TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ त्रयोदशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ त्रयोदशोsध्याय:
॥ नामधारक उवाच ॥
आसाद्य भगवान् भीमां तत: किमकरोत्प्रभु: ।
श्रद्दधानाय मे शंस दुर्ग्रहं तस्य चेष्टितम् ॥१॥
॥ सिद्ध उवाच ॥
गांधर्वनगरे भीमामरजासंगमे शुभे ।
कृष्णापंचनदीयोगतुल्ये तस्थौ जगत्प्रभु: ॥२॥
स्थित्वात्र गुप्तभावेन तत्रत्यब्राह्मणालयं ।
गत्वा भिक्षां ययाचेसौ भक्तोद्धरणहेतवे ॥३॥
दीनभाविकसद्विप्रदत्तभिक्षाप्रियं द्विजा: ।
श्रीविद्याढ्या हसंति स्म श्रीशं भक्तिप्रियं हरिं ॥४॥
यथार्के प्रसरत्यभ्रछन्नेपि द्योत इद्यथा ।
सम्पुटस्थितकस्तूरीगन्धस्तद्वद्धरेर्गुणा: ॥५॥
एकदा दीनविप्रस्य गेहे च्युतरदां वशां ।
महिषीं प्रेक्ष्य स प्राह ब्राह्मणीं देहि मे पय: ॥६॥
सा प्राहेयं वशा भारवाहिनी नासिकागुणा ।
योगक्षेममितोस्माकं जन्मतोsपि लुलायवत् ॥७॥
मृषा मा वद तां दुग्ध्वा क्षीरं देहीति भाषिता ।
गुरुणापि वशां दुग्ध्वा काष्ठापात्रेलभत्पय: ॥८॥
विस्मिता सार्पयत्तस्मै कोष्णं कृत्वा पयो म्रुदा ।
पीत्वा क्षीरं ययौ प्रेम्णा श्रीगुरु: संगमं द्रुतम् ॥९॥
तत एत्य गृहेशोsद: श्रुत्वा सस्त्रीक एत्य तं ।
गुरुं सम्पूज्य लब्धेष्टवरो हृष्टोन्वगाद्गृहं ॥१०॥
अन्येद्युर्भारवाहार्थं वशामाहर्तुमागता: ।
कृषीवला: प्रेक्ष्य दोहं शशसुर्द्राङ् नृपाय तत् ॥११॥
नृपोप्याकर्ण्य़ विप्रात्तच्चतुरंगबलान्वित: ।
गुर्वर्थं राजचिन्हानि गृहीत्वा संगमं ययौ ॥१२॥
तमेत्य प्रणिपत्योचे दण्डवद्गद्गदाक्षर: ।
पुलकांकितदेहो राड् दीनं माम्पाहि किंकरम् ॥१३॥
॥ श्रीगुरुरुवाच ॥
दण्डी वनचरोस्म्यंग भिक्षुस्त्वं सेनया सह ।
राजन्कस्मादिहानन्दसंरंभादागतोसि किम् ॥१४॥
॥ राजोवाच ॥
भवान्मायानरो भिक्षुर्नैवास्ति परमेश्वर ।
हित्वारण्यविहारं भो पावनं कुरु मे पुरं ॥१५॥
इत्थं श्रुत्वा सकारुण्यमुदारं वाक्यमच्युत: ।
तथेत्युक्त्वाययौ प्रेम्णा पुरं पावनपावन: ॥१६॥
भेजे छत्रप्रकीर्णै राट् पादचारी सुखासने ।
उपवेश्य गुरुं विप्रवाहिते तूर्यनि:स्वनै: ॥१७॥
वेदघोषं द्विजाश्चक्रुर्मागधा: स्तोत्रमुत्तमं ।
जयघोष तथाप्यन्य एवं गोपुरमागत: ॥१८॥
गुरु: प्रत्यक्पथं पुर्या एत्याsश्वत्थे भयंकरम् ।
स ब्रह्मराक्षसं शक्रं ददर्शातींद्रिय: प्रभु: ॥१९॥
तद्दर्शनान्नराद्भूत्वा प्रशांतो ह्यवरुह्य स: ।
गुरुं नत्वोद्धर हरे कुयोनेर्मेत्युवाच तं ॥२०॥
करस्तन्मूर्घ्नि विन्यस्तो गुरुणाथाभवन्नृवत् ।
तमाह संगमस्नानाच्छीघ्रं मुक्तो भविष्यसि ॥२१॥
इति श्रुत्वा नमस्कृत्य गुरुं स्नात्वा स संगमे ।
विहाय भौतिकं कायं मुमुचे कर्मबन्धनात् ॥२२॥
दृष्ट्वेदं राडभिष्टूय तस्मा आम्रेडितोक्तिभि: ।
पुरं नीत्वा सुमठिकां निर्मायास्मा उपानयत् ॥२३॥
खेदं विनयते स्मेशपूजारार्तिकगायनै: ।
घोरं सांसारिकं प्रेम्णा नित्यं तदनुगो नृप: ॥२४॥
आह्निकं संगमे भिक्षां ग्रामे निवसतिं मठे ।
स कृत्वा भक्तवात्सल्याद्राण्निघ्नो भगवानभूत् ॥२५॥
श्रुत्वाश्रमानर्हचेष्टामस्यामंस्ताल्पधीर्यति: ।
भ्रष्टोयं दाम्भिक इति तं त्रिविक्रमभारती ॥२६॥
तज्ज्ञात्वाशेषहृत्संस्थ: सर्वसाक्षी जगत्प्रभु: ।
भूपं प्राहाद्य गन्तव्यं निन्दकार्दनहेतवे ॥२७॥
मन्निन्दकोस्ति कुमसीग्रामे भिक्षुस्त्रिविक्रम:
इति श्रुत्वा नृपो हृष्टो गमनायोपचक्रमे ॥२८॥
सुपालके तूपवेश्य नृपचिन्है: परिष्कृतं ।
श्रीगुरुं कुमसीग्रामं निन्ये राड् यत्र भारती ॥२९॥
नृसिंहध्याननिष्ठोपि स तदा योगिमायया ।
सम्भूय चंचलमना आजर्‍हे स्तोतुमीश्वरं ॥३०॥
सुप्रसन्न नृसिंहेश दयाब्धे भक्तभावन ।
कस्मात्तेद्य न सामीप्यं ध्याने स्तोष्ये दयस्व भो: ॥३१॥
स्तुत्वैवं स नदीतीरे ध्यानाज्ज्ञात्वा स्थितं विभुं ।
त्रस्तचित्तोभ्यगाद्द्रष्टुमचिंत्याव्यक्तविग्रहं ॥३२॥
त्रिविक्रमो जवेनैत्य योगिमायावृतांतर: ।
उच्चावचान्यतीन् दृष्ट्वा भूरिशो मोहमाप स: ॥३३॥
व्यालोकि परितस्तेन सर्वे संन्यासिरूपिण: ।
ज्यायांसोपि कनीयांस: प्रशांता दण्डिनोमिता: ॥३४॥
आहेशो विस्मितं तं यं धिक्करोष्यस्मि दाम्भिक: ।
भ्रष्ट: स इन्मयोद्भाव्य मायामसि परीक्षित: ॥३५॥
नृसिंहचिन्तकोसि त्वं यतिधर्मसुशिक्षित: ।
संन्यांसी लोकविज्ञात: संन्यस्तं ब्रूहि किं त्वया ॥३६॥
न्यस्तसूत्रशिखो दण्डी रागद्वेषाकुलांतर: ।
वेषानुकारी संन्यासी धर्मज्ञो वा भवेदपि ॥३७॥
दम्भिलक्षणजिज्ञासुरागतोस्म्यद्य कृत्स्नश: ।
त्वं नृसिंहप्रसादेन विद्वंस्तद्वक्तुमर्हसि ॥३८॥
॥ त्रिविक्रम उवाच ॥
प्रत्याहतमतिस्तेस्मि भगवन्नीश मायया ।
नापि ववतुं हृषीकेश शक्य: पाहि दयानिधे ॥३९॥
प्रपन्नोस्मि क्षमस्वेश मंतून्मे ध्यानपुण्यत: ।
साक्षाद्दृष्टं हि ते धाम नृसिंहोसि दयस्व भो: ॥४०॥
इति स्तुवति तस्मिन्स भगवान्पूर्वरूपत: ।
प्रादुरासीत्तथाप्यन्ये सैन्या मंत्री नृपं स्फुटं ॥४१॥
सैन्यमध्ये स्थितं भूपवीजितं च त्रिविक्रम: ।
विश्वरूपं स्वनेत्रेण न शशाकापि वीक्षितुम् ॥४२॥
तमाह दुर्निरीक्ष्यं मे रूपं दिव्यदृशापि ते ।
दर्शितं ध्यानहृष्टेन धामाथो पश्य लौकिकं ॥४३॥
तत: प्रशांतसंन्यासिरूपेणावस्थितं हरिं ।
दृष्ट्वा प्रकृतिग: प्राह भगवंत त्रिविक्रम: ॥४४॥
कायेन मनसा वाचा केवलैरिंद्रियैरपि ।
असत्कृतोसि विश्वात्मन्मया त्वां क्षामयेद्य तत् ॥४५॥
धन्योस्म्यनुगहीतोस्मि कृतकार्योस्मि दर्शनात् ।
रूपं पुरार्जुनायेदं दर्शितं मेद्य तत्पुन: ॥४६॥
हरेविद्याप्रवाहे मां मज्जन्तं ज्ञाननौकया ।
कृपामरुत्संगतया स्वात्मरूपतटं नय ॥४७॥
तीर्त्वाsविद्यानदीं ज्ञानप्लवेन परमं पदं ।
द्राग्यास्यत्रैव तिष्ठेति तमुक्त्वा श्रीगुरुर्ययौ ॥३८॥
क्षणात्ससैन्यभूपेन साकमेत्य मठं प्रभु: ।
कर्ममार्गं ततानेशश्चिकीर्षुर्लोकसंग्रहं ॥४९॥
इति श्रीगुरु० भीमामरजासंगमनिवासो० त्रयोदशोsध्याय: ॥१३॥

Translation - भाषांतर

References : N/A
Last Updated : 2016-12-16T21:09:34.0600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

दुनन

  • क्रि.वि. ( व . ) दुसर्‍याने ; दुसर्‍यांदा . [ सं . द्विगुण ] 
RANDOM WORD

Did you know?

विवाह जमवतांना गुणमेलनाचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site