संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
एकोनविंशोsध्यायः ।

एकोनविंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


विद्याधनधर्मरतः क्षामो बहुभाषको विकृष्टमतिः ।
एकभवनोपयातैर्बुधेन्दुरव्यारगुरुशुक्रैः ॥१॥
दाता परकार्यकरश्चलस्वभावो विशुद्धसत्वश्च ।
रमते विजनोद्देशे रवीन्दुवक्रज्ञगुरुरविजैः ॥२॥
चोरः परदाररतः कुष्ठी स्वजनैर्निराकृतो मूर्खः ।
स्थानभ्रष्टो विसुतो बुधेन्दुरव्यारशनिशुक्रैः ॥३॥
नीचः परकर्मरतः क्षयरोगी श्वानकासपरिभूतः ।
निन्द्यः स्याद्वन्धूनां सितेन्दुरव्यारगुरुरविजैः ॥४॥
मन्त्री नृपस्य सुभगः क्षान्तियुतो भवति शोकपरितप्तः ।
अकलत्रो धनरहितो रविन्दुबुधजीवसितसौरैः ॥५॥
तीर्थैषु सदा रमते पुत्रैर्नित्यं धनेन रहितश्च ।
वनपर्वतोपसेवी बुधाररविजीवशनिशुक्रैः ॥६॥
नित्यं शुचिः प्रतापी बहुयुवतिरतो नृपप्रियो मन्त्री ।
घनसुतसौभाग्ययुतः कुजार्किसितचन्द्रबुधजीवैः ॥७॥
प्रायो दरिद्रदुःखी मूर्खः षट्प~चसंयुतैर्विहगैः ।
अन्योन्यदर्शनादपि फलमेतत्कन्दलाः प्राहुः ॥८॥
इति कल्याणवर्मविरचितायां सारावल्यां षत्ग्रहयोगो नामैकोनविंशोsध्यायः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP