TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ पंचदशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ पंचदशोsध्याय:
॥ नामधारक उवाच ॥
पतितस्य ततो जातं किमु हीनोप्यनुग्रहात् ।
श्रीमद्भगवतो वेदशास्त्रज्ञोस्मीति योब्रवीत् ॥१॥
॥ सिद्ध उवाच ॥
प्रसादात्सद्गुरोर्ज्ञानी भूत्वाह पतितो हरिं ।
ब्राह्मणस्यापि मे कस्मादध:पातोभवद्धरे ॥२॥
॥ श्रीगुरुरुवाच ॥
कर्मणा भ्रममाणस्य यन्त्रवत्पुण्यपापत: ।
प्रकृत्यायत्तचेष्टस्य जन्तोरूर्ध्वमधोगती ॥३॥
गुरुमातापितृस्त्र्यर्भधर्माचारकुलेश्वरान् ।
यो जहाति मुधा सोपि जीवहिंस्रोनृतप्रिय: ॥४॥
खल: कन्याश्वगोक्रेता गृहग्रामवनाग्निद: ।
त्यक्तश्राद्ध: परान्नाशी: कालाप्तातिथिहापक: ॥५॥
सद्विपदेवतीर्थार्च्यवेदशास्त्रादिनिंदक: ।
तडागकूपारामाध्वक्रतुध्वंसी व्रताहभुक् ॥६॥
श्राद्धार्च्याहांबुपर्वाह्नि स्त्रीभुग्विश्वासघातक: ।
दत्तदानहर: स्वोक्तव्यस्ताचारोन्यकर्मकृत् ॥७॥
स्वपुण्यपरपापास्यो दम्भाद्यै: सत्वदर्शक: ।
खलहिंस्रस्तेयिसंगी घातज्ञो जारणादिकृत् ॥८॥
ज्ञानं विना चिकित्साशी कर्मभ्रष्टोन्यतापकृत् ।
इत्याद्या: प्रेत्य नरकं भुक्त्वा चण्डालयोनिगा: ॥९॥
क्रोधी शूद्रीरतस्त्यनित्यनैमित्तिकक्रिय: ।
वृषगोवृषलीसक्तो रसगोवेदविक्रयी ॥१०॥
अदत्वेशं कपिलगोदुग्धपोतिनिषिद्धभुक् ।
प्रतिग्रही पराजीतजीव सन्ध्याशयी कुवाक् ॥११॥
इत्याद्या ब्राह्मणास्तेपि पूर्ववत्सम्भवन्ति हि ।
जीवजातिमिता; सन्ति नरका एकविंशति: ॥१२॥
तेषु श्रेष्ठाजीवप्रापविपाका अन्तकालये ।
तेष्वंतक: क्षिपत्येतान्पापिन: पापभुक्तये ॥१३॥
त्यक्त्वा पुष्टमपीह वर्ष्म कलुषी यान्यायनांगेन तृट् -
क्षुच्छीतोष्णसुपीडितो यमचरैर्बद्धोयने दुर्गमे ।
मूर्छन् तर्जनताडनादिभिरसन्वै वैतरिण्यर्दितो ।
भुंक्ते याम्यमवाप्य राष्ट्रमवशस्तां यातनां नारकीम् ॥१४॥
ततो योन्यतरे याति भुक्तदु:खोप्यघांशत: ।
प्रायशो वासनाभूम्नो भूतप्रेतपिशाचतां ॥१५॥
हुंतुंकाराद्गुरोर्विप्राभिभवाद्ब्रह्मराक्षस: ।
गर्दभो हीनसेवी स्यात्कुक्कुटोतिथिहापक: ॥१६॥
उष्ट्रोर्थहृद्वनचर: फलपत्रार्थहृद्भवेत् ।
मधु दंश: पलं गृध्रोन्नमाखुश्चातको जलं ॥१७॥
गन्धान् छुच्छुंदरी धान्यं शलभालिर्विषं तथा ।
कृमि: कीट: पतंग: स्यात्स्वर्णं हृत्वा तृणं पशु: ॥१८॥
काको निर्मन्त्रभुग्गृध्रो मित्रध्रुग्दाम्भिको बक: ।
इत्याद्या बहुशो योनीर्भुक्त्वा रुग्णा भवंत्यथ ॥१९॥
हृद्रोगी परहृद्भेत्ता गुरुत्यागी महामयी ।
क्षयी तु ब्रह्महा कुष्ठी स्वर्णहृत्पुस्तकापहा ॥२०॥
जन्मांधो विश्वासघाती वमी गण्डी गणार्थहृत् ।
अपुत्रोन्यार्थहृद्वस्त्रहृछ्वित्री चानृती कुवाक् ॥२१॥
गुल्म्यन्नहृत्कुरुङ्मांसभोक्ता क्कास्यस्तु तैलहृत् ।
पामी पह्लादिहृछ्वित्री कांस्यकार्पासलोहहृत् ॥२२॥
देवार्थहृत्पाण्डुरोगी रोगा: सर्वेत्र पापत: ।
परस्त्र्यालिङ्गनाज्जन्म शतं श्वा तद्भगेक्षक: ॥२३॥
अंधो बंध्वंगनाभोगी गर्दभोहिश्च दुर्धिया ।
परस्त्र्यालिङ्गगनान्नूनं हृद्रोगी ह्यष्टधा रति: ।२४॥
श्वा मातुलसखिस्त्रीभुक्कृमि: स्यादौपपत्यत: ।
स्वैरिण्योपि स्त्रिय: श्वादियोनिं गत्वा व्यथंत्यलम् ॥२५॥
इति संवादमाकर्ण्य गुरुं प्राह त्रिविक्रम: ।
ज्ञानाद्वाज्ञानतो जातं कथं पापं प्रणश्यति ॥२६॥
॥ श्रीगुरुरुवाच ॥
पश्चात्तापेन संशुद्धि: प्रायश्चित्तादिभि: पुन: ।
सदस्युच्चार्य पापं स्वं ब्रह्मदण्डं निधाय च ॥२७॥
सभ्याज्ञया क्षौरपूर्वं कृतपापानुसारत: ।
कृछ्राद्बादि चरेच्छक्त्याशक्तो गोर्घादिनाsशठ: ॥२८॥
स्वल्पं तीर्थे दशस्नानाद्द्विशतास्वायमैरघं ।
स्वर्णदानात्प्रणश्येत सद्गुरोर्दर्शनान्महत् ॥२९॥
त्र्यहं दिवा त्र्यहं सायं त्र्यहमद्यादयाचितं ।
नाद्यात्त्र्यहं कायकृछ्रोयुतगायत्रिकाजपात् ॥३०॥
सहस्रहवनाद्वापि द्वादशद्विजभोजनात् ।
गोदानाच्छक्तितोर्घाद्वाप्राजापत्य: प्राजापत्य: प्रसिद्धयति ॥३१॥
द्वादशद्यु: पंचदशग्रासा भोज्या: सदा निशि ।
मासाच्छुद्धि: स्वल्पभुज्या क्षीराज्याद्याशनैश्च वा ॥३२॥
बिल्वाश्वत्थाब्जदर्भांवुपानात्तीर्थाटनादपि ।
वाराणसीस्नानमात्राल्लीयन्ते पापकोटय: ॥३३॥
अन्यतीर्थे त्वनुष्ठानाद्रामेश्वरसमीपत: ।
अब्धिस्नानाद्ब्रह्महत्याकृतघ्नाद्यघसंहृति: ॥३४॥
लक्षसंख्याकगायत्रीजपान्मद्यपसंशुचि: ।
कोट्या ब्रह्मघ्नोष्टलक्षैर्गुरुतल्पगतस्य च ॥३५॥
सप्तलक्षात्स्वर्णहर्तु: पावमानीभिरप्युत ।
इन्द्रं मित्रं शुन:शेपसूक्तं पौरुषशांतिके ॥३६॥
त्रिसुपर्णं नाचिकेतमघमर्षणवैष्णवे ।
मासमात्रं जपेत्स्वल्पे षण्मासं च महत्यघे ॥३७॥
चान्द्रायणं चरेद्ग्रासानेकैकं वर्धयेत्सिते ।
पक्षेन्यके हायसेत्तै: शुचिगव्याशनेन च ॥३८॥
गोमूत्रं गोमयं क्षीरं दद्धयाज्यं सकुशोदकं ।
मिलित्वा मन्त्रवद्धुत्वा पिबेत्सर्वाघशांतये ॥३९॥
उभौ समं ह्यन्यतरकृताघेणापि दम्पती ।
लिप्यते पापिसंसर्गी सोपि पापी भवेत्सम: ॥४०॥
प्रायश्चित्तानि चीर्णानि दुष्टं हरिपराड्मुखं ।
नदीव सौरभाण्डं न निष्पुनंति कथंचन ॥४१॥
इति त्रिविक्रमं प्रोक्त्वा पतितं प्राह सद्गुरु: ।
प्राङ्मातापितृसंत्यागाल्लब्धा चण्डालतात्र ते ॥४२॥
मासमात्रं नदीस्नानात्प्रेत्य विप्रो भविष्यसि ।
प्राहांत्यजो योजय मां त्वद्दृक्पूतं द्विजातिषु ॥४३॥
॥ श्रीगुरुरुवाच ॥
भूत्वापि पतिताद्वद्धो देहस्तेसंस्कृतोशुचि: ।
वदंति पतितं न त्वामन्यत्प्रोक्तं कथं त्वया ॥४४॥
विश्वामित्र: पुरा क्षत्रो देवर्षित्वं तपोबलात् ।
देवान्ययाचे प्रोक्तं तैर्वसिष्ठात्स्वीकुरुष्व तत् ॥४५॥
वसिष्ठेनापि हीनत्वान्न दत्तं तस्तुतान्छतं ।
हत्वा तं हंतुकामोभूच्छंकितो ब्रह्महत्यया ॥४६॥
तदाज्ञया तपस्तप्तं तत्तु मेनकया हृतं ।
विश्वामित्र: पुनस्तप्त्वा दग्धांगोभूदृषीश्वर: ॥४७॥
तस्माद्भवांतरे तेस्तु ब्रह्मत्वं गच्छ तेस्तु शं ॥४८॥
॥ पतित उवाच ॥
जाते स्वर्णेयस: पश्चात्कुतोयस्तद्वदप्यहम् ॥४९॥
तच्छ्रुत्वा श्रीगुरुर्विप्रभ्रांत्या दूरात्स्त्रियं सुतान् ।
वारयंतं वीक्ष्य शिष्यमाहामुं स्नापय द्रुतं ॥५०॥
तदा लुब्धद्विजेनैष स्नापित: पतित: स्वकै: ।
सहागाद्विस्म्रुतप्राप्तज्ञानो हीनो निजालयं ॥५१॥
॥ त्निविक्रम उवाच ॥
पतितोपि कृपादृष्ट्या पावित: स्नानमात्रत: ।
कथं स पूर्ववज्जातो भगवन्छिंधि संशयं ॥५२॥
श्रीगुरुरुवाच
क्षिप्तं भस्मार्पितं ज्ञानं विनष्टं क्षालनात्तु तत् ।
इयान् भस्मप्रभाव: प्राग्वामदेवो महामुनि: ॥५३॥
वने चचार तं प्रात्तुमागतो ब्रह्मराक्षस: ।
स्पर्शमात्रात्प्रशांतोभूज्ज्ञाताsखिलनिजोद्भव: ॥५४॥
प्राक् श्रीमत्तोस्मि राट् कामी ब्राह्मणाद्यंत्यजातिजा: ।
भुक्ता: श्रेष्ठा: स्त्रियोल्पाश्च सहैकैकामनंतश: ॥५५॥
हठाद्दानादिनानीय भुक्ता मद्राष्ट्रसंस्थिता: ।
नरा राष्ट्रांतरं जग्मु: सस्त्रीका दोषकातरा: ॥५६॥
ततो रुग्णस्य मे राज्यमाक्रांतं शत्रुभिस्तत: ।
कृच्छ्रात्प्रेत्य मया भुक्ता पितृभि: सह दुर्गति: ॥५७॥
प्रेतो व्याघ्रश्चाजगर: सालावृक उ सूकर: ।
शरठ: श्वा क्रोष्टुमृगौ कुक्कुट: कपिचिल्लकौ ॥५८॥
नकुल: काक ऋक्षश्च कुक्कुट: खर ओतुक: ।
भेक: कूर्मो मत्स्य आखुर्घूको हस्तीह राक्षस: ॥५९॥
एता योनीर्मया भुक्ता: कृछ्रात्क्षुत्तृट्प्रपीडित: ।
त्वामत्तुमागमन् सद्य: शांतो जातोस्म्यद: कथं ॥६०॥
॥ वामदेव उवाच ॥
अंगे भस्मास्ति तत्स्पर्शाज्ज्ञानं जातं तवादित: ।
तन्माहात्म्यमिदं यत्तु सदा प्रीत्या शिवो दधौ ॥६१॥
पुरैको द्राविडे विप्र औपपत्ये हतो बहि: ।
त्यक्तस्तत्रैव भस्माक्तश्वस्पर्शाद्भस्मृभूषित: ॥६२॥
असून् जहौ तदा प्राप्तान्याम्यान्दूतान्निवार्य तं ।
भस्मदग्धमलं शैवा दूता निन्यु: शिवांतिकं ॥६३॥
॥ राक्षस उवाच ॥
एवं चेद्भस्ममाहात्म्यं तत्स्वीकर्तुं समुत्सहे
तन्निर्माणप्रकारं मे शंस धार्यं कथं च तत् ॥६४॥
प्राग्ब्रह्मभ्योर्पिता वार्ता वाप्याद्या निर्जलस्थले ।
रचितास्तत्फलं त्वेतत्पापांते तव दर्शनं ॥६५॥
॥ वासुदेव उवाच ॥
त्र्यक्षं सायुधपंक्तिहस्तमहिसत्सूत्रं शिवं श्वेतभं
पंचास्यं च कपर्दिनं स्मितमुखं वैय्याघ्रचर्माम्बरं ।
चार्वंबान्वितमिंदुभालमु शिरोगंगं गणाद्यन्वितं
स्वस्थं प्रेक्ष्य सनत्कुमारमुनिराण्नत्वाब्रवीत्प्रांजलि: ॥६६॥
जयेश्वरानंत हराज शम्भो जगन्निदानाल्पकसाधनं न: ।
मुक्त्यै शिवोपादिश दुष्कराणि प्रोक्तानि सर्वाणि तु साधनानि ॥६७॥
॥ शिव उवाच ॥
दर्शनात्परिहृत्याघं भुक्त्वा शं विधिवद्धृते: ।
भस्मन: पुरुषोह्नाय जीवन्मुक्तो भवत्यलं ॥६८॥
यज्ञोत्थं वा करीषोत्थमग्निरित्यादिमंत्रितं ।
धार्यं त्र्यायुषमित्येतैरंगुलीभि: प्रतिस्थलं ॥६९॥
त्रिपुंड्रा भ्रूसमा रेख्या वर्णादिस्मृतिपूर्वकं ।
त्र्यर्णास्त्रिदेवास्त्रिगुणास्त्रिरात्मानस्त्रिशक्तय: ॥७०॥
त्रिछंदसस्त्रिलोकास्त्रिवेदास्त्रिषवणा: स्मृता: ।
सर्वाघहृत्सदा सर्वैर्धार्यं तद्विधिवन्नरै: ॥७१॥
भक्त्याज्ञेनापि तद्धार्यं तारकं नापरं ह्यत: ।
परस्त्रीगोनिंदकोsसन् क्षेत्रहृत्परपीडक: ॥७२॥
गृहदाही मृषावादी खलो वेदरसक्रयी ।
नीचाच्च दुष्प्रतिग्राही वृषलीविधवादिग: ॥७३॥
ज्ञानाज्ञानकृताsघोपि मुक्त: स्याद्भस्मधारणात् ।
भस्मत्रिपुंड्ररुद्राक्षै: स्व: पूज्यो ना पुमर्थदै: ॥७४॥
सहस्रप्राक्परोत्पत्तिदोषघ्नं व्याधिनाशनं ।
तीर्थाप्लुतिजपाधिक्यफलदं भस्म धारकं ॥७५॥
स्वरादिलोकं नीत्वांते शैवे स्थापयाति ध्रुवं ।
सनत्कुमार सुलभं तारकं भस्मधारणं ॥७६॥
एवं सनत्कुमारेशसंवादस्ते मयोदित: ।
तस्मात्त्व परिधत्स्वांगे भस्मेत्युक्त्वा ददौ मुनि: ॥७७॥
राक्षसोपि तदादाय भस्मांगे विधिवद्दधौ ।
तदैव राक्षसीं हित्वा तनुं मुक्तोभवत् क्षणात् ॥७८॥
तदैवाप्तं विमानं स तेनागात्तत्क्षणाद्दिवं ।
तस्मान्मुने भस्मशक्तिं ज्ञात्वांगे धेहि मुच्यसे ॥७९॥
एवं गुरूक्तं ह्यभिग्रुह्य ह्रुष्टो भक्त्योपसंगृह्य तमाज्ञयागात् ।
त्रिविक्रमोन्येपि हि तत्प्रमाणं मत्वोत्तमं चेरुरथो तथैव ॥८०॥
एवं क्रियाविपाकोयमीदृक्श्रुतिभयंकरा ।
दण्डधृग्यातना तस्माच्छ्रेय एवं सदाचरेत् ॥८१॥
इति श्रीगुरुचरिते कर्मयोगे कर्मविपाको नाम पंचदशोsध्याय: ॥१५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.1870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

frequency conversion

  • वारंवारता रुपांतर 
RANDOM WORD

Did you know?

मृत माणसाचा पिंड भाताचा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.