TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
त्रिंशोsध्यायः ।

त्रिंशोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


त्रिंशोsध्यायः ।
मूर्त्यादयः पदार्था जायन्ते येन सर्वजन्तूनाम् ।
तस्मादधुना वक्ष्ये भावाध्यायं विशेषेण ॥१॥
लग्नेsर्केsल्पकचः क्रियालसमतिः क्रोधी प्रचण्डोन्नतो
मानी लोचनरूक्षः कर्कशतनुः शूरोsक्षमो निर्घृणः ।
स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमान्
दारिद्र्योपहतो विनष्टतनयो जातस्तुलायां नरः ॥२॥
द्विपदचतुष्पदभागी मुखरोगी नष्टविभवसौख्यश्च ।
नृपचोरमुषितसारः कुटुम्बगे स्याद्रवौ पुरुषः ॥३॥
विक्रान्तो बलयुक्तो विनष्टसहजस्तृतीयके सूर्ये ।
लोके मतोsभिरामः प्राज्ञो जितदुष्टपक्षश्च ॥४॥
वाहनबन्धुविहीनः पीडितहृदयश्चतुर्थके सूर्ये ।
पितृगृहधननाशकरो भवति नरः कुनृपसेवी च ॥५॥
सुखसुतवित्तविहीनः कर्षणगिरिदुर्गसेवकश्चपलः ।
मेधावी धनरहितः स्वल्पायुः पञ्चमे तपने ॥६॥
प्रबलमदनोदराग्निर्बलवान् षष्ठं समाश्रिते भानौ ।
श्रीमान् विख्यातगुणो नृपतिर्वा दण्डनेता वा ॥७॥
निःश्रीकः परिभूतः कुशरीरो व्याधितः पुमन् द्यूने ।
नृपबन्धनसन्तपोsमार्गरतो युवतिविद्वेषी ॥८॥
विकलनयनोsष्टमस्थे धनसुखहीनोsल्पजीवितः पुरुषः ।
भवति सहस्रमयूखे स्वभिमतजनविरहसन्तप्तः ॥९॥
धनपुत्रमित्रभागी द्विजदैवतपूजनेsतिरक्तश्च ।
पितृयोषिद्विद्वेषी नवमे तपने सुतप्तः स्यात् ॥१०॥
अतिमतिरतिविभवबलो धनवाहनबन्धुपुत्रवान् सूर्ये ।
सञ्चयनिरतो बलवान् द्वेष्यः प्रेष्यो विधेयभृत्यश्च ।
एकादशे विधेयः प्रियरहितः सिद्धकर्मा च ॥१२॥
विकलशरीरः काणः पतितो वन्ध्यापतिः पितुरमित्रः ।
द्वादशसंस्थे सूर्य बलरहितो जायते क्षुद्रः ॥१३॥
॥ इति रविः ॥
दाक्षिण्यरूपधनभोगगुणैः प्रधान -
श्चन्द्रे कुलीरवृषभाजगते विलग्ने ।
उन्मत्तनीचबधिरो विकलश्च मूकः
शेषे नरो भवति कृष्णतनुर्विशेषात् ॥१४॥
अललितसुखमित्रयुतो धनैश्च चन्द्रे द्वितीयराशिगते ।
सम्पूर्णेsतिधनेशो भवति नरोsल्पप्रलापकरः ॥१५॥
भ्रातृजनाश्रयणीयो मुदान्वितः सहजगे बलिनि ।
चन्द्रे भवति च शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः ॥१६॥
बन्धुपरिच्छदवाहनसहितो दाता चतुर्थगे चन्द्रे ।
जलसंचारानुरतः सुखासुखोत्कर्षपरिमुक्तः ॥१७॥
चन्द्रे भवति न शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः ।
बहुतनयसौम्यमित्रो मेधावी पञ्चमे तीक्ष्णः ॥१८॥
प्रचुरामित्रस्तीव्रो मृदुकायाग्निर्मदालसश्चन्द्रे ।
षष्ठे वृकोदरभवै रोगैः सम्पीडितो भवति ।
रजनिकरे स्वल्पायुः षष्ठगते भवति संक्षीणे ॥१९॥
सौम्यो धृष्यः सुखितः सुशरीरः कामसंयुतो द्यूने ।
दैन्यरुगर्दितदेहः कृष्णे संजायते शशिनि ॥२०॥
अतिमतिरतितेजस्वी व्याधिविबन्धक्षपितदेहः ।
निधनस्थे रजनिकरे स्वल्पायुर्भवति संक्षीणे ॥२१॥
दैवतपितृकार्यपरः सुखधनमतिपुत्रसंपन्नः ।
युवतिजननयनकान्तो नवमे शशिनि प्रियतमोद्योतः ॥२२॥
अविषादी कर्मपरः सिद्धारम्भश्च धनसमृद्धश्च ।
शुचिरतिबलोsथ दशमे शूरो दाता भवेच्छशिनि ॥२३॥
धनवान् बहुसुतभागी बह्वायुः स्विष्टभृत्यवर्गश्च ।
इन्दौ भवेन्मनस्वी तीक्ष्णः शूरः प्रकाशश्च ॥२४॥
द्वेष्यः पतितः क्षुद्रो नयनरुगातोंsलसो भवेद्विकलः ।
चन्द्रे तथान्यजातो द्वादशगे नित्यपरिभूतः ॥२५॥
॥ इति चन्द्रः ॥
क्रूरः साहसनिरतः स्तब्धोsल्पायुः स्वमानशौर्ययुतः ।
क्षतगात्रः सुशरीरो वक्रे लग्नाश्रिते चपलः ॥२६॥
अधनः कदशनतुष्टः पुरुषो विक्रुताननो धनस्थाने ।
कुजनाश्रयश्च रुधिरे भवति नरो विद्यया रहितः ॥२७॥
शूरो भवत्यधृष्यो भ्रातृवियुक्तो मुदान्वितः पुरुषः ।
भूपुत्रे सहजस्थे समस्तगुणभाजनं ख्यातः ॥२८॥
बन्धुपरिच्छदरहितो भवति चतुर्थेsथ वाहनविहीनः ।
अतिदुःखैः संतप्तः परगृहवासी कुजे पुरुषः ॥२९॥
सौम्यार्थपुत्रमित्रश्चलमतिरपि पञ्चमे कुजे भवति ।
पिशुनोsनर्थप्रायः खलश्च विकलो नरो नीचः ॥३०॥
प्रबलमदनोदराग्निः सुशरीरो व्यायतो बली षष्ठे ।
रुधिरे सम्भवति नरः स्वबन्धुविजयी प्रधानश्च ॥३१॥
मृतदारो रोगार्तोsमार्गरतो भवति दुःखितः पापः ।
श्रीरहितः सन्तप्तः शुष्कतनुर्भवति सप्तमे भौमे ॥३२॥
व्याधिप्रायोsल्पायुः कुशरीरो नीचकर्मकर्ता च ।
निधनस्थे क्षितितनये भवति पुमान् शोकसन्तप्तः ॥३३॥
अकुशलकर्मा द्वेष्यः प्राणिवधपरो भवेन्नवमसंस्थे ।
धर्मरहितोsतिपापो नरेन्द्रकृतगौरवो रुधिरे ॥३४॥
कर्मोद्युक्तो दशमे शूरो धृष्यः प्रधानजनसेवी ।
सुतसौख्ययुतो रुधिरे प्रतापबहुलः पुमान् भवति ॥३५॥
एकादशगे धनवान् प्रियसुखभागी तथा भवेच्छूरः ।
धनधान्यसुतैः सहितः क्षितितनये विगतशोकश्च ॥३६॥   
नयनविकारी पतितो जायाघ्नः सूचकश्च रौद्रश्च ।
द्वादशगे परिभूतो बन्धनभाक् भवति भूपुत्रे ॥३७॥
इति कुजः ।
अनुपहतदेहबुद्धिर्देशकुलाज्ञानकाव्यगणितज्ञः ।
अतिमधुरचतुरवाक्यो दीर्घायुः स्याद्बुधे लग्ने ॥३८॥
बुद्ध्योपार्जितविभवो धनभवनगतेsन्नपानभोगी च ।
शोभनवाक्यः सुनयः शशितनये मानवो भवति ॥३९॥
श्रमनिरतः परिदीनस्मृतीयराशौ बुधे भवति जातः ।
निपुणः सहजसमेतो मायाबहुलो नरश्चलितः ॥४०॥
पण्डितमाहुः सुभगो वाहनयुक्तो बुधे हिबुकसंस्थे ।
सुपरिच्छदः सुबन्धुर्भवति नरः पण्डितो नित्यम् ॥४१॥
मन्त्राभिचारकुशलो बहुतनयः पञ्चमे सौम्ये ।
विद्यासुखप्रभावैः समन्वितो हर्षसंयुक्तः ॥४२॥
वादविवादे कलहे नित्यजितो व्याधितो बुधे षष्ठे ।
अलसो विनष्टकोपो निष्ठुरवाक्योsतिपरिभूतः ॥४३॥
प्रज्ञां सुचारुवेषां नातिकुलीनां च कलहशीलां च ।
भार्यामनेकवित्तां द्यूने लभते महत्त्वं च ॥४४॥
विख्यातनामसारश्चिरजीवी कुलधरो निधनसंस्थे ।
शशितनये भवति नरो नृपतिसमो दण्डनायको वाsपि ॥४५॥
नवमगते भवति पुमानतिधनविद्यायुतः शुभाचारः ।
वागीश्वरोsतिनिपुणो धर्मिष्ठः सोमपुत्रे हि ॥४६॥
प्रवरमतिकर्मचेष्टः सकलारम्भो विशारदो दशमे ।
धीरः सत्वसमेतो विधिधालङ्करसत्वभाक् सौम्ये ॥४७॥
धनवान् विधेयभृत्यः प्राज्ञः सौख्यान्वितो विपुलभोगी ।
एकादशे बुधे स्याद्बह्वायुः ख्यातिमान् पुरुषः ॥४८॥
सुगृहीतवाक्यमलसं परिभूतं वाग्मिनं तथा प्राज्ञम् ।
व्ययगः करोति सौम्यः पुरुषं दीनं नृशंसं च ॥४९॥
इति बुधः ।
होरासंस्थे जीवे सुशरीरः प्राणवान् सुदीर्घायुः ।
सुसमीक्षितकार्यकरः प्राज्ञो धीरस्तथार्यश्च ॥५०॥
धनवान् भोजनसारो वाग्मी सुवपुः सुवाक् सुवक्रश्च ।
कल्याणवपुस्त्यागी सुमुखो जीवे भवेद्धनगे ॥५१॥
अतिपरिभूतः कृपणः सदाजितो मानवो भवति जीवे ।
मन्दाग्निस्त्रीविजितो दुश्चिक्ये पापकर्मा च ॥५२॥
स्वजनपरिच्छदवाहनसुखमतिभोगार्थसंयुतो भवति ।
श्रेष्ठः शत्रुविषादी चतुर्थसंस्थे सदा जीवे ॥५३॥
सुखसुतमित्रसमृद्धः प्राज्ञो धृतिमांस्तथा विभवसारः ।
पञ्चमभवने जीवे सर्वत्र सुखी भवति जातः ॥५४॥
सन्नोदराग्निपुंस्त्वः परिभूतो दुर्बलोsलसः षष्ठे ।
स्त्रीविदितो रिपुहन्ता जीवे पुरुषोsतिविख्यातः ॥५५॥
सुभगः सुरुचिरदारः पितुरधिकः सप्तमे भवति जातः ।
वक्ताकविः प्रधानः प्राज्ञो जीवे सुविख्यातः ॥५६॥
परिभूतो दीर्घायुर्भृतको दासोsथवा निधनसंस्थे ।
स्वजनप्रेष्यो दीनो मलिनस्त्रीभोगवान् जीवे ॥५७॥
दैवतपितृकार्यरतो विद्वान् सुभगो भवेत्तथा नवमे ।
नृपमन्त्री नेता वा जीवे जातः प्रधानश्च ॥५८॥
सिद्धारम्भो मान्यः सर्वोपायः कुशलसमृद्धश्च ।
दशमस्थे त्रिदशगुरौ सुखधनजनवाहनयशोभाक् ॥५९॥
अपरिमितायद्वारो बहुवाहनभृत्यसंयुतः साधुः ।
एकादशभे जीवे न चातिविद्यो न चातिसुतः ॥६०॥
अलसो लोकद्वेष्यो ह्यपगत्वाग्दैवपक्षभग्नो वा ।
परितः सेवानिरतो द्वादशसंस्थे गुरौ भवति ॥६१॥
॥ इति गुरुः ॥
सुनयनवदनशरीर्म सुखितं दीर्घायुषं तथा भीरुम् ।
युवतिजननयनकान्तं जनयति होरागतः शुक्रः ॥६२॥
प्रचुरान्नपानविभवं श्रेष्ठविलासं तथा सुवाक्यं च ।
कुरुते द्वितीयराशौ बहुधनसहितं सितः पुरुषम् ॥६३॥
सुखधनसहितं शुक्रो दुश्चिक्ये स्त्रीजित्म तथा कृपणम् ।
जनयति मन्दोत्साहं सौभाग्यपरिच्छदातीतम् ॥६४॥
बन्धुसुहृत्सुखसहितं कान्तं वाहनपरिच्छदसमृद्धम् ।
ललितमदीनं सुभगं जनयति हिबुके नरं शुक्रः ॥६५॥
सुखसुतमित्रोपचितं रतिपरमतिधनमखण्डितं शुक्रः ।
कुरुते पञ्चमराशौ मन्त्रिणमथ दण्डनेतारम् ॥६६॥
अधिकमनिष्टं स्त्रीणां प्रचुरामित्रं निराकृतं विभवैः ।
विक्लवमतीव नीचं कुरुते षष्ठे भृगोस्तनयः ॥६७॥
अतिरूपदारसौख्यं बहुरूपं कलहवर्जितं पुरुषम् ।
जनयति सप्तमधामनि सौभाग्यसमन्वितं शुक्रः ॥६८॥
दीर्धायुरनुपमसुखः शुक्रे निधनाश्रिते धनसमृद्धः ।
भवति पुमान् नृपतिसमः क्षणे क्षणे लब्धपरितोषः ॥६९॥
सममायततनुवित्तो दारयुवतिसुखसुहृज्जनोपेतः ।
भ्रुगुतनये नवमस्थे सुरातिथिगुरुप्रसक्तः स्यात् ॥७०॥
उत्थानविवादजिताः सुखरतिभावार्थकीर्तयो यस्य ।
दशमस्थे भृगुतनये भवति पुमान् बहुमतिख्यातः ॥७१॥
प्रतिरूपदासभृत्यं बह्वायं सर्वशोकसन्त्यक्तम् ।
जनयति भवभवनगतो भ्रुगुतनयः सर्वदा पुरुषम् ॥७२॥
अलसं सुखिनं स्थूलं पतितं मृष्टाशिनं भृगोस्तनयः ।
शयनोपचारकुशलं द्वादशगः स्त्रीजितं जनयेत् ॥७३॥
इति शुक्रः ।
स्वोच्चस्वकीयभवने क्षितिपालतुल्यो
लग्नेsर्कजे भवति देशपुराधिनाथः ।
शेषेषु दुःखगदपीडित एव बाल्ये
दारिद्र्यकर्मवशगो मलिनोsलसश्च ॥७४॥
विकृतवदनोsर्थभोक्ता जनरहितो न्यायकृत्कुटुम्बगते ।
पश्चात्परदेशगतो जनवाहनभोगवान् सौरे ॥७५॥
मलिनः संस्कृतदेहो नीचोsलसपरिजनो भवति सौरे ।
शूरो दानानुरतो दुश्चिक्यगते विपुलबुद्धिः ॥७६॥
पीडितहृदयो हिबुके निर्बान्धववाहनार्थतिसौख्यः ।
बाल्ये व्याधितदेहो नखरोमधरो भवेत् सौरे ॥७७॥
सुखसुतमित्रविहीनं मतिरहितमचेतसं त्रिकोणस्थः ।
सोन्मादं रवितनयः करोति पुरुषं सदा दीनम् ॥७८॥
प्रबलमदनं सुदेहं शूरं बह्वाशिनं विषमशीलम् ।
बहुरिपुपक्षक्षपितं रिपुभवनगतोsर्कजः कुरुते ॥७९॥
सततमनारोग्यतनुं मृतदारं धनविवर्जितं जनयेत् ।
द्यूनेsर्कजः कुवेषं पापं बहुनीचकर्माणम् ॥८०॥
कुष्ठभगन्दररोगैरभितप्तं ह्रस्वजीवितं निधने ।
सर्वारम्भविहीनं जनयति रविजः सदा पुरुषम् ॥८१॥
धर्मरहितोsल्पधनिकः सहजसुतविवर्जितो नवमसंस्थे ।
रविजे सौख्यविहीनः परोपतापी च जायते मनुजः ॥८२॥
धनवान् प्राज्ञः शूरो मन्त्री वा दण्डनायको वाsपि ।
दशमस्थे रवितनये वृन्दपुरग्रामनेता च ॥८३॥
बह्वायुः स्थिरविभवः शूरः शिल्पाश्रयो विगतरोगः ।
आयस्थे भानुसुते धनजनसम्पद्युतो भवति ॥८४॥
विकलः पतितो मुखरो विषमाक्षो निर्घृणो विगतलज्जः ।
व्ययभवनगते सौरे बहुव्ययः स्यात् सुपरिभूतः ॥८५॥
इति शनिः ।
पापा निघ्नन्ति मूर्त्यादीन् भावान् पुष्णन्ति शोभनाः ।
विपरीतं रिपूरन्ध्रव्ययेषु सदसत्फलम् ॥८६॥
योगा ये बलयोगाः सौम्यसुहृद्रिपुनिरीक्षणाच्चैव ।
उच्चादिभवनसंस्थैर्ग्रहैश्च फलमन्यथा भवति ॥८७॥
इति कल्याणवर्मविरचितायां सारावल्यां भावाध्यायस्त्रिंशः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:32.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आमात्य

  • अमात्य पहा : 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site