TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ तृतीयोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ तृतीयोsध्याय:
॥ नामधारक उवाच ॥
त्रय्यात्मासौ कुतो जातो भूमौ नर इवेश्वर: ।
यं ब्रवीषि परं ब्रह्म तन्मे शुश्रूषवे वद ॥१॥
॥ सिद्ध उवाच ॥
धन्योस्यनुगहीतोसि यत्ते भक्तिरधोक्षजे ।
संजाता भवबंधघ्नी हर्षो मेतीव वर्धते ॥२॥
कोपि गां पर्यटंतं मां न पृच्छति गुरो: कथां ॥
त्वयाद्य भक्तचंद्रेण बोधाब्धिर्मे प्रपूरित: ॥३॥
अनंता: संत्यनंतस्य लीला: प्रश्नमृतेपि ता: ।
न वक्तुर्यांति निजधीपरिणामावधि स्मृतिं ॥४॥
कलौ तु नास्तिका मर्त्यास्तत्कथाश्रवणात्मकं ।
प्लवं तर्तुं भवाब्धिं नो विदुर्मज्जंत्यतोत्र ते ॥५॥
यत्रांब्ववित्तु तृष्णोर्मिर्ग्रहा: कामादयो ध्वनि: ।
भोगोपारेsत्र नौस्त्वेषा गुरुर्नेता कृपामरुत् ॥६॥
तस्माद्दिष्टया साधनानि प्राप्तान्यत्राप्ययत्नत: ।
तरिष्यसि भवाब्धिं स्रागतो वक्ष्ये कथा: श्रृणु ॥७॥
इत्युक्त्वामरजाभीमासंगमे ह्युपविश्य स: ।
गुर्वधिष्ठितकल्पद्रुमूलेस्मै प्राह सत्कथा: ॥८॥
मुमुक्षुभेषजं मुक्तजीवन विषयीष्टदं ।
श्रीगुरोश्चरितं वाघृद्दूरत्वाद्वच्मि तेल्पकम् ॥९॥
जगत्येकार्णवीभूते शेषतल्पश्रितोस्पृह: ।
नारायणो जगत्स्रष्टुं मायामुद्भाव्य सोंदजम् ॥१०॥
स्रष्टारं व्यसृजत्सृष्टयै सप्तर्षीन् सोपि मानसान् ।
तत्रैकोत्रिस्तपस्वीशो यस्याभूद्भगवान्सुत: ॥११॥
ऋषेरत्रेस्तपोर्थस्य पातिव्रत्यविभूषिता ।
आसीद्भार्यानसूयाख्या त्रिलोक्यां विश्रुता सती ॥१२॥
जातोर्वीं मृदुलार्काग्नी शीतौ मंदो मरुद्भिया ।
तस्या देवा: पदापायभ्रांत्याssपु: शरणं हरिं ॥१३॥
एकदा नारदोप्येत्य तद्धर्मान्ब्रम्हविष्ण्वजान् ।
प्राब्रवीन्नेदृशी साध्वी सर्वदाभ्यागतप्रिया ॥१४॥
इत्यृषेर्वाक्यमाकर्ण्य विषीदंत्य उपस्थिता: ।
तद्देव्योsसहमाना द्राग्बभूवुर्मूर्छिता भृशं ॥१५॥
पतिव्रतामानिनीस्ता: सावित्रीश्रीश्वरीस्त्रय: ।
आश्वास्यातिथिवद्भूत्वा रोषाच्छप्तुं सतीं ययु: ॥१६॥
पतिव्रतापि तान्दृष्ट्वा स्वाश्रमाभ्यागतान्सुरन् ।
प्रत्युद्गत्वा समानीय स्वासने संन्यवेशयत् ॥१७॥
वीजितान्कृतपच्छौचान्सूपविष्टान्जगौ सती ।
स्वागतं वोद्य किं कार्यं मुनिस्तु तपसे गत: ॥१८॥
त ऊचु: साध्वि नो विद्मस्तप:सक्तमना मुनि: ।
कदाssयातीत्यतो देहि क्षुधितेभ्योन्नमाश्वलम् ॥१९॥
इति श्रुत्वा गिरस्तेषां तथेत्युक्त्वा गृहं गता ।
पात्राण्यासाद्य तेभ्योsन्नं परिविष्टं न्यवेदयत् ॥२०॥
त आहु: साध्वि नो देहि नग्ना भूत्वेत्यपेक्षितं ।
नेदं चेद्रोचतेन्यत्र गच्छाम: क्षुधिता इत: ॥२१॥
तछ्रुत्वापि प्रहस्यैषा ऋषे: संगात्तपस्विन: ।
पूताया मम कामेन किं भवेचेत्तथाsकृते ॥२२॥
शप्त्वा गच्छंति विमुखा महांतोमी ममात्मजा: ।
इति स्वगतमुद्भाव्य तथेत्युक्त्वांशुकं जहौ ॥२३॥
तदैव तेभवन् बाला निर्विकारा अपीश्वरा: ।
जगत्सृडीश्वरहरा: पातिव्रत्यप्रभावत: ॥२४॥
तान्सा तथाविधान्प्रेक्ष्य सचित्राभूद्धृतांशुका ।
पय: प्रसूत्या इवास्यास्तदालं स्तनतोस्रवत् ॥२५॥
सपद्येवाद्भुताविष्टा प्रेम्णा हृष्टतनूरुहा ।
प्रत्येकं पाययामास क्षीरं तेपि पपुर्मुदा ॥२६॥
जगदुत्पत्तिकरणसुश्रांत इव विश्वसृट् ।
पीत्वा पतिव्रतास्तन्यं परमां शांतिमाययौ ॥२७॥
विश्वंभरो विश्वरक्षाक्रियात्रस्त इवामलं ।
पतिव्रतापय: प्राश्य पीनां विश्रांतिमाविशत् ॥२८॥
हरस्तु विश्वसंहारकर्मतष्ट इव क्षणात् ।
सत्यौधस्याशनात्तृप्त: पुष्टिवर्धनतां ययौ ॥२९॥
स्वधर्मज्ञाततत्सत्वा पाययित्वापि तान्पय: ।
सा जगौ तत्कथोद्धातं प्रेम्णा विन्यस्य पालके ॥३०॥
अत्रांतरे वनादेत्य श्रुतगीत: सतीमुखात् ।
सर्व श्रुत्वेश्वरान्ज्ञात्वा ध्यानान्नत्वाsस्तुवन्मुनि: ॥३१॥
विश्वसर्गस्थितिप्रांतनिदानं विश्वसाक्षिणं ।
विष्णुं विश्वमयं वंदे विश्वाद्यं विश्वसंग्रहम् ॥३२॥
तपस्तप्तं यदर्थ्म स त्वमेकोपीश लीलया ।
त्रिधा भूत्वात्मनात्मानं स्वैर्गुणै रमयस्युत ॥३३॥
अध्यारोपापवादाभ्यां समुद्भूतं जगत्तत: ।
अहंममाभिमानेन पार्थक्यं त्वस्य नापरम् ॥३४॥
इति स्तुवति तस्मिंस्ते पालके बालरूपत: ।
स्थिता अप्याद्यरूपै: स्वै: स्थित्वोचुस्तं वरं वृणु ॥३५॥
स प्राह सार्ध्वी सुभगे ब्रह्मविष्णुमहेश्वरा: ।
त्वद्भक्त्याप्ता मनोदूरा अतोभीष्टं वरं वृणु ॥३६॥
साप्याह सुतप: सृष्ट्यै त्रिधाभूतेन वै भवान् ।
सृष्टोमुनामुमेवात: पुत्रत्वेन वृणोत्वजम् ॥३७॥
ऋषि: सोपीदमेवेष्टं मत्वा वव्रे तदेव हि ।
विष्णु: सर्वात्मनाहं ते मया दत्त: किलाब्रवीत् ॥३८॥
पतिव्रताप्रभावोयं बाला भूत्वेश्वरा: स्थिता: ।
स्वस्वप्राग्रूपतोप्येते स्वं स्वं स्थानं ययुस्त्रय: ॥३९॥
पृथङ्नामानि बालेभ्यो ददौ तेभ्योर्थविन्मुनि: ।
पूर्णत्वेन मयाहं ते दत्त इत्युक्तवान् स्वयम् ॥४०॥
भगवानिति नाम्नैनं मुनिर्दत्तं चकार स: ।
ब्रह्माशं चंदनाच्चंद्रमौग्रं दुर्वाससन्तथा ॥४१॥
त्रयाणामप्ययं साक्षाद्दत्तस्तु भगवान्स्वयम् ।
श्रुत्यन्विष्टांघ्र्यब्जरेणु: सच्चिदानंदविग्रह: ॥४२॥
सदेष्टयोगसंविद्द: स्मृतिगामी क्षणे क्षणे ।
चंडोप्यन्योनुग्रहाशीश्चंद्रो जननवर्धन: ॥४३॥
दुर्वास:शापमाश्रुत्य भृदेवार्थमनंतश: ।
धृत्वावतारान् कार्यांते लीलाकायान् जहात्यज: ॥४४॥
परानुग्रहकार्यार्थमवतीर्ण: स्वयं किल ।
दत्तरूपेण कार्यस्य नित्यत्वान्नामुमत्यजत् ॥४५॥
॥ नामधारक उवाच ॥
कुतो दुर्वाससा शप्त: शापोव्यक्ते कथं वद ।
लग्न: परावरेमुं मे संशयं छेत्तुमर्हसि ॥४६॥
सिद्ध उवाच
भक्ताधीनतया त्वेष भगवान् भक्तिभावन: ।
अव्यक्तोप्यस्ति सुव्यक्त: पूर्णातोत्र सहिष्णुता ॥४७॥
पुरांबरीषनामैको भक्तो भागवतोत्तम: ।
एकादशीव्रतपर आसीदभ्यागतार्चक: ॥४८॥
एकदा व्रतभंगाय पारणाहे तदालयं ।
चंड: प्राप्याह दुर्वासा भोजनं मेर्पयेति च ॥४९॥
दास्यामीत्युक्तवत्यस्मिन्मत्वा स्नातुं नदीमरं ।
छिद्रान्वेषी तत्र तस्थौ तरितुं पारणाक्षणं ॥५०॥
सोप्यभुक्ते मुनौ भोज्यं नान्यथा व्रतभंगभी: ।
तीर्थात्तूभयसिद्धिर्म इति मत्वा पपौ जलम् ॥५१॥
तदैत्याह मुनि: पीतं हित्वा मां क्षुधितं यत: ।
दुर्भगानेन दोषेण भ्रमिष्यसि भवे भवे ॥५२॥
इत्युक्त: सोप्यजं भीतो दध्यौ स्वकुलदैवतम् ।
स्वदासजीवनं विष्णुं सोप्यागत्याह तं मुनिं ॥५३॥
मुने मोघं न ते वाक्यं शापं देहि तमेव मे ।
नायं सोढुं प्रभुर्भुक्तवात्सल्यान्मे सहिष्णुता ॥५४॥
इत्याकर्ण्य़ मुनिर्मत्वा भुव्ययं दुर्लभो नृणाम् ।
अंबरीषप्रभावेण शापसंबंधकारणात् ॥५५॥
भविष्यत्यत्र सुलभस्तच्छपाम्येनमित्यसौ ।
तं शशापाप्यज: शापाद्बहुधावतरत्यज: ॥५६॥
अस्यावतारा मत्स्याद्या: पुराणोक्ता हि विश्रुता: ।
द्विवारामाविरासीत्स दीनान् त्रातुं जनान्कलौ ॥५७॥
अद्यापि तौ कामदौ स्त: पामरागोचरौ कलौ ।
यतकालकलौ द्राक्शं सिद्धयेन्नान्यदतोवित: ॥५८॥
इति श्रीगुरु० दत्तावतारकथनं नाम तृतीयोsध्याय: ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:33.1700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खुशबई

  • खुश पहा . 
RANDOM WORD

Did you know?

If the rituals after the death are not performed what are the consequences?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site