयशाः पृथिवीशः ॥७२॥
विबुधगुरुर्यदि भौमनवांशे रुधिरनिरीक्षितपूर्णबलश्च ।
जनयति कुत्सितजन्ममहीपं क्रियपरिसंस्थितकर्मगतोsर्कः ॥७३॥
तृतीयगाः शुक्रशशाङ्कभास्कराः कुजोsस्तसंस्थो नवमे बृहस्पतिः ।
गुणोत्तमो लग्नगृहांशकोद्गमो यदा तदा हीनकुलो महीपतिः ॥७४॥
जीवो बुधो भृगुसुतोsथ निशाकरो वा
धर्मे विशुद्धतनवः स्फुटरश्मिजालाः ।
मित्रैर्निरीक्षितयुता यदि सूतिकाले
कुर्वन्ति देवसदृशं नृपतिं महान्तम् ॥७५॥
तपोगृहं यस्य भवेत्तदुच्चकं ग्रहेण तेनाथ युतं निरीक्षितम् ।
ग्रहद्वयं स्वोच्चगतं यदा भवेत्तदा कुटुम्बी नियतं महीपतिः ॥७६॥
सुतभवने शशिदेवनमस्यौ भवनपतिप्रसमीक्षितदेहौ ।
भृगुतनयो यदि मीनसमेतो भवति नृपः खलु कुत्सितवंशः ॥७७॥
चन्द्रस्त्रिपुष्करस्थः स्वोच्चे वचसां पतिः सलक्ष्मीकम् ।
उत्पादयति स्वामिनमुत्तमपात्रं समग्रभुगः ॥७८॥
केन्द्रस्वोच्चमुपेतः सुरमन्त्री दशमगो यदा शुक्रः ।
नूनं स भवति पुरुषः समस्तपृथ्वीश्वरः ख्यातः ॥७९॥
स्वर्क्षे शशी विपुलरश्मिशिखाकलापाः
स्वांशे स्थिता बुधबृहस्पतिदानवेज्याः ।
पातालगा दिनकरेण निरीक्षिताश्च
संसूचयन्ति नृपतिं द्विजमुख्यजातम् ॥८०॥
रविर्नभस्थः स्वत्रिकोणगोsपि वा स्वराशिसंस्थाः सितजीवचन्द्राः ।
तृतीयषष्ठायगताश्च चन्द्रात्कुर्वन्ति गोपालमिह क्षितीशम् ॥८१॥
सप्तमभवने सौम्या मित्रांशगताः सुहृद्भिरिह दृष्टाः ।
उच्चे कुजो यदि नृपः समस्तनृपपालकः श्रेष्ठः ॥८२॥
रविशशिबुधशुक्रैर्व्योम्नि मित्रांशकस्थै -
र्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नीचैः ।
स तपसि भृगुपुत्रे भूपतिः स्यात्प्रयाणे
गजमदजलसेकैर्लीयते यस्य रेणुः ॥८३॥
स्वोच्चे भानुः प्रकटितबलो व्योममध्ये सजीवः
शुक्रो धर्मे यदि बलयुतः स्वं नवांश प्रपन्नः ।
लग्ने वर्गे शुभगगनगो राजपुत्रेण दृष्टः
पृथ्वीपालो धवलितजगत्स्यात्सितैः स्वैर्यशोभिः ॥८४॥
वृषे शशी लग्नगतः सुपूर्णः सितेन दृष्टो वणिजि स्थितेन ।
बुधोsपि पातालगतो यदि स्यात्तदान्यजातो भवति क्षितीशः ॥८५॥
क्षमासुतः स्वोच्चमुपाश्रितो यदा
रवीन्दुवाचस्पतिभिर्निरीक्षितः ।
भवेन्नरेन्द्रो यदि कुत्सितस्तदा
समस्तपृथ्वीपरिरक्षणे क्षमः ॥८६॥
जायतेsभिजिति यः शुभकर्मा
भूपतिर्भवति सोsतुलवीर्यः ।
नीचवेश्मकुलजोsपि नरोsस्मिन्
राजयोग इति न व्यपदेशः ॥८७॥
गण्डान्तविष्टिपरिघव्यतिपातजात -
स्ताराधिपः समुदये यदि कृत्तिकायाम् ।
क्रीडेत्कृपाणफलकाहितचण्डवेग -
प्रोत्थापिताहितशिरोगुलिकाभिरीशः ॥८८॥
बुधोदये सप्तमगे बृहस्पतौ
चन्द्रे कुलीरे सुखराशिगेsमले ।
वियद्गते भार्गवनन्दने गृहे
प्रशास्ति पृथ्वीं मनुजो निराकुलः ॥८९॥
एकान्तरगैर्विहगैः षङ्भिश्चक्रं क्षितीश्वरं कुर्यात् ।
अत्रैव शुभे लग्ने सकलमहीपालको नृपतिः ॥९०॥
अयमेव समुद्राख्यो द्वौ लग्ने यदि संस्थितौ ।
करोति भूभुजां नाथं सौम्यैः केन्द्रेषु संस्थितैः ॥९१॥
निरन्तरं यदि भवनेषु षट्सु
ग्रहाः स्थिता उदयगृहात्समस्ताः ।
स्वपङ्क्तिदन्नरपतिमेव कुर्यु -
श्चतुष्टयन्नरपतिमन्त्रिणं च ॥९२॥
सुतसुखदुश्चिक्यगता यदि कर्मणि कीर्तयन्ति यवनाद्याः ।
बन्धुसुतार्थगजाढ्यो बहुभृत्यो जायते क्षितिपः ॥९३॥
कर्मास्तजलहोरासु ग्रहाः सर्वे प्रतिष्ठिताः ।
कुर्वन्ति नगरं नाम यत्र स्यात्पृथिविपतिः ॥९४॥
सुखतनुमदगाः शुभाः समग्राः
कुजरविरविजास्त्रिधर्मलाभसंस्थाः ।
यदि भवति महीपतिः प्रशान्तो
यवनपतिकृतो ह्ययं महीपयोगः ॥९५॥
लाभधर्मस्थिताः सौम्याः पापाः कर्मणि संस्थिताः ।
नृपतीनामयं योगो भवेत्कलशसंज्ञितः ॥९६॥
त्रयो ग्रहा भ्रातृसुतायसंस्थास्तथा शुभौ द्वौ रिपुसङ्गतौ च ।
कलत्रलग्नं च गतौ च शेषौ नृपस्य योगः खलु पूर्णकुम्भः ॥९७॥
सुविस्तरं नीचकुलोद्भवा मया
विचित्ररूपाः कथिताः क्षितीश्वराः ।
अतःपरं पार्थिववंशजन्मनां
भवन्ति योगा मुनिभिः प्रकीर्तिताः ॥९८॥
सिंहोदये दिनकरो मृगलाञ्छनोजे
कुम्भस्थितो रविसुतः स्वगृहे सुरेज्यः ।
स्वोच्चेsपि भूमितनयः पृथिवीश्वरस्य
जन्मप्रदः सकललोकनमस्कृतस्य ॥९९॥
शुभे लग्नं याते बलवति तथा धर्मराशिक्रमेण ।
महीपालः श्रीमान्भवति नियतं यस्य मातङ्गसङ्गाः
प्रयाणे मेघानां स्रुतमदजलैर्भान्तिमुत्पादयन्ति ॥१००॥
सुरपतिगुरुर्बन्धुस्थाने स्ववेश्मगतो यदा
तुहिनकिरणः सम्पूर्णङ्गस्तपःसमवस्थितः ।
त्रितनुभवनप्राप्ताः शेषा ग्रहा यदि भूपतिः
भवति धृतिमान्स्फीतश्रीकस्थथा बहुवाहनः ॥१०१॥
स्वोच्चोदये कृतपदः कुमुदस्य बन्धुः
र्जीवोsर्थगो वणिजि दानवपूजितश्च ।
कन्याजसिंहगृहगा बुधभौमसूर्या -
श्चन्द्राशुनिर्मलयशा भवति क्षितीशः ॥१०२॥
नक्षत्रनाथसहितः सविता नभस्थः
सौरिर्विलग्नभवने हिबुके सुरेज्यः ।
देवारिपूज्यबुधभूमिसुतैः सलाभैः
ख्यातो महीपतिरिह स्वगुणैरः स्यात् ॥१०३॥
मृगराशिं परित्यज्य स्थितो लग्ने बृहस्पतिः ।
करोत्यवश्यं नृपतिं मत्तेभपरिवारितम् ॥१०४॥
लग्ने भौमो रविजसहितस्तीक्षणरश्मिः खमध्ये
वाचां स्वामी दशमगृहगो भार्गवः सप्तमस्थः ।
आये हेम्नः शिशिरकिरणो बन्धुराशिं प्रपन्नो
यद्येवं स्याद्विपुलयशसो जन्म भूपालकस्य ॥१०५॥
न्यूनोsपि कुमुदबन्धुः स्वोच्चस्थः पार्थिवं करोति नरम् ।
किं पुनरखण्डमण्डलकरनिकरप्रकटितदिगन्तः ॥१०६॥
लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः ।
विदधाति महीपालं विक्रमधनवाहनोपेतम् ॥१०७॥
यदि पश्यति दानवार्चितं वचसामधिपस्तदा भवेत् ।
नृपतिर्बहुनागनायको भुजगेन्द्र इव प्रतापवान् ॥१०८॥
दिवौकसां पतेर्मन्त्री कुर्यात्पश्यन्बुधं नरम् ।
शिरोभिः शासनं तस्य धारयन्ति नृपाः सदा ॥१०९॥
लग्नाधिपतिः स्वोच्चे पश्यन्मृगलाञ्छनं नृपं कुरुते ।
बहुगजतुरगबलौघैः क्षपितविपक्षं महाविभवम् ॥११०॥
इन्दुः स्वोच्चे पश्यन्करोति बुधभार्गवौ नरं नृपतिम् ।
प्रणतारिपक्षमुच्छ्रितयशसं सौभाग्यवन्तं च ॥१११॥
अधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा ।
अनिशं कुरुते लक्ष्मीवामिनं भूपतिं नरम् ॥११२॥
स्वांशेsधिमित्रभावे वा गुरुणा यदि दृश्यते ।
शशी महीपतिं कुर्याद्दिवसे नात्र संशयः ॥११३॥
जन्माधिपतिः केन्द्रे बलपरिपूर्णः करोति परमर्द्धिम् ।
ब्राह्मणकुलेsपि नृपतिं किं पुनरवनीशसंभूतम् ॥११४॥
रविरप्यधिमित्रस्थो यदि चन्द्रसमीक्षितः ।
अङ्गदेशाधिपं कुर्याद्धर्मार्थसहितं नृपम् ॥११५॥
उच्चस्थः शशितनयः कुमुदाकरबन्धुना च समधिगतः ।
जनयति मगधाधिपतिं गजमदगन्धेन वासितदिगन्तम् ॥११६॥
प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः ।
एकोsपि कुरुते जातं नराधिपमरिंदमम् ॥११७॥
केन्द्रे विलग्ननाथः श्रेष्ठबलो मानवाधिपं कुरुते ।
गोपालकुलेsपि नरं किं पुनरवनीश्वराणां च ॥११८॥
कर्कटसंस्थः केन्द्रे बृहस्पतिर्दशमधामगः शशिनः ।
चतुरुदधिमेखलायाः स्वामी भूमेर्भवति जातः ॥११९॥
मेषे सहस्ररश्मिः सह शशिना संस्थितः करोतीशम् ।
केरलकर्णाटान्ध्रद्रविडानां चोलकस्यापि ॥१२०॥
उच्चस्थस्त्रिदशगुरुः कैरववनबन्धुसङ्गःमं प्राप्तः ।
काश्मीरमण्डलभुवां करोति पुरुषाधिपमवश्यम् ॥१२१॥
तुङ्गायस्वगृहोदयकण्टकनवमेषु यस्य शुक्रगुरू ।
सोवश्यं भवति नरो राजांशसमुद्भवो नृपतिः ॥१२२॥
दिक्स्थानकालादिबलैरुदाराः शुभाः पुनः केन्द्रमुपागताश्च ।
कुर्वन्ति पापैरविमिश्रचाराः पृथ्वीभुजं त्रिप्रभृतिग्रहेन्द्राः ॥१२३॥
रवेर्द्वितीये बुधजीवभार्गवा नचाशुभैर्दृष्टयुता न वार्कगाः ।
स्फुरत्करौघस्फुटपिञ्जरीकृता नरं प्रकुर्युस्त्रिसमुद्रपालकम् ॥१२४॥
कुन्दाब्जकाशधवलः परिपूर्णमूर्ति -
र्जन्माधिपेन कविना शुभदेन दृष्टः ।
स्त्रीमानभङ्गनिपुणं दयितं क्षपायाः
प्रख्यातकीर्तिसुनयं कुरुते नरेन्द्रम् ॥१२५॥
देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः ।
जनयेवसुधापालं निर्जितारातिमण्डलम् ॥१२६॥
कारकयोगे जाता भवन्ति पृथ्वीभुजो नरास्तेषाम् ।
गजतुरगपत्तिविचलितरजोवितानं भवेद्गगनम् ॥१२७॥
कुजे विलग्ने तरणेश्च नन्दने
रसातले शुक्रब्रुहस्पतीन्दुजाः ।
मृगोदये मन्दनवांशकस्थिते
रसातलेशो भवतीह पार्थिवः ॥१२८॥
स्वोच्चे गुरुस्तनुगतः स्वगृहे शशाङ्कः
शुक्रो झषे परममुच्चमितोsसितश्च ।
मेषे तथैव भगवान्सविता कुजः स्व -
वर्गाधिपो यदि भवेन्नृपतिः प्रजातः ॥१२९॥
शक्रेड्यः ससितः शुचिस्तिमियुगे स्वोच्चे च पूर्णः शशी
दृष्टस्तीव्रविलोचनेन दिनकृन्मेषे यदासौ नृपः ।
सेनायाश्चलनेन रेणुपटलैर्यस्य प्रनष्टे रवा -
वस्तभ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति ॥१३०॥
क्रूरैर्नेचै रिपुभवनगैः षष्ठदुश्चिक्यगैर्वा
सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैश्च ।
आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया -
मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः ॥१३१॥
होरालेखामुपेतः स्फुटकरनिकरैः पूरिताङ्गः सुरेज्य -
श्चन्द्रः शुक्लार्धदेहो भवभवनगतः स्वेन पुत्रेण दृष्टः ।
चन्द्राद्भनुर्द्वितीये यदि भवति तदा नैव दृष्टः कुजेन
पाता जायेत भूमेर्बहुगजतुरगक्षुण्णभूपृष्ठपीठः ॥१३२॥
रविशशिकुजैर्मेषे लग्ने सितार्किबुधैर्वृषे
धनुषि नवमे देवेज्ये च स्वभांशमुपागते ।
रविरपि यदि स्वोच्चे वर्गे प्रधानबलोदयो
भवति नृपतिः सिद्धाज्ञातो हतारिरणोद्भवः ॥१३३॥
सितशशिसुतजीवैः पञ्चमस्थैर्नभोगै
रविरपि रिपुराशौ स्वोच्चगे भूमिपुत्रे ।
तपसि च रविपुत्रे जायते पार्थिवेन्द्रः
प्रथितविमलकीर्तिर्दानधर्मप्रतापैः ॥१३४॥
त्रिदशगुरो रविर्हिमकरस्य भृगोस्तनयो
रवितनयः कुजस्य खलु दृष्टिपथं च गतः ।
भवति विलग्नगो यदि चरोदयराशिगतः
प्रथितयशा भवेत्क्षितिपतिः क्षपितारिगणः ॥१३५॥
बुधः कन्यालग्ने सुरपतिगुरुश्चैव तिमिगः
स्थितः क्षोणीपुत्रः प्रसवसमये वीर्यसहितः ।
शनिः शत्रुस्थाने त्र्दशरिपुपूज्यश्च हिबुके
यदैवं स्यात्सूतौ स्वभुजविजयी भूपतिरिह ॥१३६॥
यमे विलग्ने मकरप्रतिष्ठिते
दिवाकरे द्यूनगते सितेsष्टमे ।
कुजेsलिगे कर्कटगे निशाकरे
भवेत्प्रसिद्धो जगतिश्वरो नृपः ॥१३७॥
मृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगृहे व्यवस्थिते ।
शनैश्चरे लग्नगते सचन्द्रे बृहस्पतौ सप्तमराशिगे च ।
शुक्रेण दृष्टे शशिजे स्वतुङ्गे जायते पृथ्वीपतिरप्रधृष्यः ॥१३९॥
चापे भवेत्सुरगुरुर्हृतदृष्टिशुद्धो
लग्ने सुरारिदयितः शशिनि स्वराशौ ।
वापीतडागसुरवेश्मकरो नरोsत्र
जायेत मानवपतिर्द्विजदेवभक्तः ॥१४०॥
एकः स्वोच्चे शुभगगनगः संस्थितो निर्मलांशः
केन्द्रे भानुः प्रकटितकरः केवलः पूर्णवीर्यः ।
दृष्टः कुर्यादमरगुरुना पञ्चमस्थेन जातं
भूमेर्नाथं बहुगजपतिं सर्ववन्द्यं कृतार्थम् ॥१४१॥
षष्ठे कुजार्किरवयः सहजेsथवाsपि
सिंहे सुरारिसचिवोsथ भवर्क्षसंस्थः ।
दृष्टः शुभैर्दिनकरेन्दुविहीनदृष्टिः
कुर्यान्नृपं स्वभुजनिर्जितशत्रुपक्षम् ॥१४२॥
वहति मृदुसमीरो निर्मलव्योममध्ये
विमलनिरुपसर्गाः खेचरा वृत्तवैराः ।
उदयति सुरवन्द्ये मण्डले मातृकाणां
यदि वृषभगृहस्थो भार्गवः स्यात्क्षितीशः ॥१४३॥
शशिबुधरुधिराख्यैः स्वांशकस्थैर्न नीचै -
र्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः ।
तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्ते
भवति मनुजनाथः कीर्तिशुक्लीकृताशः ॥१४४॥
अधिमित्रगते केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः ।
पश्यति बलपरिपूर्णो लग्नं स्यात्पुष्कलो योगः ॥१४५॥
पुष्कलयोगे पुरुषा जायन्ते भूमिपालका नित्यम् ।
सुचिरं भ्रमन्ति हतरिपुगजमदगन्धेन वासितदिगन्ताः ॥१४६॥
राश्यादौ लग्नपतिः करोति जातं नरेन्द्रदण्डपतिम् ।
मध्ये मण्डलनाथं ग्रामपतिं चैव भवनान्ते ॥१४७॥
पौष्णे फाल्गुन्यां वा मूले पुष्ये च भास्करः कुरुते ।
लग्नगतो नरनाथं योजनशतमात्रके देशे ॥१४८॥
कृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः ।
करोति भूभुजां नाथमश्विन्यामपि संस्थितः ॥१४९॥
विदधाति सार्वभौमं लग्नांशपतिः स्वतुङ्गगः केन्द्रे ।
नृपतिं लग्नाधिपतिर्जन्माधिपतिर्धनसमृद्धम् ॥१५०॥
मीने निशाकरः पूर्णः सुहृद्ग्रहनिरीक्षितः ।
सार्वभौमं नरं कुर्यात्सिद्धाज्ञानान्न संशयः ॥१५१॥
याते भौमे कर्मस्थानं
शिशिरकरभृगुसुतैस्तपः समवस्थितैः ।
आये स्वोच्चे प्राप्तो भानु -
स्त्रिदशपतिसचिवसहितो यदि प्रसवे भवेत् ॥१५२॥
क्षोणीभर्ता याने यस्य
प्रविचलिततुरगरजसा दिशः परितो गतः ।
एवं कर्तुर्भूयो भूयो
धरणितलपरिमलसुखं प्रयान्ति रवेर्हयाः ॥१५३॥
शशिसहिते केन्द्रस्थे शनैश्चरे भवति जारजातस्तु ।
राजा भुवि गजतुरगग्रामधनैर्वर्धितश्रीकः ॥१५४॥
शुक्रवाक्पतिबुधैर्धनसंस्थैर्द्यूनगैः शशिरविक्षितिपुत्रैः ।
जायते क्षितिपतिः पृथुवक्षाः सर्वतः क्षपितशत्रुसमूहः ॥१५५॥
भानुः प्राणी शशिगृहयुतः शीतरश्मिश्च तस्मि -
न्नेकः स्वोच्चे यदि गगनगो निर्मलः पूर्णरश्मिः ।
लग्नं प्राप्तः सुरपतिगुरुः षष्ठगः स्यात्क्षितीश -
श्छन्नो यस्य प्रचलितचमूरेणुभिर्व्योममार्गः ॥१५६॥
कुम्भस्याष्टमभागे त्रिकोणसंस्थे ( पिच ) निशानाथे ।
जातो भवत्यवश्यं राजा शुभदः समस्तलोकस्य ॥१५७॥
मेषस्य सप्तमांशे करोति पृथ्वीसुतः स्थितो नृपतिम् ।
सिंहस्य पञ्चमांशे नरमिथुनांशे भवेद्भूपः ॥१५८॥
कुम्भस्य पञ्चदशके भागे चन्द्रः स्थितो महीपालम् ।
कर्कटकस्य च दशमे करोति पुरुषं सदा प्रभवे ॥१५९॥
धनुषि च विंशे जीवः करोति नृपतिं स्थितो जनख्यातम् ।
सिंहस्य पञ्चमांशे तथा च हेलिर्बुधो ज्ञेयः ॥१६०॥
एकस्मिन्पञ्चकृतौ पञ्चदशस्वास्थितश्चन्द्रः ।
भागेषु वीरनृपतिं करोति भुजलब्धपृथ्वीकम् ॥१६१॥
मकरस्य पञ्चमांशे करोति पुरुषं नरेश्वरं सुनयम् ।
योगे भूतलतिलकं धर्मज्ञं शास्त्रनिरतं च ॥१६२॥
कर्कटके शशिजीवौ पञ्चसु भागेषु संस्थितौ कुरुतः ।
भूमिपतिमप्रधृष्यं रविरिव सर्वग्रहणस्य ॥१६३॥
चन्द्रः पुष्ये नृपतिं वर्गोत्तमकृत्तिकाश्विनीसंस्थः ।
विदधाति सार्वभौमं त्रिपुष्करे वाsपि परिपूर्णः ॥१६४॥
अश्विन्यनुराधास्थः स्थितः श्रविष्ठासु पार्थिवं भौमः ।
कुरुते स्वोच्चमुपगतो वर्गोत्तमगश्च नान्यत्र ॥१६५॥
व्योग्नि शंखधवलो निशाकरो भार्गवस्तपसि संस्थितः शुचिः ।
आयगाश्च यदि सर्व एव ते स्यान्महीपतिरतुल्यपौरुषः ॥१६६॥
चन्द्रादुपचयसंस्था गगनसदः सर्व एव यदि सूतौ ।
जायेत माननिलयः समस्तपृथ्वीपतिः पुरुषः ॥१६७॥
जीवनिशाकरसूर्याः पञ्चमनवमतृतीयगा वक्रात् ।
यदि भवति तदा राजा कुबेरतुल्यो धनैर्वासौ ॥१६८॥
रविस्तृतीये भृगुनन्दनः सुखे बुधस्य चान्ये यदि पञ्चमे स्थिताः ।
न नीचराशौ न च शत्रुवेश्मगा भवेन्नरेन्द्रस्त्रिसमुद्रपारगः ॥१६९॥
बृहस्पतेर्भौमदिवाकरेन्दवो गता द्वितीयाम्बुनभःस्थलं क्रमात् ।
विपक्षरासहु परिशेषखेचरा यदा तदा भूमिपतिर्नृपात्मजः ॥१७०॥
भृगोरपत्याद्बुधभास्करात्मजौ चतुष्टयस्थौ परिशेषखेचराः ।
तृतीयलाभर्क्षगतास्तु ते यदा महीपतिं कुर्युरसंशयं तदा ॥१७१॥
शुक्रबुधौ रवितनयात्केन्द्रे वाचस्पतिर्भवेदुच्चे ।
सिंहासनाधिशायी यदि राजा स्वोच्चगाश्च परिशेषाः ॥१७२॥
सवितुस्तृतीयपञ्चमलाभर्क्षसमाश्रिताः सदा यस्य ।
सर्वे ग्रहाः स नृपतिर्मन्त्री सेनापतिर्वाsपि ॥१७३॥
लग्नपतेः स्फुटरश्मेः पापा लाभे सुभाश्च केन्द्रस्थाः ।
यदि भवति तदा नृपतिः स्वभुजार्जितसर्वभूमितलः ॥१७४॥
लाभे तृतीयषष्ठे यदि पापा जन्मपस्य शुभदृष्टाः ।
भवति तदा धरणीशः समस्तनृपवन्दितः साधुः ॥१७५॥
विचरति सुरपूज्यो मेषभेsथापि सिंहे
दहनकिरणदृष्टे भूमिपुत्रे स्वराशौ ।
न च गगनविचारी कश्चिदेकोsपि नीचे
यदि नृपतिसमुत्थो जायते पार्थिवेन्द्रः ॥१७६॥
चन्द्राद्ग्रहैर्निगदिताः सुनफादयश्च
केन्द्रस्थितैर्यदि भवन्ति च तेsत्र योगाः ।
विश्वम्भराधिपकुलेषु महत्सु जाता
योगेषु तेषु मनुजेश्वरतां लभन्ते ॥१७७॥
केन्द्रगौ यसि तु जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ ।
भूपतिर्भवति सोsतुलकीर्तिर्नीचगो यदि च कश्चिदिह स्यात् ॥१७८॥
उदयशिखरिसंस्थो भार्गवो यत्र तत्र
बुधरविसुतदृष्टः स्वांशकस्थोsतिवीर्यः ।
जनयति नरनाथं वाक्पतौ पञ्चमस्थे
भुजबलहतशत्रुं सार्वभौमं गजाढ्यम् ॥१७९॥
सिंहे कमलिनीनाथः कुलीरस्थो निशाकरः ।
दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा ॥१८०॥
बुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरम् ।
सूर्यभूसुतदृष्टौ च यदि स्फीतो महीपतिः ॥१८१॥
शफरीयुगले चन्द्रः कर्कटे च बृहस्पतिः ।
शुक्रः कुम्भे यदा शक्तस्तदा राजा भवेदिह ॥१८२॥
सितदृष्टः शनिः कुम्भे पद्मिनीदयितो भवे ।
चंद्रे जलचरे रासहु यदि जातो नृपो भवेत् ॥१८३॥
कुजोsलिगोsथ मेषे वा रविजीवनिरीक्षितः ।
वृषे ज्ञो जीवसंदृष्टस्तदाsपि पृथ्विवीपतिः ॥१८४॥
अमलवपुरवक्रः कैरवाणां विकासी
स्वगृहमथ नवांशं स्वोच्चभांशं गतो वा ।
हितगगननिवासैः पञ्चभिर्दृश्यमानो
जनयति जगतीशं नीचभे नो यदि स्यात् ॥१८५॥
लाभे मन्दो गुरुभृगुसुतावुद्गमे खे शशाङ्को
बन्धावर्को बुधकुतनयौ वक्रगौ चेत्स भूपः ।
यत्सेनायास्ततमदजलक्षोभतो वारणेन्द्रै -
र्भूयः सेतोः स्मरति सहसा क्षोभितान्तोsम्बुराशिः ॥१८६॥
इति कल्याणवर्मविरचितायां सारावल्यां राजयोगाध्यायो नाम पञ्चत्रिंशः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:32.3970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अळविणें

  • अळणें पहा . 
  • उ.क्रि. 
  • समजूत घालणें ; प्रार्थना करणें ; प्रेमानें - लाडक्या शब्दानें वश करणें - मन वळविणें ( देव , राजा , वल्लभ , वल्लभा यांचें ); अंजारुन गोंजारुन , लाडीगोडीनें समजावणें ( तान्ह्या मुलास वगैरे ); शांत करणें ; सांत्वन करणें . आतां नाळवावें तुम्हीं मातें । - ज्ञा २ . ८२ . सदभावें अळवुनियां पंढरीराया । केली काया ब्रह्मरुप । 
  • विनवणी करणें ; मिनतवारी करणें . 
More meanings
RANDOM WORD

Did you know?

Are there any female godesses in Hinduism?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site