संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|सारावली|
दशमोsध्यायः ।

दशमोsध्यायः ।

एकविसाव्या शतकात मानवाच्या वाट्याला आलेले एकाकीपण कित्येक कवींनी त्यांच्या एकेका कवितेने भरून काढले.


आयुर्ज्ञानाभावे सर्वं विफलं प्रकीर्तितं यस्मात् ।
तस्मात्तज्ज्ञानार्थे रिष्टाध्यायं प्रवक्ष्यामि ॥१॥
ओजे स्थिताः पुमांसः शुक्लेsहनि सूरिभिः समाख्याताः ।
युग्मभवनेषु सर्वे कृष्णे निशि योषितो बलिनः ॥२॥
त्रिविधमिह शास्त्रकारा नियममनियमं च योगजं प्राहुः ।
योगसमुत्थं तावद्वक्ष्ये पश्चात्तु परिशेषौ ॥३॥
बृहस्पतिर्भौमगृहेsष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्तिः ।
अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम् ॥४॥
वक्री शनिर्भौमगृहं प्रपन्नश्चन्द्रेsष्टष्ठेsथ चतुष्टये वा ।
कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम् ॥५॥
भास्करहिमकरसहितः शनैश्चरो मृत्युदः प्रसवकाले ।
वर्षैर्नवभिर्यातैरित्याह ब्रह्मशौण्डाख्यः ॥६॥
भौमदिवाकरसौराश्छिद्रे जातस्य भौमगृहे ।
म्रियतेsवश्यं स नरो यमकृतरक्षोsपि मासेन ॥७॥
एकः पापोsष्टमगः शुक्रगृहे पापवीक्षितो वर्षात् ।
मारयति नरं जातं सुधारसो येन पीतोsपि ॥८॥
रविशशिभवने शुक्रो द्वादशरिपुरन्ध्रगैः शुभैः सर्वैः ।
दृष्टः करोति षड्भिर्वर्षैर्मरणं किमत्र चित्रं हि ॥९॥
कर्कटधामनि सौम्यः षष्ठाष्टमसंस्थितो विलग्नर्क्षात् ।
चन्द्रेण दृष्टमूर्तिर्वर्षचतुष्केण मारयति ॥१०॥
तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु ।
जायन्ते खलु कुलजा रिष्टं तेषु प्रसूतानाम् ॥११॥
केतुर्यस्मिन्नृक्षेsभ्युदितस्तस्मिन्प्रसूयते यो हि ।
मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य ॥१२॥
गगनस्थो दिवसकरः पापैर्बहुभिर्निरीक्षितः सद्यः ।
मारयति भौमधामनि शनिभे च न संशयो भवति ॥१३॥
लग्ने यद्द्रेक्काणा निगडाहिविहङ्गपाशधरसंज्ञाः ।
मरणाय सप्तवर्षैः क्रूरयुता न स्वपतिदृष्टाः ॥१४॥
राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः ।
वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः ॥१५॥
पापास्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताश्च ।
सूर्योदये प्रसूतः सद्यः प्राणांस्त्यजति जन्तुः ॥१६॥
अंशाधिपजन्मपते लग्नपतिश्चास्तमुपगता यस्य ।
संवत्सरैस्तु मरणं निर्व्याजं कतिपयैरेव ॥१७॥
राशिप्रमितैर्वर्षैर्मारयति विलग्नपो रिपुस्थाने ।
मासैर्द्रेक्काणपतिर्दिवसैरंशाधिपो हन्ति ॥१८॥
मारयति षोडशाहाच्छनैश्चरः पापवीक्षितो लग्ने ।
संयुक्तो मासेन तु वर्षाच्छुद्धस्तु मारयति ॥१९॥
क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते ।
स्वर्गगमनं हि पुंसां कुलीरगोsजान्परित्यज्य ॥२०॥
वर्षान्मारयति शशी षष्ठाष्टमराशिसंस्थितो लग्नात् ।
सद्यः क्रूरैर्दृष्टः सौम्यैरब्दाष्टकाच्चैव ॥२१॥
अशुभशुभैः सन्दृष्टे वर्षचतुष्केण निर्दिशेदन्तम् ।
अनुपातः कर्तव्यः प्रोक्तादूनैर्ग्रहैर्दृष्टे ॥२२॥
सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपसङ्गतैर्दृष्टाः ।
मासेन मृत्युदास्ते यदि न शुभैस्तत्र सन्दृष्टाः ॥२३॥
लग्नाद्द्वादशधनगैः क्रूरैर्म्रियते च रन्ध्ररिपुयुक्तैः ।
शुभसम्पर्कमयातैर्मासे षष्ठेsष्टमे वाsपि ॥२४॥
लग्नाधिपजन्मपती षष्ठाष्टमरिःफगौ प्रसवकाले ।
अस्तमितौ मरणकरौ राशिप्रमितैर्वदेद्वर्षेः ॥२५॥
होराधिपतिर्द्यूने पापजितो मरणमेव विदधाति ।
मासेन जन्मनाथस्तद्वच्चन्द्रो न यदि शुभदृष्टः ॥२६॥
चन्द्रः कुजरवियुक्तः स्वसुतस्थाने न चापि शुभदृष्टः ।
मरणं शिशोः प्रयच्छति वर्षे नवमे न सन्देहः ॥२७॥
होरेश्वरस्तु मृत्यौ पापैः सकलैश्च दृश्यते बलिभिः ।
मासि चतुर्थे मरणं जातस्य करोति मुनिवाक्यम् ॥२८॥
जन्माधिपतिः सूर्यः स्वपुत्रसहितोsष्टमे भवति राशौ ।
वर्षे राशिप्रमितैर्मरणाय सितेन सन्दृष्टः ॥२९॥
व्यायाष्टषष्ठोदयगे शशाङ्के पापेन युक्ते शुभदृष्टिहीने ।
केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैर्वियोगं व्रजति प्रजातः ॥३०॥
चक्रस्य पूर्वभागे पापाः सौम्यास्तथेतरे चैव ।
वृश्चिकलग्ने जाता गतायुषो वज्रमुष्टियोगेsस्मिन् ॥३१॥
क्षीणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा ।
भवति विपत्तिरवश्यं यवनाधिपतेर्मतं चैतत् ॥३२॥
राश्यन्तगतैः पापैः सन्ध्यायां तुहिनरश्मिहोरायाम् ।
मृत्युः प्रत्येकस्थैः केन्द्रेषु शशाङ्कपापैश्च ॥३३॥
द्यूनचतुरश्रसंस्थे पापद्वयमध्यगे शशिनि जातः ।
विलयं प्रयाति नियतं देवैरपि रक्षितो बालः ॥३४॥
पापद्वयमध्यगते होरासप्ताष्टमस्थिते चन्द्रे ।
सौम्यैरबलैर्दृष्टे जातो म्रियते ध्रुवं ह्यत्र ॥३५॥
द्यूनाष्टमगैः पापैः क्रूरग्रहवीक्षितैः सह जनन्या ।
म्रियते शुभसंदृष्टैः सत्यस्य मताद्वदेद्व्याधिम् ॥३६॥
ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेsष्टामगे ।
मात्रा सार्धं म्रियते चन्द्रवदर्के च शस्त्रेण ॥३७॥
क्षीणे शशिनि विलग्ने कण्टकनिधनाश्रितैस्तथा पापैः ।
सौम्यादृष्टे मृत्युः सद्यः सत्यस्य निर्देशः ॥३८॥
द्यूनगतेsर्के लग्ने यमे कुजे वा विपर्यये वाsपि ।
अन्यतरयुते वेन्दावशुभैर्दृष्टेsचिरान्मृत्युः ॥३९॥
होरानिधनास्तगतैः पापैः क्षीणे व्ययस्थिते चन्द्रे ।
जातस्य भवेन्मरणं सद्यः केन्द्रेषु चेदशुभाः ॥४०॥
लग्नान्त्यनवमनैधनसंयुक्ताश्चन्द्रसूर्यसौराराः ।
जातस्य वधकृतः स्युः सद्यो गुरुणा न चेद्दृष्टाः ॥४१॥
लग्ने चन्द्रेsर्के वा पापा बलिनस्त्रिकोणनिधनेषु ।
सौम्यैरदृष्टायुक्ताः सद्यो मरणाय कीर्तिता यवनैः ॥४२॥
शुक्रो रविशनिसहितो मारयति नर सदा प्रसवकाले ।
दृष्टोsपि देवगुरुणा नवभिर्वर्षैर्न सन्देहः ॥४३॥
यत्रस्थस्तत्रस्थो रुधिरार्कशनैश्चरेक्षितश्चन्द्रः ।
जननीमृत्युं कुर्यान्नतु सौम्यनिरीक्षितः सद्यः ॥४४॥
रुधिरशनैश्वरदृष्टो दिवसकरो दिवसजन्मनि तु यस्य ।
पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥४५॥
रहितो बुधगुरुशुक्रैर्जन्मनि रुधिराङ्गसौरसहितोsर्कः ।
कथयति पितरमतीतं पितुरपि च शरीरकर्तारम् ॥४६॥
पापग्रहमध्यगतो दिवसकरो दिव्सजन्मनिरतस्य ।
पापयुतो वा हन्यात् पितरं निःसंशयं जातः ॥४७॥
सूर्यदष्टमराशौ नवमे वा सप्तमेsपि वा पापाः ।
सौम्यादृष्टौ निधनं कुर्यातां सद्य एव पितुः ॥४८॥
पापग्रहसंयुक्तश्चरराशिगतो दिवाकरः प्रसवे ।
विषशस्त्रजलान्मृत्युं कथयत्यल्पायुषं पितरम् ॥४९॥
चन्द्रादष्टमराशौ नवमे वा सप्तमेsपि वा पापाः ।
सर्वे तत्रान्यतमे हन्युर्जातं सह जनन्या ॥५०॥
चरराशिगते सूर्ये दिनजन्मनि वीक्षिते कुपुत्रेण ।
कथयति विदेशयतं जातस्य शरीरकर्तारम् ॥५१॥
चरराशिगतं सौरं यद्यर्को रात्रिजन्म वी ( नी ? ) क्षेत ।
अत्रापि विदेशस्थं कथयति पितरं प्रसूतस्य ॥५२॥
रुधिरसहितस्तु सौरश्चरभवने रात्रिजन्मनिरतस्य ।
कथयति पितरमतीतं परदेशे नात्र सन्देहः ॥५३॥
यत्रस्थस्तत्रस्थस्वपुत्ररुधिराङ्गसङ्गतः सूर्यः ।
प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य ॥५४॥
जन्माष्टसप्तषष्ठद्वादशसंस्थेषु चैव पापेषु ।
माता सुतेन सार्धं म्रियते नास्त्यत्र सन्देहः ॥५५॥
जीवति माता ग्रियते सूनुः षष्ठाष्टमेषु पापेषु ।
जन्माष्टसप्तमेषु च जीवति सूनुर्म्रियेत तन्माता ॥५६॥
वक्रो वा सौरो वा द्वादशसंस्थो नयनहन्ता ।
दक्षिणनयनं सौरो वाममथाङ्गारको हन्यात् ॥५७॥
युगपच्चन्द्रादित्यौ द्वादशभे विष्ठितौ ग्रहौ स्याताम् ।
कुरुतः प्रसूतमन्धं पापः षष्ठेsथवा निधने ॥५८॥
अथवाप्यन्यतरयुते द्वादशभे जायमानस्य ।
अत्रापि हरेन्नयनं दक्षिणमर्कः शशी सव्यम् ॥५९॥
स्वर्भानुनोपसृष्टा यदि होरा दिनकरश्च जामित्रे ।
जातस्तत्र मनुष्यो निःसन्दिग्धं भव्त्यन्धः ॥६०॥
धनराशौ द्वादशभे चन्द्रः सूर्यश्च विष्ठितो यत्र ।
तत्रापि भवत्यन्धो यद्यष्टमषष्ठयोः पापौ ॥६१॥
रजनिकरः षष्ठगतो निधने सूर्यो रवेः सुतस्तु शुभे ।
वक्रः कुटुम्बराशावत्राप्यन्धो भवेज्जातः ॥६२॥
रुधिराङ्गसौरयुक्तश्चन्द्रो निधनेsथवाsपि षष्ठे वा ।
पित्तश्लेष्मविकारैर्दृष्टिं हन्यादशुभयुक्तः ॥६३॥
दक्षिणमष्टमसंस्थः सव्यं तु हरेत्समाश्रितः षष्ठम् ।
सौम्यैर्न वीक्षिततनुः सद्यो नहरेत्तु पश्चाद्वा ॥६४॥
दिनकरसुतेन सहितो निधने चान्त्ये समाश्रितश्चन्द्रः ।
वातश्लेष्मविकारैर्दृष्टिं हन्यादशुभदृष्टः ॥६५॥
निधने दक्षिननयनं त्यागे सव्यं हरेत्तु नियमेन ।
सौम्यैस्तु दृश्यमाने न हरेदथवा हरेत्पश्चात् ॥६६॥
एतेनैव तु विधिना सौरारदिवाकराश्रितश्चन्द्रः ।
कुर्यादृष्टिविकारं नानारोगैर्ध्रुवं जन्तोः ॥६७॥
एकादशे तृतीये होरायां पापसंयुते शशिनि ।
कर्णविकलो नरः स्यात्पापग्रहवीक्षितः सद्यः ॥६८॥
नवमे पञ्चमराशौ पापग्रहवीक्षितौ ग्रहौ स्याताम् ।
श्रोत्रोपघातमतुलं कुर्यातां जातमात्रस्य ॥६९॥
नवमे दक्षिणकर्णं वामं वै पञ्चमे ग्रहो हन्यात् ।
अत्रैव सौम्यभे वा शुभदृष्टे वा शुभं वाच्यम् ॥७०॥
राशौ होरान्तरं प्राप्य यो यस्मिन् व्याधिमाप्नुयात् ।
तच्चास्य होराप्रसवे चन्द्रस्थानं च यद्भवेत् ॥७१॥
सव्यापसव्यभागे योगमथैव ग्रहातु संप्राप्ताः ।
कुर्युर्नृणां च चिह्नं व्यङ्गभयं पापवीक्षिताः सौम्याः ॥७२॥
विदित्वा त्रितयं ह्येतत् कृत्स्नस्य तु विशेषतः ।
शुभाशुभौ तु विज्ञेयौ ग्रहसंयोगकारणौ ॥७३॥
चन्द्रादित्यौ तृतीयस्थौ मीनक्षेत्रं स यस्य तु ।
व्याधिं तत्र विजानीयात् त्रिरात्रं तस्य जीवितम् ॥७४॥
अतस्तृतीये नक्षत्रे समस्ते व्यस्तगेsपि वा ।
रवौ रात्रिं परां जीवेच्चन्द्रे दशममाश्रिते ॥७५॥
सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्करौ ।
जातस्य तस्य हि तदा भवेत्सप्ताहजीवितम् ॥७६॥
चतुरश्रस्थिताः पापा वामदक्षिणगा यदा ।
तदा यो व्याधिमाप्नोति दशरात्रं स जीवति ॥७७॥
त्रिकोणे दक्षिणे सूर्यश्चन्द्रो वामे यदा भवेत् ।
यस्तदा लभते व्याधिं द्वादशाहं स जीवति ॥७८॥
त्रिकोणस्थो यदा चन्द्रश्चतुरश्रेsथ भास्करः ।
तदा दुर्व्याधिना पुत्रस्त्रिरात्रं नातिवर्तते ॥७९॥
यदा होरा चतुर्थस्थश्चन्द्रः षष्ठस्थितो रविः ।
अष्टादशाहं च नरस्तदा व्याधिसमन्वितः ॥८०॥
रविर्यदा चन्द्रमसस्त्रिकोणस्थानमाश्रितः ।
विंशतिं दिवसान् जीवेत्तदा व्याधिभयार्दितः ॥८१॥
होराष्टमस्थितः सूर्यः सौरभौमनिरीक्षितः ।
यः पुमान् प्राप्नुयाद्व्याधिं न स जीवेद्विपद्यते ॥८२॥
होरायां कण्टके भौमो भवेद्यस्य प्रजायतः ।
न च केन्द्रगतो जीवो जायते मृत एव सः ॥८३॥
अथ होरागतः सूर्यो न च केन्द्रे बृहस्पतिः ।
निधने वा परः कश्चित् जातमात्रो विनश्यति ॥८४॥
होरायां कण्टके चन्द्रो न च केन्द्रे बृहस्पतिः ।
निधने वा परः कश्चित् जातमात्रो विनश्यति ॥८५॥
द्रेक्काणजामित्रगतो यस्य स्याद्दारुणग्रहः ।
होरागतः शशाङ्कश्च सद्यो हरति जीवितम् ॥८६॥
ग्रहाः समेयुर्बहवो निधने यस्य जन्मनि ।
मासं वा सप्तरात्रं वा तस्यायुः समुदाहृतम् ॥८७॥
शनैश्वरश्च होरायां निधने च महीसुतः ।
न च देवगुरुः केन्द्रे मृतगर्भः प्रसूयते ॥८८॥
यः प्राग्विलग्ने द्रेक्काणस्तत्समानो यदा ग्रहः ।
भवेत्रिकोणगाः पापास्तत्समानो भवेत् ॥८९॥
सौरे व्याधिमवाप्नोति मरणं धरणीसुते ।
सूर्ये स्याद्व्याधिवैकल्यं मरणं नात्र संशयः ॥९०॥
अथ होरागतो भौमः केन्द्रस्थश्च भृगोः सुतः ।
स वै मरणमाप्नोति होरायां पुनरागते ॥९१॥
गुरुस्त्रिकोणे होरायां होरेशश्च महीसुतः ।
तस्यान्यतरकेन्द्रस्थः सद्यो जीवितनाशनः ॥९२॥
न नैधने ग्रहः कश्चित् पापो होरागतोsथवा ।
केन्द्रे वान्यतरे जीवो जीवत्यष्टशतोत्तरम् ॥९३॥
न केन्दे कश्चिदाग्नेयो न त्रिकोणे न नैधने ।
गुरुशुक्रौ च केन्द्रस्थौ जीवेदष्टशताधिकम् ॥९४॥
यदि होरागतः शुक्रः केन्द्रे वान्यतमे गुरुः ।
नैधने न च पापः स्यात् सविंशं जीवते शतम् ॥९५॥
राशौ कर्कटहोरायां गुरुशुक्रौ समन्वितौ ।
गुरुश्चन्द्रयुतो वाsपि निधने न च कश्चन ॥९६॥
न च केन्द्रगताः पापा न त्रिकोणे च जायते ।
तस्यायुरमरप्रख्यं निश्चयेओ(ये)न तु कीर्त्यते ॥९७॥
निधनास्तव्ययलग्नत्रिकोणगाः क्षीणचन्द्रसंयुक्ताः ।
पापा बलिनः शुभदैरदृश्यमाना गतायुषः प्रायः ॥९८॥
योगे बलिनः स्थानं स्वं वा लग्नं गतेsपि वा चन्द्रे ।
बलवति पापैर्दृष्टे वर्षान्ते मृत्युकालः स्यात् ॥९९॥
रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्द्रुभिस्तथैकस्थैः ।
रविशनिभौमशशाङ्कैर्मरणं खलु पञ्चभिर्वर्षैः ॥१००॥
रविणा युक्तः शशिजः सौम्यैर्दृष्टो विनाशयति नूनम् ।
एकादशभिर्वर्षैर्देवाङ्केsपि स्थितं जातम् ॥१०१॥
लग्ने रविमन्दकुजैः शुक्रगृहे सप्तमे शशी क्षीणः ।
दृष्टो न देवगुरुणा सप्तभिरब्दैर्विनाशयति ॥१०२॥
केन्द्रे रविमुषिततनुः क्षितिसुतमन्दावलोकितोsथ युतः ।
वर्षचतुष्के चन्द्रो मारयति किमत्र गणितेन ॥१०३॥
लग्नाधिपतेश्चन्द्रो मरणपदस्थोsतिकृष्णतां यातः ।
क्रूरैः सकलैर्दृष्टो न शुभैः सर्वैस्त्रिभिस्तु मारयति ॥१०४॥
लग्नाधिपतिः पापः शशिनोंशे रिःफगो यदि च चन्द्रात् ।
क्रूरैर्विलोक्यमानो मारयति शिशुं नवभिरब्दैः ॥१०५॥
दर्शनभागे सौम्याः क्रूह्राश्चादृश्यके प्रसवकाले ।
राहुर्लग्नोपगतो यमक्षयं नयति पञ्चभिर्वर्षैः ॥१०६॥
राहुः सप्तमभवने शशिसूर्यनिरीक्षितो न शुभदृष्टः ।
दशभिर्द्वाभ्यां सहितैरब्दैर्जातं विनाशयति ॥१०७॥
घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः ।
पापैर्निरीक्ष्यमाणः सपतमितैर्निश्चितं वर्षैः ॥१०८॥
केतोरुदयं पूर्वं पश्चादुल्कादिपवननिर्घाताः ।
रौद्रे सार्पमुहूर्ते प्राणैः सन्त्यज्यते जन्तुः ॥१०९॥
क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतं पापैः ।
मारयति तदा दिवसैर्निर्व्याजं कतिपयैरेव ॥११०॥
कुम्भे दिशति शशाङ्को भागे मृत्युं तथैकविंशाख्ये ।
सिंहे च पञ्चमेंशे वृषे च नवमे तथैवोक्तः ॥१११॥
अलिनि त्रिविंशयुक्ते मेषे च तथाष्टमे दिशति मृत्युम् ।
कर्कटके द्वाविंशे तुलिनि चतुर्थे मृगे विंशे ॥११२॥
कन्यायां प्रथमेंशे धनुर्धरेsष्टादशे झषे दशमे ।
मिथुने च द्वाविंशे शशी प्रसूतस्य मरणकरः ॥११३॥
ये भुक्ताः शशिनोंशा जन्मनि वर्षैर्गतैस्तु तावद्भिः ।
मरणं हि जन्मभाजामप्यन्तकबद्धरक्षाणाम् ॥११४॥
एवं सर्वप्रयत्नेन जायमानस्य देहिनः ।
होरास्थानानि केन्द्राणि चिन्तनीयानि तद्यथा ॥११५॥
चिन्तयेज्जायमानस्य स्थानराशिषु नित्यशः ।
बृहस्पतिर्नृणां जीवस्तस्य नित्यं बृहस्पतेः ॥११६॥
पञ्चदशषट्समेतश्चत्वारिंशत्तथैकविंच्चश ।
शतमथ चत्वारिंशत् षष्टिस्त्रिंशत् क्रमायु होरायाः ॥११७॥
तृतीयचतुर्थपञ्चमसप्तमनवमदशमैकादशगृहेषु जीवस्थितौ वर्षाः ।
इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टाध्यायो दशमः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP