TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ अष्टमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ अष्टमोsध्याय:
॥ नामधारक उवाच ॥
ब्रह्मन्कुत्राsवतीर्यासौ किं चकारास्य चेष्टितम् ।
मायाश्रितस्याप्रमेयं ब्रूहि शुश्रूषवेsर्थदम् ॥१॥
॥ सिद्ध उवाच ॥
उदग्देशेवतीर्णस्य दीनानुद्धर्तुमीशितु: ।
वक्ष्येsल्पकं साधुयोगिदुर्विभाव्यं हि चेष्टितम् ॥२॥
या श्रीपादोपदेशेन प्रदोषेsजमतोषयत् ।
सा प्रेत्योत्तरदेशे स्त्रीर्जाता ब्रह्मकुलेमले ॥३॥
धीरूपशीललक्ष्माध्या सुसंस्कारा गुणान्विता ।
श्रीपादेन पुरांबेति प्रोक्तत्वात्सा तदाव्हया ॥४॥
शिववृत्तिं माधवाख्यामनुरूपं द्विजं पिता ।
दृष्ट्वा तत्रैव तां तस्मै गृह्योक्तविधिना ददौ ॥५॥
सा पातिव्रत्यमाथ्याय भेजे छायेव तं पतिम् ।
प्रदोषेपि शिवं पूर्वसंस्कारात् पत्यनुज्ञया ॥६॥
स्नेहोन्योन्याश्रयो भावबंधोभूच्चक्रवाकवत् ।
तयोर्हर्षितयोरेवं गर्भमंबा वरं दधौ ॥७॥
सा सुदोहदलक्ष्माथ तत्त्वज्ञानमुपादिशत् ।
द्विजोप्यनुक्रमाच्चक्रे क्रिया: पुंसवनादिका: ॥८॥
अब्रध्नगेष्टखगसूचितसिद्धिपूर्वप्रव्रज्यके सुसमयेथ समोष्णशीते ।
आत्मीयवाच्यपठनेन सतोनुगृण्हन्नोंकारवाच्यभगवान्स्वयमाविरासीत् ॥९॥
विश्वं तदाभूच्छुभशंसि लोका ओंकारमाकर्ण्य सुविस्मिता; स्यु: ।
भावान्सुखेटान्गणका: सुयोगान्दृष्ट्वा मुदं प्रापुरदृष्टपूर्वान् ॥१०॥
त ऊचुर्माधवेदं ते सुकृतद्रुफलं किल ।
श्रीसिद्धयोस्य दास्योंघ्री स्पर्शवन्निधयोनुगा: ॥११॥
नायं गृही जनोद्धर्ता दृष्ट्या पतितपावन: ।
वंद्योस्यानुग्रहात्कोपि भवेन्नैवात्र संशय: ॥१२॥
इत्युक्त्वा तेन हृष्टेन पूजितास्ते गृहं ययु: ।
श्रुत्वाद्भुतं जनुर्द्रष्टुं प्राप्तैर्लोकै: स नेक्षित: ॥१३॥
तद्दृग्दोषभियैकांते गुरु: संस्थाप्य रक्षया ।
तं ररक्षार्भबुत्ध्येशं तन्मायामोहितो हरिं ॥१४॥
भूयान्नरो हरिरिव नरतापाघदैन्यहृत् ।
अयमित्याख्यया चक्रे बालं नरहरिं द्विज: ॥१५॥
क्षुच्छांतिर्नास्य मत्तोsतो धात्री वाजा पयस्विनी ।
मृग्येत्युक्तेंबयोरोजौं स्पृष्ट्वार्भोद्यदुहत्पय: ॥१६॥
तद्बालचेष्टितं चित्रं सद्दृग्दोषभियानया ।
स्फुटं नाकारि मात्रैवमन्यदप्यद्भुतास्पदम् ॥१७॥
बाल्यादिना मर्त्यलिंगभाजीहाज्ञानलक्ष्मणां ।
प्रतीतेर्ब्रह्मतारोप: साक्षात्कै: कल्प्यते कथं ॥१८॥
जातस्त्रैवार्षिकोप्येष लीलयाभूत्सुमूकवत् ।
खिन्नातस्तत्प्रतीकारानारेभेंsबा द्विजोदितान् ॥१९॥
बालोक्तिपाठानैश्चान्यै: सूपायैर्नावदच्छिशु: ॥२०॥
वक्तुं श्रोतुं नायमज्ञो मूकश्चेत्कथमोंकृतिं ।
श्रुत्वान्योक्तिं ब्रूत इति पितरौ मोहमापतु: ॥२१॥
मूकायं नौ श्रमेणालं प्रदोषे शंभुरर्चित: ।
दिष्टयैतत्तत्फलं प्राप्तं संस्कार्योसौ कथं न्वत: ॥२२॥
ताभ्यामित्युदिते मौंज्यां बद्धायां वक्ष्य इत्यसौ ।
संज्ञयादर्शयत्स्वर्ण व्यकृणोत्तन्मुदेsयस: ॥२३॥
तदा संज्ञाताविश्वासो विप्रानाहूय माधव: ।
मुदा संभृतसंभार: सुलग्नेमुमुपानयत् ॥२४॥
सुसंस्कृत: कृतस्वस्त्ययनो भुक्तोंsबया सह ।
गुरूपदिष्टां सावित्रीमुपनीतोयमाददे ॥२५॥
गुर्वाश्रितब्रह्मचारिधर्मो भिक्षां स मातरं ।
याचयित्वा जगौ वेदान्न चित्रं वेदवाच्यद: ॥२६॥
प्रणम्य पितरौ प्राह विरक्त: प्रव्रजामि भो: ।
अनित्याद्द्राक्शरीरस्य तदाज्ञां दातुमर्हथ: ॥२७॥
प्रत्यवायाभिक्रमांतौ नैव धीमति धीस्त्वियम् ।
मम प्राग्दैहिकाक्षय्या भविष्यंत्यात्मजा हि वां ॥२८॥
इत्युक्तेंबा विषीदंती तन्मायामोहिताब्रवीत् ।
एक एव सुतस्त्वं मे कथं यासि विहाय मां ॥२९॥
प्रव्रजेद्वेदविद्भुक्तगार्हस्थ्योनुक्रमाद्वनात् ।
तत्त्वविद्वासनानाशमनोभंगा अत: श्रुता: ॥३०॥
॥ श्रीगुरुरुवाच ॥
जैव्ह्यौपस्थ्यसुखाक्तानां क्रमोयं नैव मादृश: ।
प्राक्संस्कारविरक्तस्य जोष्यै: कि मेsकयोनिभि: ॥३१॥
श्रुतश्रोतव्यनिर्वेदं यास्ये संन्यस्य भो तत: ।
संसिद्धि: सुलभा नात: परं कार्यं हि धीमता ॥३२॥
कलावायु: शतं स्वापाद्धीयतेर्धं तु शेषकं ।
बाल्ययौवनवृद्धत्वै: पराधीनतया च नु: ॥३३॥
स्वप्नवत्संपदिष्टाध्यसंसारोsज्ञानकल्पित: ।
यौवनं पुष्पवच्चायुस्तडिद्वत्क धृतिर्बुधे ॥३४॥
कालो भ्रूणाञ्छिशून्यूनो वृद्धानार्तान्सुखस्थितान् ।
मूढान् ग्रसत्यपि प्राज्ञान्नि:शेषानमरानपि ॥३५॥
यदर्थं ममतप्येतज्जलबुद्बुदवद्वपु: ।
मांसास्थिरक्तवद्धिंस्रवांचनार्थं त्वगावृतम् ॥३६॥
न भस्मविट्कीटरूपपरिणामं निजानुगम् ।
तदानुषंगिका: स्त्र्याद्या: किमुतानर्थहेतव: ॥३७॥
देहोचित्सर्वगो जीवश्चिदंशोजोव्ययो ध्रुव: ।
स्वप्नवत्सुखदु:खादिसंबंधोsज्ञानजोस्य तु ॥३८॥
प्रसादात्सद्गुरो: शाब्दपरब्रह्मविदस्त्विदम् ।
छित्वाsविद्गहनं ज्ञेयज्ञानास्त्र: स्वस्थ इद्भवेत् ॥३९॥
य उत्तमं ज्ञानपात्रं लब्ध्वा धामाग्रजातिजं ।
नाचरत्यात्मन: श्रेयस्तेनात्मा वंचितो ध्रुवं ॥४०॥
तस्मान्नारब्धविघ्ना मे भव तेंब नमोपि ते ।
पुत्रो भविष्यति ध्यानाद्भवाब्धिं मे तरिष्यसि ॥४१॥
इत्युक्त्वादर्शयत्तस्यै स्वं रूपं दिव्यमुत्तमं ।
साप्यदभ्रष्टशा दृष्ट्वा तद्वित्तप्राग्जनिर्जगौ ॥४२॥
नमस्ते भगवन्देव प्राग्दृष्टो मर्तुकामया ।
कुपुत्रया मया स त्वं श्रीपादो मेsद्य गोचर: ॥४३॥
ब्रह्मापि वेत्ति नो रूपगुणांस्ते मोहिता त्वहं ।
मानुषी त्वां कथं जाने दिष्ट्याद्य ज्ञानमर्पितं ॥४४॥
कृतं मत्कुक्षिसंभूत इति लोकविडंबनं ।
अज ब्रह्मांडकुक्षे न उभयं पावितं कुलं ॥४५॥
सत्यसंकल्प ते विघ्नं मास्तु रूपं स्थिरीकुरु ।
मयीदं चात्र भो स्थेयं यावत्पुत्रो भविष्यति ॥४६॥
तथेत्युक्त्वेशबुद्ध्याsसौ स्थित्वा ताभ्यां सुपूजित: ।
तत्र शिक्षितवाञ्छिष्यान्विदुषोप्येष वेदवाक् ॥४७॥
अंबापि गर्भिणी भूत्वा कालेsसूत सुतौ शुभौ ।
स त्रैमासिकयो: शिश्वो: प्राहांबं श्रृणु मेंब भो: ॥४८॥
जातौ द्वौ ते भविष्यंति पुत्रौ पुत्री च सत्तमा: ।
देह्याज्ञां म इति प्रोक्त्वा तदाज्ञप्त: प्रचक्रमे ॥४९॥
रेजे शिरस्त्राणविशोभिमूर्धा सुपादुकामंडितपादपद्म: ।
काषायवस्त्रावृतपेशलांगं: कौपीनधृग्दंडकर: स्मितास्य: ॥५०॥
क्षमस्वार्भबुद्धया मयाजापराद्धमिति व्याहरंतीं सतीं त्रिंशताब्दै: ।
पुनर्दर्शनं मेस्तु सांनिध्यमंब स्मृतावित्थमुक्त्वा ययौ तां निवर्त्य ॥५१॥
नायं मत्योंस्तीश एनं नता: स्म एवं सद्भि: स्तूयमानो मुनीन: ।
योगीशोपि द्राग्बदर्याश्रमं सद्द्रष्टुं काशीं प्राप वेषान्मुमुक्षो: ॥५२॥
स खेचरत्सहृञ्जिव्ह उन्मन्यावस्थयाsतपत्‍ ।
तप: श्वासोछ्वासहीन: काश्यां वज्रासनस्थित: ॥५३॥
भागीरथ्यां त्रिषवणमथाप्लुत्य साष्टांगयोगं
युंजंतं तं सकलमुनय: प्रेक्ष्य सिद्धासनस्थं ।
नत्वाष्टंगै: परतरधिया खेचरीमुद्रयैक -
कुंभोद्युक्तं जगुरुपरता नादसिद्धीत्समाधिं ॥५४॥
भवान्परात्मास्ति न मर्त्यबाल: सद्धर्मगुप्त्यै विधृतावतार: ।
प्राक् शंकराचार्यमतोपि लुप्त: संन्यास एनं वितनोतु तिष्ये ॥५५॥
कष्टोत्थाद्यंतवत्स्पर्शभूभोगसुरतात्मभि: ।
उच्छिन्नोध्यत्मसौख्याज्ञैरयं कलिहतात्मभि: ॥५६॥
भीरूग्रे सुलभक्षेमे कलौ संन्यासवर्त्मना ।
अध्यात्मपरमानंदं भगवन्दातुमर्हसि ॥५७॥
इत्याश्रुत्योक्तमाचार्यं वृत्वा कृष्णसरस्वतीं ।
तत: संन्यास्यभून्नाम्ना स नृसिंहसरस्वती ॥५८॥
न्यस्तसूत्रशिखो रेजे न्यस्तसर्वैषणो वशी ।
संन्यासपद्धतिं प्राह मुमुक्षुभ्यो जगद्गुरु: ।
विरजोमांच्छुचिर्देवीं प्रविष्टो हापितैषण: ॥६०॥
संन्यस्तसकलोसूत्रचूडो दंडी गुरुं भजेत् ।
प्रज्ञानं ब्रह्मायमात्मा ब्रह्म तत्त्वमसीतिच ॥६१॥
अहं ब्रह्मास्मीति महावाक्यान्याप्त्वार्थतो वशी ।
पंचीकरणविल्लब्धसंज्ञ: शौची स्वधर्मवित् ॥६२॥
दैवभावो योगपट्टी संन्यासी श्रेयसेर्हति ।
गतिज्ञो धारणाभ्यासाञ्जीवन्मुच्येत्परात्मदृक् ॥६३॥
ब्रह्मीभूतस्य गव्यात्मा व्यसु: क्षेप्योप्क्रियादि नो ।
इत्युक्त्वा ग्राहयामास संन्यासं स्वधिकारिण: ॥६४॥
तत: प्रभृति संन्यास: संप्रवृत्तोमृतायन: ।
काश्यां पुमर्थवेदार्थान्प्रकाश्योत्तरवर्त्मना ॥६५॥
मेरुं प्रदक्षिणीकृत्य पूतात्मापि सुशिष्ययुक् ।
तीर्थस्नातो ययौ गंगासागरं भक्तगुप्तये ॥६६॥
कारयित्वा बहि:स्पर्शान्बाह्यान्सोन्ते दृशं भ्रुवो: ।
प्राणापानौ च खे तुल्यौ यतिभ्यो योगमादिशत् ॥६७॥
प्रयागेथैत्य संन्यासं माधवब्रह्मणे ददौ ।
विभुस्तत्त्वोपदेशं च निजोद्भवभुवं ययौ ॥६८॥
॥ नामधारक उवाच ॥
यत्प्रसादान्नरा मुक्ता अद्वैतामृतवर्षिण: ।
भवंत्यस्य किमाचार्यै: कोयं कृष्णसरस्वती ॥६९॥
॥ सिद्ध उवाच ॥
सांदीपनिवसिष्ठाद्या: कृष्णरामादिभिर्वृता: ।
गुरवोपि तथाजेन वृत: कृष्णसरस्वती ॥७०॥
मानुष्य लीलयासाद्य स तद्वद्वर्तते न चेत् ।
वर्तेत संकरो लोके भवेत्तदनुवर्तित: ॥७१॥
येनाध्यक्षेण मा सूते जगत्तेन न बद्धयते ।
असक्तो यमुदासेसेनवत्स्थित: किमुतेतरै: ॥७२॥
शिष्यो विष्णु: पुरेशस्य विष्णोर्विधिरभूद्विधे: ।
वसिष्थस्तस्य शाक्त्योस्य व्यासस्तस्य शुकोस्य ॥७३॥
गौडपादोस्य गोविंद: शङ्करस्तस्य तस्य तु ।
विश्वरूपस्तस्य बोधज्ञान: सिंहगिरिस्तत: ॥७४॥
तस्येश्वरो नृसिंहोस्य विद्यातीर्थं तत: शिव: ।
तस्य भागीरथीतीर्थं विद्यारण्योस्य तस्य तु ॥७५॥
शिष्योभून्मलयानन्दो देवतीर्थं सरस्वती ।
यादवेन्द्रोस्य तस्यायं शिष्य: कृष्णसरस्वती ॥७६॥
सर्वे स्वदीक्षांकिताख्या जाता: कृष्णसरस्वती ।
पारंपर्योत्तमो ज्ञानी वृद्धोतोयं वृतोमुना ॥७७॥
इति० नृसिंहसरस्वत्यवतारकथनं नामाष्टमोsध्याय: ॥८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.4370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

करील त्‍याचा कारभार, मारील त्‍याची तलवार

  • ज्‍याला आटोप आहे त्‍यालाच एखादा अधिकार चालवितां येतो व ज्‍याच्या अंगांत पराक्रम आहे, त्‍यालाच तरवारीच्या जोरावर देश जिंकता येतात. 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site