TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अथ चतुर्दशोsध्याय:

स्वामि श्री भारतीकृष्णतीर्थ यांनी जी गुरूचरित्राची रचना केली आहे, ती अप्रतिम आहे.


अथ चतुर्दशोsध्याय:
॥ नामधारक उवाच ॥
ज्ञानयोग इयानुक्त: सिद्धयै संन्याससत्पथ: ।
कुतो भगवता पश्चात्कर्मयोग: प्रकाशित: ॥१॥
अविद्याघातकं कर्म तदुत्थं कथमित्यमुम् ।
छिंधि मे संशयग्रंथिं भगवच्चरितासिना ॥२॥
॥ सिद्ध उवाच ॥
कर्कटीं तद्भवा घ्नंति यथा मृत्क्षालनं मृदा ।
तथाsविद्या च कर्मापि कर्मणैव विलीयते ॥३॥
साधनावघि तत्कार्यमुपात्तपरसाधन: ।
तत: संन्यस्य शमवान्भवेन्नैष्कर्म्यसिद्धिभाक् ॥४॥
प्रकृत्यत्थगुणै: कोपि जात्वकर्मा न तत्फले ।
सक्तोsज्ञोsसक्त इद्वद्वानस्येदं लोकसंग्रहे ॥५॥
अहं यथानुतिष्ठामि लोकस्तदनुगो भवेत् ।
नेदं साध्विति मत्वाज: कर्मयोगं जगौ प्रभु: ॥६॥
कर्मयोगमयं तस्य चेष्टितं श्रृणु सादरं ।
यच्छ्रुत्वा भवसम्बन्धं छित्वा याति परं पदं ॥७॥
ब्रह्मध्रुग्यवनो राजा कश्चिद्धिंस्रोभवत्खल: ।
सदस्याहूय विप्रान्स स्वाग्रे वेदानपाठयत् ॥८॥
वेदान्पठंति ये सार्थास्तेभ्यो दास्ये धनं बहु ।
इत्याकर्ण्य़ तदुक्तं ये रैलुब्धास्ते तथाभजन ॥९॥
श्रुत्वा खलोपि वेदार्थं द्विजाग्फ़े ब्राह्मणान्छ्रुती: ।
अकुत्सयद्गवाशेन मिथ्याचारो मतोखिल: ॥१०॥
एवं सत्येकदा विप्रौ वैदिकावेत्य दुर्विधौ ।
मत्तौ तमूचतू राजन्वेदशास्त्रविदौ स्व इत् ॥११॥
अस्मत्तुल्यौ न के क्कापि त्वन्निघ्नाश्चेदिहानय ।
श्रुत्वेदं स्वाश्रितेभ्यो राट् शशंसोचु: खलं हि ते ॥१२॥
न यांति संमुखे केपि तयोस्तत्तौ समर्चय ।
राजाप्यानर्च तौ विप्रौ गजावारोह्य भूषितौ ॥१३॥
जैव्ह्यौपस्थ्यसुखासक्तिनिदानेनेदृशी स्थिति: ।
वेदज्ञानामध:पातशंकावर्जितचेतसां ॥१४॥
॥ विप्रावूचतु: ॥
विद्यापरिश्रमो वादं विना न सफलोस्ति नौ ।
तदाज्ञापय गच्छावो गां जेतुं विदुषो द्विजान् ॥१५॥
स तथाप्यादिशद्विप्रपराभवपरो नृप: ।
जयपत्रं द्विजान्जित्वा गृण्हंतौ चेरतुर्भुवं ॥१६॥
वावदूकतया मिथ्या द्विजांस्तर्जयतो: सदा ।
विवादं त्याजितै: प्राज्ञैर्जयोभूद्विशदस्तयो: ॥१७॥
त्रिविक्रमं त्रयीज्ञं तौ श्रुत्वागत्योचतु: कुरु ।
चेद्वेदज्ञोसि वादं नौ देहि वा जयपत्रमित् ॥१८॥
॥ त्रिविक्रम उवाच ॥
वेदज्ञास्त्वादृशा: पूज्या द्विजौ नाहं तथाविध: ।
यतौ जयाजयसमे जिते किं वां भवेदिह ॥१९॥
पश्येमान्यमितानि त्वं पत्रं देहीति भाषित: ।
ताभ्यां दास्ये गुरोरग्र इत्युक्त्वा श्रीगुरुं ययौ ॥२०॥
तौ मत्तौ स्वासनारूढौ मूढौ तमनुजग्मतु: ।
मठे श्रीगुरुमासाद्य तमस्तौषीत्त्रिविक्रम: ॥२१॥
नम ॐकाररूपाय निर्गुणाय गुणात्मने ।
जगद्गुरो परानन्दमूर्ते जय जयाच्युत ॥२२॥
नाज्ञानांध: परं वेत्ति यं घूक इव भास्करं ।
स त्वं भो मत्तविप्रद्विड्द्विजौ शासितुमर्हसि ॥२३॥
स्तुत्वैवमादित: सर्वं शशंसागमकारणं ।
तौ प्राह गुरुरप्याप्तौ साध्यमेतेन किं द्विजौ ॥२४॥
॥ विप्रावूचतु: ॥
राज्ञाज्ञप्तौ द्विजान्जेतुमावां विद्वत्तमौ भुवि ।
अत्रानीतावनेनोभौ भिक्षू किं वेदपारगौ ॥२५॥
॥ श्रीगुरुरुवाच ॥
गर्वेणैव प्रणष्टा: स्यू राक्षसा असुरा द्विजौ ।
अनादीन्कृत्स्नशोनन्तान्कोपि वेदान्न वेद रे ॥२६॥
ब्रह्मचर्याश्रमे वेदान्पठितुं प्राक्तपोतपत् ।
भरद्वाजो विधि: प्रीतस्तस्मै वेदानदर्शयत् ॥२७॥
दृष्ट्वा भास्वद्वेदराशीन् शंकितोभूदृषिर्ददौ ।
त्रीन्मुष्टीनृषयेद्यापि पठ्यमानो न पारग: ॥२८॥
पैलो वैशम्पायनश्च जैमिनिश्च सुमन्तुक: ।
ऋग्यजु:सामाथर्वाख्या अशिक्षंत श्रुती: क्रमात् ॥२९॥
गुरुर्व्यासो हरि: साक्षात्ततोत्र प्रसृता श्रुति: ।
पठिता: कतिचिद्वेदा आयुष्माद्भिर्युगान्तरे ॥३०॥
शाखयैवाल्पायुषोsत्र मंदा वेदज्ञमानिन: ।
प्रतिग्रहपरान्नस्त्रीसक्ता: सिद्धिविवर्जिता: ॥३१॥
व्यासेनोक्ताश्चतुर्वेदा: शाखांगोपांगसंयुता: ।
आयुर्वेदस्ततो रुघृदृग्वेदस्योपवेद उत् ॥३२॥  
स्वर्णोत्रिगोत्रजो गायत्त्रच्छंदो ब्राह्मदैवत: ।
द्व्यरत्निमात्रो दीर्घाक्ष ऋग्वेदो व्यक्तकंधर: ॥३३॥
शाकला बाष्कला तस्या: सांख्यायन्याश्वलायनी ।
मांडूक्येत्थं पंच शाखा अष्टौ विकृतयस्त्वृच: ॥३४॥
निरुक्तं व्याकृतिर्ज्योतिश्छंद: शिक्षा च कल्पक: ।
अस्येमानि षडंगानि वेत्तीमं कोद्य कृत्स्नश: ॥३५॥
पंचारत्निमितोर्काभ: कपाली कृशदीर्घक: ।
यजुर्वेदो धनुर्वेद: क्षत्रेष्टोस्योपवेद उत् ॥३६॥
त्रिष्टुप्छंदो भरद्वाजगोत्रजो विष्णुदैवत: ।
षडशीतिभिदोंगानि प्राग्वदष्टादशास्य तु ॥३७॥
परिशिष्टान्युपांगानि षडेवैष इयान् तत: ।
क्षमी दांत: शुचि: स्रग्वी चर्मी दण्डी तृतीयक: ॥३८॥
षडरत्निमितोस्योपवेदो गान्धर्वसंज्ञक: ।
रुद्राधिदेवो जगतीच्छंद: काश्यपगोत्रज: ॥३९॥
हता नष्टाश्चापि शिष्टा नवाष्टौ च भिदोस्य तु ।
सामांगोपांगभेदेन क: पुमान्वेदितुं क्षम: ॥४०॥
चण्डस्तीक्ष्णोसित: कामरूपी क्षुद्रक्रियोशुभ: ।
स्वदारातुष्टोथर्वाख्य: शस्त्रास्त्रोपांगवेद उत् ॥४१॥
बैजानगोत्रजोनुष्टुप्छंदा एषैन्द्रदैवत: ।
नवास्य भेदा: सम्पूर्णा: कल्पा: पंचात्र वेत्ति क: ॥४२॥
वर्षेद्य भारते कर्मभ्रष्टा हीना द्विजातय: ।
वेदान्क्रीणंत्यंत्यजाग्रे सत्वहीना अतोभवन् ॥४३॥
उत्सृष्टोपाकृताभ्यस्तगुप्तवेदमनुर्भुवि ।
किं न दास्यति विप्रेभ्य: प्रत्येक: कामधेनुवत् ॥४४॥
देवाधीनं जगन्मंत्रनिघ्ना देवास्तु मंत्रका: ।
ब्रह्माधीना ब्राह्मणा मे देवता विष्णुवब्रवीत् ॥४५॥
सर्वस्वदक्षिणा भूपैर्दत्तापि ब्राह्मणै: पुरा ।
नात्ता कृतोद्रिस्तृणवत्सुसत्वाच्चाद्रिवत्तृणं ॥४६॥
वशसर्वामरास्तेपि तदा स्वल्पज्ञमानिन: ।
युवां भ्रष्टौ भ्रष्टमंत्रौ स्वल्पज्ञौ प्राज्ञमानिनौ ॥४७॥
आत्मस्तुतिपरौ ब्रह्मद्विषौ साध्वात्मवंचकौ ।
त्वत्तुल्या ये पुरा जाता जातास्ते ब्रह्मराक्षसा: ॥४८॥
॥ विप्रावूचतु: ॥
नैतावछ्रोतुमाप्तौ स्वो विवादं कुरु चेन्न वां ।
तच्छक्तिर्जयपत्रं नौ युवाभ्यां दीयतामिति ॥४९॥
तथेत्युक्त्वोद्वीक्ष्य यांतमानयित्वांत्यजं प्रभु: ।
लेखा उल्लिख्य सप्ताभ्युत्क्रामयन्तमवाचयत् ॥५०॥
प्राचीनसप्तजन्मज्ञो रेखास्पर्शनतोभवत् ।
आद्यां गत्वास्मि बुरडो मातंग इति भाषितम् ॥५१॥
द्वितीयां तु किरातोत्थो रावण्याख्य इतीरितं ।
तृतीयां च नदीतीरस्थो गांगेय इतीरितं ॥५२॥
चतुर्थीं वै कृषिपटु: शूद्रोस्मीत्यभिभाषितं ।
पंचमीं सोमदत्ताख्यो वैश्योस्मीत्युदितं तत: ॥५३॥
षष्ठीं गोवर्धनाख्योहं क्षत्र: शूर इतीरितं ।
सप्तमीं वेदशास्त्रज्ञो ब्राह्मणोस्मीति भाषितं ॥५४॥
तदास्य मंत्रितं भस्म क्षिप्त्वांगे प्रभुराह तं ।
चेद्वेदज्ञोसि विप्रौ द्राग्विवादेन पराजहि ॥५५॥
इति श्रुत्वेशवाक्यं तौ प्रत्याहतधियौ भिया ।
कंपितौ श्रीगुरुं गत्वा विप्रौ शरणमूचतु: ॥५६॥
ब्रह्मद्विषौ स्व: पापिष्ठौ दुष्टसंगाहितभ्रमौ ।
मूढौ नौ दुर्गतिं यांतौ समुद्धर्तुं हरेर्हसि ॥५७॥
॥ श्रीगुरुरुवाच ॥
म्लेछाग्रे पठिता वेदा धिक्कृता ब्राह्मणा यति: ।
तत्कर्मपरिपाकार्थं राक्षसौ द्राग्भविष्यथ: ॥५८॥
सन्तप्तत्वाद्द्वादशाब्दानुषित्वा शांतरूपत: ।
पठ्यमानानुवाकोपदेशाद्विप्राय वां गति: ॥५९॥
इत्युक्तौ गुरुणा गत्वा भीमां स्नात्वा मृतावुभौ ।
राक्षसौ गुरुवाक्यातौ भूत्वा तत्रैव तस्थतु: ॥६०॥
तत्र यान्द्वादशाब्दांते द्विजो विस्मृतवान्मनुं ।
तस्मै शशंसतुस्तं तौ तदा मुक्तौ स्वरीयतु: ॥६१॥
स्वधर्ममुत्सृज्य मदेन ये द्विजान् गुरून् द्विषंत: खलु राक्षसा वने ।
भवंति पापोपि यदानुतापित: कनिष्ठशिक्षो भवति द्विजाविव ॥
इति श्रीगुरुचरिते कर्मयोगे वेदोपदेशो नाम प्रथमोsध्याय: ॥१॥
आदितश्चतुर्दशोsध्याय: ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-12-16T21:09:34.1230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

जलयात्रा

  • f  A journey by water, a voyage. 
RANDOM WORD

Did you know?

घरातील देव्हार्‍यात कोणते देव पूजावेत आणि कोणते नाही?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site