TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ विंशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी देवदेवतांवी स्तुती केली आहे, अशी क्वचितच् इतरांनी कोणी केली असेल.


अथ विंशोsध्याय:
॥ नामधारक उवाच ॥
को मत्पूर्व: कथं तेन सेवितो भगवान्प्रभु: ।
यत्प्रभावान्ममेदृग्धीस्तच्छ्रोतुं सादरोस्म्यहं ॥१॥
॥ सिद्ध उवाच ॥
प्रागुक्तं यवनात् त्रात: सायंदेव इति प्रिय ।
पूर्व: स एव तेश्रोषीद्गुरुं गंधर्वपू:स्थितं ॥२॥
तत्रैत्य प्रणतो विप्रो मथे दृष्ट्वा परात्परं ।
नत्वा दंडवदस्तौषीदुपसंगृह्य पद्द्वयं ॥३॥
परमात्मन्परंज्योति: श्रीनृसिंहसरस्वति ।
भक्तेश श्रुतिचिंत्यं ते सर्वतीर्थाश्रयं पदं ॥४॥
न मर्त्यस्त्वं महेशोसि त्रय्यात्मा मानवाकृति: ।
प्राणदानक्षमांब्वाढ्यकमंडलुकरोसि क: ॥५॥
दुष्टनिग्रहसद्रक्षाक्षमदंडकरोस्यज: ।
शिवोसि मुक्तिद: पापतापनाशक्षमोग्रदृक् ॥६॥
मृतो जीवितो येन दुग्धा लुलायी वशा शुष्ककाष्ठं तरुत्वं प्रणीतं ।
क्षणादंत्यजोप्युद्धृतस्तेनुभावं क्षितौ कोर्है ज्ञातुमन्यत्तवापि ॥७॥
॥ श्रीगुरुरुवाच ॥
स्तुत्यानयास्मि ते विप्र भृशं तोषमुपागत: ।
भूयात्ते वंशमात्रस्य श्रद्धाभक्तिर्मयि ध्रुवा ॥८॥
कच्चित्क्षेमं युवत्यादेस्तव ब्रूहि क्क तिष्ठसि ।
कालेन बहुना विप्र संगतोस्यद्य मत्प्रिय ॥९॥
॥ सायंदेव उवाच ॥
देव देव जगन्नाथ भगवन्त्वत्प्रसादत: ।
सर्वेषां क्षेममस्तीश कांच्यां तिष्ठाम्यहं स्वकै: ॥१०॥
योगक्षेमेक्षका भ्रातृपुत्रा मे तेनुकंपया ।
त्वत्पादाब्जरसं पातुमलिप्रायोस्मि संप्रति ॥११॥
॥ श्रीगुरुरुवाच ॥
कष्टं मे सेवनं नाज्ञ कोपि ज्ञातुं न शक्यते ।
ग्रामे नदीतटेरण्ये दुर्गमेपि वसाम्यहम् ॥१२॥
तच्छ्रुत्वा सोनुयास्यामि यत्र क्कापीत्थमाददे ।
तथेत्युक्त्वैकदा शंभुस्तेनागात्सह संगमम् ॥१३॥
निवार्यान्यान्समं तेन स्थित्वाश्वत्थतले निशि ।
वृष्टयै तदादिदेशाब्दमकालेपि परीक्षितुं ॥१४॥
गर्जिताब्दो ववर्षारं झंझावातसखस्तदा ।
क्षणप्रभापि मुष्णंती दृष्टिमासीदनुक्षणम् ॥१५॥
उपर्युपरि वस्त्रैस्तं समंस्तात्स प्रकंपितम् ।
सहिष्णु: श्रीगुरुं भेज आसारार्तिरणद्द्विज: ॥१६॥
यामाभ्यां खंडितं वर्षं दृष्ट्वोचे तं गुरु: पुरम् ।
गत्वाग्निमानयात्यंतं क्लिन्नांगे शीतमुत्थितम् ॥१७॥
कुत्रापीतस्ततोपश्यन्याहि मामनुचिंतयन् ।
तच्छ्रुत्वागात्स करकचूर्णितांगोपि शीकरै: ॥१८॥
क्लेदितात्माप्यनुध्यायन् चंचलातेजसोयनम् ।
प्रविश्य गोपुराद्द्वा:स्थदत्तमार्ग: पुरं स तु ॥१९॥
गृहीतभाजनं न्यस्तवह्नि: शीघ्रं न्यवर्तत ।
ज्ञातुं गुरूक्तिहेतुं स व्यधाद्दृष्टिमितस्तत: ॥२०॥
पार्श्वद्वयतलस्थोग्रसर्पौ दृष्ट्वागमज्जवात् ।
दृष्ट्वानुयातावपि तौ भीतो दध्यौ हरे: पदं ॥२१॥
तदोच्चै: सङ्गमे वेदध्वनिं श्रुत्वा विलोक्य च ।
द्योतं भ्रांतो द्रुतं प्राप्य दृष्ट्वैकं स्वगतं द्विज: ॥२२॥
कै: कृतोयं ध्वनिर्द्योत: क्केत्यभूच्छंकित: स तं ।
भीतं प्राह गुरुर्माभीस्त्वद्गुप्त्यै तौ प्रचोदितौ ॥२३॥
तदाप्यही गुरुं नत्वा जग्मतुस्तं प्रभुर्द्विजम् ।
प्राहेदृशी गुरो: सेवा मरुतामपि दुष्करा ॥२४॥
॥ सायंदेव उवाच ॥
भगवन्ननुकंपाब्धे शरणागतवत्सल ।
सेवातत्त्वमुपाख्याहि श्रीगुरोस्तारकं परम् ॥२५॥
॥ श्रीगुरुरुवाच ॥
छायौपम्येन संसेव्यो गुरुस्तत्त्वमिदं परं ।
प्रार्पयेन्नियतं देहं सार्थं तस्मै परात्मदृक् ॥२६॥
सर्वभावेन बुद्ध्वेशं तं भजेत्तत्प्रसादभुक् ।
तद्ध्यानजीवनस्तत्पत्तीर्थपस्तत्कथारति: ॥२७॥
दु:साध्येपि यदादिष्ट: कार्ये भक्त्या तदारभेत् ।
आरब्धं स नयेत्सिद्धिं भीत: कालोप्यपैत्यत: ॥२८॥
श्रृणु गौरीशसंवादं ब्राह्मस्त्वष्टाभजद्गुरुं ।
विद्यार्थी सर्वभावात्तद्दार्ढ्यं ज्ञातुं गुरुर्जगौ ॥२९॥
वर्षास्वाप: पतंत्यत्र प्रत्यब्दमुटजे त्वत: ।
रचयैकं गृहं रम्यं सुखदं नूत्नवत्सदा ॥३०॥
शिष्यं तदाश्रुत्य यांतं गुरुस्त्री: प्राह कंचुकं ।
देहि मेंगमितं चित्रं मनोहरमक्रुत्रिमम् ॥३१॥
पुत्रोप्याहांघ्रियोग्ये मे पादुके देहि येंभसि ।
गर्तेपि यातु: सुखदे चिंतितस्थलनायके ॥३२॥
कन्याह कुंडले दन्तिदन्तभूतं प्रदेहि मे ।
लसत्क्रीडागृहं चैकस्तंभं पुत्तलिका अपि ॥३३॥
सचेतना: सदा येषु पाक: शैत्यं न यास्यति ।
अनंजनस्पृग्भांडानीत्याकर्ण्य स ययौ वनम् ॥३४॥
अज्ञोस्म्यप्यत्र गुर्वर्थं मर्तव्यमिति तं वने ।
निर्विण्णमाययौ कश्चिदवधूतो दयार्द्रधी: ॥३५॥
व्यपेतभी: प्रहृष्टात्मा गुरुभावनया स तम् ।
उपसंगृह्य तत्तस्मै शशंस गुरुभाषितम् ॥३६॥
तमाश्वास्याब्रवीत्साधु: काशीक्षेत्रे त्वभीष्टदे ।
सति जाग्रति विश्वेशे किं केषां दुर्लभं वद ॥३७॥
तत्रत्यपुण्यं को वेत्ति तद्वास्युद्वीक्षणादपि ।
अपैत्यघौघ: किं वाच्यं सुखमानन्दकानने ॥३८॥
पुमर्थदोपि विश्वेश: प्राणिमात्रं मृतं क्षणात् ।
स तारकोपदेशेन दत्ते मुक्तिमनुक्षणं ॥३९॥
॥ शिष्य उवाच ॥
क्कास्ते काशी क्क विश्वेशो जाने स्वर्भुवि वा न तत् ।
प्रार्थये तारकं त्वां मे दर्शयाज्ञोस्मि केवलं ॥४०॥
स प्राह त्वां नयाम्यद्य त्वद्योगात्क्षेत्रदर्शनं ।
स्यान्मेप्ययत्नतो जन्मसाफल्यं यद्यदीक्षणात् ॥४१॥
तमादाय ततो योगगत्या शीघ्रं महामुनि: ।
काशीं गत्वा क्षेत्रयात्रां यथाक्रममुपादिशत् ॥४२॥
विश्वेशदर्शनं चांतर्गृहयात्रां यथाक्रमं ।
दक्षिणोदङ्मानसाख्यां पंचक्रोशीं च विस्तरात् ॥४३॥
स्नानदानार्चनश्राद्धयुक्तां यात्रां च पाक्षिकीं ।
भवानीशो हरिर्धुंडिर्दंडपाणिश्च भैरव: ॥४४॥
गुह: काशी च गङ्गाद्या देवा लिंगानि सर्वश: ।
इत्यादीनां पूजनं च निवेद्य स्थापनं तथा ॥४५॥
स्वनामांकितलिंगस्य कथयित्वा यथोक्तवत् ।
कुरु प्रसीदीद्विश्वेश इत्युक्त्वांतर्दधे स्वयं ॥४६॥
मद्भावस्य परीक्षायै गुरू रूपांतरादयं ।
प्राप्त: किलेति मत्वा स यथानिर्दिष्टमाचरत् ॥४७॥
चतित्वा क्षेत्रयात्रां स लिंगं संस्थापयत्तदा ।
विश्वेशो दर्शयित्वा स्वं रूपं प्रीतोब्रवीदिदम् ॥४८॥
वत्स वत्स पवित्रोसि गुरुभक्त्या विशुद्धया ।
धन्योस्यनुगृहीतोसि वृणीष्वाभीप्सितं वरं ॥४९॥
शिष्योपि गुरुतत्पत्नीपुत्रोक्तीस्तं तदाब्रवीत् ।
कलाविद्यापटुर्भूत्वा ज्ञानविज्ञानवानिह ॥५०॥
प्रसार्य क्कापि चातुर्यं लोकख्यातो भविष्यसि ।
इत्युक्त्वान्तर्दधे विश्वेट् तत: सोप्याययौ गुरुं ॥५१॥
याचिताखिलवस्तूनि श्रीविश्वेशप्रसादत: ।
निर्मायादात्कृती तेन गुरुस्तुष्टस्तमब्रवीत् ॥५२॥
भूत्वा ज्योतींषि यावत्त्वं चिरजीवी प्रसार्य सत् ।
चातुर्यं सर्वलोकेपु त्वं स्रष्टेवापरो भव ॥५३॥
तव सर्वर्धिनिधयो वशाश्चिंताव्यथादिका: ।
न स्पृशन्ति कदापि त्वां प्रसादोयं मम ध्रुव: ॥५४॥
तत: प्रस्थापयामास तं स्वस्थानमुपेत्य स: ।
भूत्वा गुरूक्तवध्द्यास्ते श्रीमंस्त्वष्टाखिलश्रुत: ॥५५॥
इति गौर्यै शिवेनोक्तं सेवातत्वं त्विदं गुरो: ।
तदुक्ताचरणं भक्त्या सर्वभावात्तदर्चनम् ॥५६॥
एतावदुक्त्वा विरते गुरौ द्विजो नत्वाब्रवीदद्य विचित्रमीक्षितं ।
काशीपुरं वै भवता सहाखिलं यद्यत्समाख्यातमवेक्षितं समं ॥५७॥
क्वाहं क्क काशी क्क भवांस्तथापि वा अदृष्टपूर्वं सकलं प्रदर्शितं ।
न त्वं नरो नासि सुरो न चेतरो नूनं परात्मैव परावरोस्यज: ॥५८॥
प्राग्ब्रह्म त्वमजोक्रियोपि बहुलं स्यामित्यभूद्धेस्तया ।
सृष्ट्वैवांडभुवं ततो जगदिदं सृष्टं सधर्मं गुणै: ॥
स्वै: स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशं ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥५९॥
कल्याकृष्टह्रुदुझ्झितक्रतुनरत्रस्ताध्वराशीर्मुदे ।
प्रात: सूर्य इवोदितोस्यज महामोहांधकारं ग्रसन् ॥
सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यं नयन् ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥६०॥
सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् ।
प्रादुष्कृत्य जनत्रयांतरमृगक्रीडावनं पावनं ॥
संसारवटमग्नमुद्धरसि भो स्वीकृत्य तुर्याश्रमं ।
वंदे श्रीन्रुहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥६१॥
मूके गां दृशमंधके सुतनयं वंध्यासु चासून्मृते ।
सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुष्केंधने ॥
एवंभूत इयान्तवैष महिमा त्रैलोक्यसंस्थाक्षमो ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥६२॥
मुक्तावास मुमुक्षुकल्पविटपिन्भो कामिनां कामधुग् ।
दारिद्रानलमेघ दुष्कृतदवाग्ने तापिताराम ते ॥
श्रुत्यन्विष्टरज:पदं श्रुतविवादातीततत्वं महत् ।
वंदे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥६३॥
भो योगीश्वरभावितं तव पदं तीर्थाश्रयं सज्जना -
जीवं कामिसुदैवतं च कमलालीलास्थलं निर्मलं ॥
विद्वद्वादकरंडकं सुकृतसंस्थानं महत्पावनं ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥६४॥
वेदागोचर ते चरित्रममलं शक्तोत्र क: कृत्स्नशो ।
वक्तुं वन्ह्यबिनेंदुभूखपवनात्मेतीह मूर्त्यष्टकम् ॥
एतद्विश्वमयं न चान्यदिह वा ॐकाररूपेशित -
र्वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥६५॥
कुण्डीदण्डकरं प्रशांतममलं संन्यासिरूपं तव ।
श्रीभीमामरजायुतिस्थितमज ध्येयं शरण्यं मयि ॥
ज्ञातं तारकमीश सत्यमनिशं ब्रह्मन्स्थिरीकुर्वदो ।
वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥६६॥
एवं स्तुवंतं प्रभुराह तेर्पिता तुष्टेन भक्तिर्मयि खल्वहैतुकी ।
भो पुत्रपौत्रादिसमस्तवंशजा भक्ता भविष्यन्ति ममैव निश्चितम् ॥६७॥
इत:परं म्लेच्छनिषेवणं जहि स्त्रिया सुतैश्चात्र सदैव तिष्ठ भो: । द्विजोपि गत्वा गृहमानयत्स्त्रियं सुतांश्च तुष्टाव जगद्गुरुं पुन: ॥६८॥
त्वं वाच्यवाचकतयेश जगन्मयो वा ॐकारवाच्य भगवन् त्रिगुणात्मकोसि । आद्यंतवर्जित पुराकृतभागधेयाद्दृष्टं त्विदन्तव परात्परसत्त्वरूपं ॥६९॥
पापोपि पूतोस्मि तवांघ्रिसंश्रयात्स्पर्शाश्रयाल्लोहमपीव कांचनं । तप्तोपि शांतोस्मि मुखेंदुदर्शनाद्दीनोपि धन्योस्मि तव प्रसादत: ॥७०॥
स्तुत्वैवं श्रीगुरुं हृष्ट: कारनाटकभाषया ।
आवतारकथोद्धातं जगौ तस्य यथाक्रमं ॥७१॥
भगवान्तेन तुष्ट: सन्दत्वेष्टं वरमाह तं ।
अयं ज्येष्ठसुतो मान्यो धन्यस्ते मेतिवल्लभ: ॥७२॥
इत्युक्त्वा नागनाथस्य मूर्ध्न्यधाच्छंकरं करं ।
तदैव गीष्पतिसमो वक्ता ज्ञाता बभूव स: ॥७३॥
सद्गुरु: प्राह विप्रं ते भार्येयं सुभगा सती ।
चतुरश्चतुरान्पुत्रान्लभेत्त्वमपि भाग्यभाक् ॥७४॥
इत: परं म्लेच्छलब्धवृत्तिं हित्वा कुटुंबयुक् ।
तिष्ठात्रैव तव श्रेयो भवेन्मे सुप्रसादत: ॥७५॥
स्नात्वा स्वकै: सह तिथौ भाद्रशुद्धचतुर्दशे ।
अनन्तव्रतमस्त्यद्य तारकं तत्त्वमाचर ॥७६॥
धर्म: कृष्णोपदेशेन चरित्वा यद्व्रतं महत् ।
दिव्यं सौख्यं सार्वभौमं भुक्त्वागात्सतनुर्दिवं ॥७७॥
॥ सायंदेव उवाच ॥
भवान्देवोस्ति नोनंतो भवत्सेवाव्रतं परम् ।
तथापि श्रोतुमिच्छामि को धर्म: कीदृशं व्रतम् ॥८७॥
॥ श्रीगुरुरुवाच ॥
धर्मोभूत्पांडवो राजा तत्सदस्यां सुयोधन: ।
मायाभ्रांत्यापतन्मानी व्रीडितो जनहास्यत: ॥७९॥
जित्वा द्यूतमिषाद्धर्मं हृततच्छ्री: स सानुजम् ।
वनाय प्रेरयत्सोपि तत्र गत्वा सदु:खित: ॥८०॥
स एकदागतं कृष्णं नत्वा सस्त्र्यनुजोब्रवीत् ।
त्वंन्नस्त्रातेति बिरुदं वहन्नोsकं न वेत्सि किं ॥८१॥
॥ श्रीकृष्ण उवाच ॥
बलवद्दैवमपि मां भजतां नेक्षते सदा ।
त्वं मद्भक्तोपि मद्वाक्यात्कुर्वनन्तव्रतं महत् ॥८२॥
कोनंतस्तद्व्रतं कीदृक्पुरा केन कृतं वद ।
इति धर्मानुयोगं स श्रुत्वा वक्तुं प्रचक्रमे ॥८३॥
चराचरजगत्कालभूताद्यात्माप्यहं विभु: ।
कर्मप्रयोजनगुणैर्भूपानन्तोस्म्यहं पृथक् ॥८४॥
भाद्रशुक्लचतुर्दश्यामनंतव्रतमुत्तमं ।
व्रतिनोनंतफलदं तत्कुर्विष्टमवाप्स्यसि ॥८५॥
ऋषि: सुमंतु: प्रागासीद्वासिष्ठो गौतमीपति: ।
तत्स्त्री: कन्यां प्रसूयैकां मृतान्योद्वाहितामुना ॥८६॥
सा दु:शीला कलिद्वेषप्रिया चण्डी पतिं सुताम् ।
क्रूरा तौ त्रासयामास कन्यापि ववृधे शुभा ॥८७॥
चित्रक्रियापटुं सोदात्सच्छीलगुणलक्षणां ।
कौंडिण्याय स्वगृह्योक्तब्राम्होद्वाहविधानत: ॥८८॥
तत्र श्वशुरवात्सल्यात्स्थित्वा मासद्वयं मुनि: ।
श्वश्रूत्रस्तो ययौ वध्वा कौंडिण्य: श्वशुराज्ञया ॥८९॥
चण्ड्याररं दृढं बध्वा पाथेयं नार्पितं स तु ।
प्रादाद्बहिस्थगोधूमपुलाकं तौ ततो गतौ ॥९०॥
मध्याह्ने तस्थतुर्नद्यां चिरंटी: प्रेक्ष्य तत्र सा ।
गत्वार्चयन्ती: प्राहेदं युष्माभि: क्रियते किमु ॥९१॥
॥ स्त्रिय ऊचु: ॥
भाद्रशुद्धचतुर्दश्यामद्यानंतव्रतं श्रृणु ।
स्नात्वा रक्तांबरं धृत्वा रक्तसूत्रे चतुर्दश ॥९२॥
ग्रंथीन्बध्वा सप्तफणदर्भशेषे निधाय तं ।
कुंभोपरि चतुर्बाहुं ध्यात्वानन्तं प्रपूज्य च ॥९३॥
दत्वा चतुर्दशापूपान् ब्रह्मणे जीर्णदोरकं ।
विसृज्य दत्वा नूत्नं स्वे बध्वा हस्ते च दंपती ॥९४॥
संतर्प्याब्दे घटान्दद्याच्चतुर्दश चतुर्दशे ।
प्रत्यब्दं पूजयेद्भक्त्या वरं नात: परं व्रतं ॥९५॥
कुर्वदोभीष्टदमपि प्रोक्त्वास्यै दोरकं ददु: ।
सापि तत्र व्रतं कृत्वा पतिं प्राप सदोरका ॥९६॥
ततो यांतौ धनी कश्चिद्ग्रामं नीत्वा श्रियं ददौ ।
तरानंतप्रसादात्तौ श्रीमानाढ्यौ बभूवतु: ॥९७॥
दोरं दृष्ट्वैकदाग्नौ स जहौ मत्वा वशीकृतिं ।
श्रीदानंतं न त्यजेति वारितोपि तया ऋषि: ॥९८॥
तदाहृताग्न्यरिभ्य: श्रीस्ततोनंतं स्मरन्नटन् ।
वनेनंत: क्केति स गोद्रुगा: पृष्ट्वाप कश्मलं ॥९९॥
तस्मै नीत्वा वृद्धविप्ररूपेण पुरमद्भुतं ।
स्वं रूपं दर्शयामास तुष्टावानंतमप्यसौ ॥१००॥
जय सर्वेश्वरानंत विश्वव्यापिन्जनार्दन ॥
त्वन्मायामोहितधिया कृतान्मंतून्क्षमस्व मे ॥१०१॥
॥ श्रीमदनंत उवाच ॥
न दैन्यं दुष्कृतं तेत्र श्रियं भुक्त्वा पुनर्वसु: ।
नक्षत्रेषु प्रसादान्मे भविष्यसि महामुने ॥१०२॥
॥ ऋषिरुवाच ॥
केपि सत्फलिताम्रस्य फलं नाश्नंति गोर्मुखे ।
तृणं नैति पशोश्चापि स्वाद्वप्पूर्णे सरोवरए ॥१०३॥
जीवास्पृष्टेग्रतो दीनौ खरेभौ च द्विजो जरन् ।
एते दृष्टा मयैतेषां कुतोभूदीदृशी स्थिति: ॥१०४॥
॥ श्रीमदनंत उवाच ॥
शिश्यान्नापाठयन्मत्तो विद्वांस्तेनाम्र ईदृश: ।
गौर्जाता मोघभूदानाद्वृषोsदाताभवद्धनी ॥१०५॥
अन्योन्यदानग्रहणादीदृश्यौ स्त: सरस्युभे ।
खर: क्रोधीभो मदी च द्विजोहं तेपि मोचिता: ॥१०६॥
इति लब्धवरोनंतं नत्वैत्य स तथाभवत् ।
तस्माद्व्रतोत्तमं धर्म व्रतं चर हितं भवेत् ॥१०७॥
इति कृष्णोब्रवीत्सोपि व्रतं कृत्वा हताहित: ।
अकण्टकं चिरं राज्यमृद्धं भुक्त्वामृतं ययौ ॥१०८॥
त्वमप्याचर विप्रेदमत्रामुत्रापि सौख्यदं ।
इत्युक्त: प्रभुणानंतव्रतं चक्रे द्विजोत्तम: ॥१०९॥
तत्र स्थित्वा स्वकै: सार्धं प्रेत्य सायुज्यमाप्तवान् ।
तद्वंशजा अपि गुरो: प्रसादात्तादृशोभवन् ॥११०॥
त्वमपीदृक्तत्प्रसादाद्भक्तिमानसि सद्गुरौ ।
मा भीस्तरीष्यसि भवं म्रुगतृष्णोपमं द्रुतं ॥१११॥
इति० भक्तिवर्णनं नाम द्वितीयोध्याय: ॥
आ० विंशोध्याय: ॥२०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.4670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जसो

  • ( राजा . ) जशा - जसा . 
RANDOM WORD

Did you know?

"Maruti namaskar"
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.