TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ दशमोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ दशमोsध्याय:
॥ नामधारक उवाच ॥
शिष्यांस्तु तीर्थयात्रायै प्रेरयित्वा स्वयं कुह ।
उवास भगवान्ब्रूहि श्रोतुमिच्छामि सादरम् ॥१॥
सिद्ध उवाच
संवत्सरं वैद्यनाथसमीपमकरोद्विभु: ।
निवासमहमप्येतत्पादाब्जभ्रमरोभवम् ॥२॥
तत्रैत्यैको द्विजो मन्दो नमस्कृत्याब्रवीद्गुरुम् ।
प्रपद्ये भगवंस्त्वां मे मोक्शोपायमुपादिश ॥३॥
मया तु सिद्धये कष्टं भूर्यकारि तथापि मे ।
नाप्ता सिद्धिर्नोपलब्ध: सन्मार्गप्रापको गुरु: ॥४॥
कथं गुरुं विना वत्स सिद्धये केन योजित: ।
कस्याज्ञया कृतं कष्टमित्याकर्ण्य द्विजोब्रवीत् ॥५॥
सिद्धयै मया गुरु: कश्चिछ्रितश्चण्ड: स तु प्रभो ।
सेवार्थी पीडयामास ततस्त्यक्त: स वै मया ॥६॥
श्रीगुरुरुवाच
हन्तासाधु कृतं धिक्त्वां गच्छेत: सत्वरं यत: ।
गुरुद्रोह्यास्यावलोको न भद्राय कथंचन ॥७॥
प्रणिपातपरिप्रश्नसेवाधर्मपरड्मुखे ।
कुतो गुरुक्रुपालेशस्तद्वत्येव प्रसन्नता ॥८॥
द्विज उवाच
कथं ज्ञेय: कथं सेव्यो गुरुस्तन्मे वदाखिलम् ।
अजानता गुरुद्रोह: कृतोतो मोद्धर प्रभो ॥९॥
श्रीगुरुरुवाच
गुरुर्निरुपम: साक्षाद्ब्रह्मविष्णुशिवात्मक: ।
सोज्ञेयस्त्वादृशैरंधैस्तद्वत्सेवापि सद्गुरो: ॥१०॥
एतदर्थं पुरावृत्तं शृणु धौम्याभिधो मुनि: ।
द्वापरेभूत्त्रयश्छात्रा आसन्तस्यांग तत्परा: ॥११॥
वैदारुणोपमन्य्वाख्या: सेवाधर्मसुशिक्षिता: ।
तेषां परीक्षितुं भावं गुरु: प्राह दयार्द्रधी: ॥१२॥
मच्छालेयेंब्वभावोस्ति जीवेत्सस्यमत: कुत: ।
गत्वा व: कोपि यत्नेन क्षेत्रमंब्वानयत्वरं ॥१३॥
श्रुत्वै वमरुणोह्नाय गत्वा क्षेत्रसमीपत: ।
जलमानीय यत्नेन पल्वलात्क्षेत्रमुन्नतं ॥१४॥
दृष्ट्वाकरोत्क्षेत्रतुल्यं वारिवारणमाशु तत् ।
जलप्रवाह: सहसा क्षेत्रादन्यत्र निर्ययौ ॥१५॥
न्यस्तोपि पाषाणचय: स्थातुं तत्र शशाक नो ।
मन्ये क्षेत्रे जलाभावाद्गुरुर्मां धिक्करिष्यति ॥१६॥
गुर्वर्थमत्र मर्तव्यमिति मत्वोभयत्र स: ।
स्वांगं निधायोपरिष्टाज्जलै: क्षेत्रमपूरयत् ॥१७॥
धौम्योपि क्षेत्रमेत्यांबुपूर्णं शालेयमीक्ष्य स: ।
खिन्न: शिष्यमदृष्ट्वैहि वत्सेत्यावाहयन्मुदा ॥१८॥
प्रत्युत्तरं जलाक्तान्तरंगो दातुं स न क्षम: ।
किंचिद्ध्वनिं चकारासौ तच्छ्रुत्वैत्य ददर्श तम् ॥१९॥
कृपया परयोत्थाप्य भक्तिं ज्ञात्वास्य तत्क्षणं ।
तस्मिन्प्रसन्न: सम्भूय स्वीयं साम्यं व्यधान्मुनि: ॥२०॥
विद्याविनयसम्पन्नो भूत्वा सन्तोष्य सद्गुरुम् ।
तदाज्ञया ययौ धाम स्वमर्च्योभवदत्र स: ॥२१॥
ततो बैदं गुरु: प्राह सस्यं मे शिष्य सर्वत: ।
रक्षयित्वानु धान्यं तद्यत्नात्सर्वं समानय ॥२२॥
आज्ञा प्रमाणमित्युक्त्वा पशुपक्षिनिवारणै: ।
सस्यं ररक्ष पश्चात्तच्छित्त्वा धान्यं स निर्ममे ॥२३॥
शशंस गुरवे न्यस्तो धान्यराशिर्मया गुरो ।
क्षेत्रेत्रानेतुमेकं मे शकटं देहि सर्षभम् ॥२४॥
तच्छ्रुत्त्वा शकटं तस्मै सलिलायेन योजितम् ।
प्रददौ स तमादाय नीत्वा विन्यस्य चाखिलान् ॥२५॥
शालीनाहरदर्धाध्वं तत्र पंके सकासर: ।
संलग्नोभूत्स्वयं सोथ स्वकंठेयोजयद्युगम् ॥२६॥
सलुलाय: स शिष्यस्तु तत्र भारातिरेकत: ।
पपात तत्र सहसा धौम्य: प्राप यदृच्छया ॥२७॥
तत्कर्म प्रेक्ष्य घोरं तं मोचयित्वा प्रसन्नधी: ।
वरं तस्मै ददौ येन स परत्रात्र चोत्तम: ॥२८॥
अथोपमन्युमाहैष गाश्चरय सदेत्यथ ।
कतिकालं तथा चक्रे स्वल्पभुक्क्षुधितोभवत् ॥२९॥
वने विप्रालयान्प्रेक्ष्य स्वं पुपोषान्नयाञ्चया ।
पुष्टोसि कथमित्युक्तो गुरुणा तं न्यवेदयत् ॥३०॥
तन्मे देहीति गुरुणा भाषित: स तथाकरोत् ।
स पश्चाद्याञ्चयारक्षत्स्वं तद्वेदापि वै मुनि: ॥३१॥
द्विवारमर्पयेत्यूचे सच्छिष्योपि तथाकरोत् ।
पीत्वा ररक्ष गा दुग्धं वत्सपीतावशेषकं ॥३२॥
तज्ज्ञाता धीभ्रंशभिया वारितो गुरुणा वने ।
अर्कक्षीरं दधौ पातुं तत्तस्याक्ष्णो: पपात ह ॥३३॥
स पपातांधवद्गावो ययुर्गेहं गुरुस्तदा ।
अन्वेष्य तं तथा दृष्ट्वा तं प्राह स्तुहि रेश्विनौ ॥३४॥
सोश्विस्तवाद्दृष्टिमाप गुरुणा तदुपर्यपि ।
कृपा कृता तेन सोपि कुतकृत्योभवद्द्रुतम् ॥३५॥
तच्छिष्या अपि तत्तुल्या बभूवु: श्रृणु सादरम् ।
उद्दालकोस्य शिष्य: सन्सत्रेहीनदहद्बहून् ॥३६॥
जनमेजयतोषार्थं स्वर्गाच्छक्रं समानयत् ।
अयं गुरुप्रसादस्तत्तोषात्प्राप्यो न चान्यथा ॥३७॥
अतस्तमेव शरणं सर्वभावेन गच्छ भो: ।
तत्प्रसादात्परां शान्तिं मोक्षं प्राप्स्यसि दुर्लभम् ॥३८॥
॥ विप्र उवाच ॥
युज्यते भिन्नधात्वैक्यं न मुक्तायास्तथा हृद: ।
तद्धृद्भिन्नं न यास्येत: प्राणांस्त्यक्ष्यामि तेग्रत: ॥३९॥
इति तन्निश्चयं ज्ञत्वा के विन्यस्य करं गुरु: ।
तापदग्धाशुभस्यास्य प्राहांग स्वगुरुं स्मर ॥४०॥
द्विजोपि स्वगुरुं स्मृत्वा तत्स्वरूपमिव प्रबुम् ।
ददर्श श्रीगुरुं प्रेम्णा तुष्टाव स मुदश्रुयुक् ॥४१॥
तमाह प्रांजलिं विप्रं श्रीगुरुस्त्वं यथाक्रमम् ।
लघु निस्तीर्य कर्मौघं परां संसिद्धिमाप्स्यसि ॥४२॥
त्वया व्यालोकि रूपं मे यत्तद्भक्त्या स्मरन्क्रिया: ।
मदर्थ इत्सदासक्त: कुर्वन्सिद्धिमुपैष्यसि ॥४३॥
इति द्विजं तं निजरूपदर्शनात्सुदुर्लभस्वात्मसुखान्वितं प्रभु: ।
विधाय चैकं द्विजपुत्रमागतं समुद्दधाय च्छिजिह्नमप्यरं ॥४४॥
( क्षेपक: ) ये केचन श्रीगुरुमीशबुद्धया सन्तापदग्धैनस आव्रजन्ति ।
प्रच्छिद्य ते मोहसमूहमाशु स्वानन्दसौख्यं द्विजवत्प्रयान्ति ॥१॥
इति श्रीगुरु० गुरुभक्त्यनुशासनं नाम दशमोsध्याय: ॥१०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ordinary meeting

  • सामान्य सभा 
  • स्त्री. सामान्य सभा 
RANDOM WORD

Did you know?

मृतव्यक्तीच्या तेराव्याच्या जेवणात कोणकोणते पदार्थ करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site